Page loading... Please wait.
6|2|87 - प्रस्थेऽवृद्धमकर्क्यादीनाम्‌
॥ तस्मै पाणिनये नमः ॥
6|2|87
SK 3821
प्रस्थेऽवृद्धमकर्क्यादीनाम्‌   🔊
सूत्रच्छेदः
प्रस्थे (सप्तम्येकवचनम्) , अवृद्धम् (प्रथमैकवचनम्) , अ-कर्क्यादीनाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
आदिरुदात्तः  6|2|64
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितम् अवृद्धं पूर्वपदम् आद्युदात्तं भवति। इन्द्रप्रस्थः। कुण्डप्रस्थः। ह्रदप्रस्थः। सुवर्णप्रस्थः। अवृद्धम् इति किम्? दाक्षिप्रस्थः। माहकिप्रस्थः। अकर्क्यादीनाम् इति किम्? कर्कीप्रस्थः। मघीप्रस्थः। कर्की। मघी। मकरी। कर्कन्धू। शमी। करीर। कटुक। कुरल। बदर। कर्क्यादिः।
प्रस्थशब्दो यदि व्युत्पाद्यते `घञर्थे कविधानं स्थास्नपाव्यधिहनियुध्यर्थम्` (वा।306) इति, तदा थाथादिस्वरे 6|2|143 प्राप्ते। अथ न व्युत्पाद्यते, तदा समासान्तोदात्तत्वे। `इन्द्रप्रस्थः` इत्यादयः षष्ठीसमासाः॥
मालीदीनां च इति वचनादवृद्धमिति पदच्छेदः । कर्क्यादिप्रतिषेधस्तु नामधेयार्थः स्यात् - वुअ नामधेयस्य वृद्धसंज्ञा वक्तव्या इति ॥
सिद्धान्तकौमुदी
प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.