Page loading... Please wait.
6|2|2 - तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
॥ तस्मै पाणिनये नमः ॥
6|2|2
SK 3736
तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः   🔊
सूत्रच्छेदः
तत्पुरुषे (सप्तम्येकवचनम्) , तुल्यार्थ-तृतीया-सप्तसप्तमी-उपमान-द्वितीया-कृत्याः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्पुरुषे समासे तुल्यार्थं तृतीयान्तं सप्तम्यन्तम् उपमानवाचि अव्ययं द्वितीयान्तं कृत्यान्तं च यत् पूर्वपदं तत् प्रकृतिस्वरं भवति। तुल्यार्थ तुल्यार्थ तुल्यश्वेतः। तुल्यलोहितः। तुल्यमहान्। सदृक्श्वेतः। सदृशमहान्। एते कृत्यतुल्याऽख्या अजात्या 2|1|68 इति कर्मधरयाः। तत्र तुल्यशब्दः यतो ऽनावः 6|1|213 इत्याद्युदात्तः। सदृक्शब्दः समानान्ययोश्च इति क्विन्प्रत्ययान्तः, कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः। सदृशशब्दो ऽपि कञन्तो मध्योदात्तः। तुल्यार्थ। तृतीया शङ्कुलया खण्डः शङ्कुलाखण्डः। किरिणा काणः किरिकाणः। शङ्कुपूर्वाल् लातेः घञर्थे कविधानम् इति वा कप्रत्ययान्तः शङ्कुलाशब्दो ऽन्तोदात्तः। किरिशब्दो ऽपि किरतेः कृ̄गृ̄शृ̄पृ̄कुटि भिदिच्छिदिभ्यश्च इति इकारप्रत्ययः किदौणादिकः, तेन असावन्तोदात्तः। तृतीया। सप्तमी अक्षेषु शौण्डः अक्षशौण्डः। पानशौण्डः। अशेर्देवने इति सप्रत्ययान्तो ऽक्षशब्दो ऽन्तोदात्तः। पानशब्दो ल्युडन्तो लित्स्वरेण आद्युदात्तः। सप्तमी। उपमान शस्त्रीश्यामा। कुमुदश्येनी। हंसगद्गदा। न्यग्रोधपरिमण्डला। दूर्वाकाण्डश्यामा। शरकाण्डगौरी। उपमानानि सामान्यवचनैः 2|1|55 इति समासः। शस्त्रीशब्दो ङीष्प्रत्ययान्तो ऽन्तोदात्तः। कुमुदशब्दो ऽपि कौ मोदते इति मूलविभुजादित्वात् कप्रत्ययान्तः, नब्विषयस्य अनिसन्तस्य इति वा आद्युदात्तः। हंसशब्दो वृ̄तृ̄विदिहनिकमिकशिभ्यः सः इति सप्रत्ययन्तः। न्यग्रोहति इति न्यग्रोधः, पचादित्वादच्प्रत्ययान्तः तस्य न्यग्रोधस्य च केवलस्य 7|3|5 इति निपातनाद् हकारस्य धकारो मध्योदात्तत्वं च। दूर्वाकाण्डशरकाण्डशब्दौ षष्ठीतत्पुरुषावुत्तरपदाद्युदातौ। उपमान। अव्यय अब्राह्मणः। अवृषलः। कुब्राह्मणः। कुवृषलः। निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। एतान्यव्ययान्याद्युदात्तानि। अव्यये नञ्कुनिपातानाम् इति वक्तव्यम्। इह मा भूत्, स्नत्वाकालकः इति। अव्यय। द्वितीया मुहूर्तसुखम्। मुहूर्तरमणीयम्। सर्वरात्रकल्याणी। सर्वरात्रशीभना। अत्यन्तसंयोगे च 2|2|21 इति द्वितीयासमसः। मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः। सर्वरात्रशब्दो ऽप्यच्प्रत्ययान्तः। द्वितीया। कृत्य भोज्योष्णम्। भोज्यलवणम्। पानीयशीतम्। हरणीयचूर्णम्। भोज्यशब्दो ण्यदन्तो ऽन्तस्वरितः। पाणीयहरणीयशब्दयोः उपोत्तमं रिति 6|1|217 इति ईकार उदात्तः।
`यतोऽनाव इत्याद्युदात्तः` इति। `नौवयोधर्म` 4|4|91 इत्यादिना यत्प्रत्ययान्तस्य तुल्यशब्दस्य व्युत्पादितत्वात्--तुलया सम्मितं तुल्यमिति। `सदृक्शब्दः` इत्यादि। `त्यादादिषु दृशोऽनालोचने कञ्च` 3|2|60 इत्यत्र `समानान्ययोश्चेति वक्तव्यम्` (वा।261) इत्युपसंख्यानं कृतम्, तेन सदृक्छब्दः कन्नन्तः। `दृग्दृशतुषु` 6|3|88 इति समानस्य सभावः। `सदृशशब्दोऽपि` इत्यादि। कृदुत्तरपदप्रकृतिस्वरेणेत्यपेक्षते। `इकारः प्रत्ययः` [इकारप्रत्ययः--काशिका] इति। तत्र `अत्र इः` (द।उ।1।67) इत्यत इकार प्रत्ययानुवृत्तेः। `कित्` इति। `भुजेः किच्च` (द।उ।1।71) इत्यतः किद्ग्रहणानुवृत्तेः। `सप्रत्ययान्तोऽक्षशब्दः` इति। `अशेर्देवने` (द।उ।9।24) इत्यत्र `वृतृवदिहनिकमिकषिभ्यः सः` (द।उ।9।21) [`कमिकषियुमुचिभ्यः`--द।उ।] इत्यतः सप्रतययानुवृत्तेः। `नब्विषयस्य` इति। नपुंसकलिङ्गविषयस्येत्यर्थः। `मध्योदात्तत्वञ्च` इति। `न्यग्रोधस्य च केवलस्य` इति। निपातनादित्यनेन सम्बन्धः। `अब्राआहृणः` इति। नञ्समासः। `कुब्राहृणः` इत्यादौ `कुगतिप्रादयः` 2|2|18 इति। `एतान्यव्ययान्याद्युदात्तानि` इति। `निपाता आद्युदात्ताः` (फि।सू।80) इति वचनात्, एषां च निपातत्वात्। तत्र न्कुशब्दयोः `चादयो।सत्वे` 1|4|57 इति चादिषु पाठान्निपातत्वम्, निरतिशब्दयोस्तु `प्रादयः` 1|4|58 इति, तयोः प्रादिषु पाठात्। `अव्यये` इत्यादि। अव्यये पूर्वपदे प्रकृतिभावे कत्र्तव्ये नञ्प्रभृतीनामेव भवतीत्येतदर्थरूपं व्याख्येयम्। तत्रेदं व्याख्यानम्--`चङ्यन्यतरस्याम्` 6|1|212 इत्यतोऽनयतरस्यांग्रहणमनुवर्तते; सा च व्यवस्थितविभाषा, तेन नञ्कुनिपातानामेव भविष्यतीति। `स्वात्वाकालकः` इति। `मयूरव्यंसकादित्वात्` 2|1|71 समासः `क्त्वातोसुन्कसुनः` 1|1|39 इति पूर्वपदस्याव्ययत्वम्। `मुहूत्र्तसुखम्` इत्यादौ `कालाध्वनोरत्यन्तसंयोगे` 2|3|5 इति द्वितीया। `सर्वरात्रशब्दोऽप्यच्प्रत्यान्तः` इति। सर्वा च रात्रिश्चेति `पूर्वकालैक` 2|1|48 इत्यादिना समासे `अहः सर्वैक` 5|4|87 इत्यादिनाचप्रत्ययविधानात्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्या (कौमुदी-749) इति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् (प॒त॒यन्म॑न्द॒यत्स॑खम्) । मन्दयति मादके इन्द्रे । सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा ॥ ।अव्यये नञ्कुनिपातानाम् (वार्तिकम्) ॥ अयज्ञो वा एषः । परिगणनं किम् । स्नात्वाकालकः । मुहूर्तसुखम् । भोज्येष्णम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः (2662) (6325 एकदेशिनः प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।) - तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः - तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधो वक्तव्यः । परमं कारकम् ‐ -परमकारकम् । परमेण कारकेण ‐ -परमकारकेण । परमे कारके ‐ -परमकारके इति ।। (6326 उपसंख्यानानर्थक्यबोधकं वार्तिकम् ।। 2 ।।) - सिद्धं तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् - सिद्धमेतत् । कथम् ? लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति प्रतिपदं यो द्वितीयासप्तमीतृतीयासमासस्तस्य ग्रहणम्, लक्षणोक्तश्चायम् ।। (वार्तिकावतरणभाष्यम्) अव्यये परिगणनं कर्तव्यम् ।। (6327 परिगणनोपसंख्यानवार्तिकम् ।। 3 ।।) - अव्यये नञ्ञ्कुनिपातानाम् - अव्यये नञ्ञ्कुनिपातानामिति वक्तव्यम् । नञ्ञ् ‐ अब्राह्मणः, अवृषलः । नञ्ञ् ।। कु ‐ -कुब्राह्मणः, कुवृषलः । कु ।। निपात ‐ -निष्कौशाम्बिः, निर्वाराणसिः । क्व मा भूत् ? स्नात्वाकालकः, पीत्वास्थिरकः । (6328 एकदेशिन उपसंख्यानवार्तिकम् ।। 4 ।।) - क्त्वायां वा प्रतिषेधः - क्त्वायां वा प्रतिषेधो वक्तव्यः । स्नात्वाकालकः, पीत्वास्थिरकः ।। उभयं न वक्तव्यम् ।। (6329 सिद्धान्तवार्तिकम् ।। 5 ।।) - निपातनात्सिद्धम् - निपातनादेतत्सिद्धम् । किं निपातनम् ? अवश्यमत्र समासार्थं ल्यबभावार्थं च निपातनं कर्तव्यम्, तेनैव यत्नेन स्वरो न भविष्यति ।।