Page loading... Please wait.
6|2|174 - ह्रस्वान्तेऽन्त्यात्‌ पूर्वम्
॥ तस्मै पाणिनये नमः ॥
6|2|174
SK 3908
ह्रस्वान्तेऽन्त्यात्‌ पूर्वम्   🔊
सूत्रच्छेदः
ह्रस्वान्ते (सप्तम्येकवचनम्) , अन्त्यात् (पञ्चम्येकवचनम्) , पूर्वम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अन्तः  6|2|143
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ह्रस्वो ऽन्तो यस्य तदिदं ह्रस्वान्तम् उत्तरपदं समासो वा, तत्र अन्त्यात् पूर्वम् उदात्तं भवति कपि परतो नञ्सुह्रां परं बहुव्रीहौ समासे। अयवको देशः। अव्रीहिकः। अमाषकः। सुयवकः। सुव्रीहिकः सुमाषकः। पूर्वम् इति वर्तमने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम्, ह्रस्वान्ते ऽन्त्यात् पूर्वम् उदात्तं भवति, न कपि पूर्वम् इति। तेन अज्ञकः, सुज्ञकः इत्यत्र कबन्तस्य एव अन्तोदात्तत्वं भवति।
`ह्यस्वोऽन्तोऽस्य` इत्यादि। अनेन ह्यस्वान्त इत्यस्यैव बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वेति दर्शयति। `अयवको देशः` इति। अत्र कपि परतो यव इत्येतत्? ह्यस्वान्तमुत्तरपदम्, अयव इत्ययं वा समासः। तत्रान्त्याद्वकारात्, पूर्वमक्षरं यकाराकार उदात्तो भवति। अनया दिशान्यत्रापरि वेदितव्यम्।अथ पूर्वग्रहणं किम्, यावता `कपि पूर्वम्` 6|2|173 इत्यतः पूर्वमिति वर्तत एव? इत्यत आह--`पूर्वमिति वर्तमाने` इत्यादि। द्वितीये हि पूर्वग्रहणे क्रियमाणे वाक्यभेदेन प्रवृत्तिभेदो भवति; पूर्वग्रहणसामथ्र्यात्, अन्यथा हि तदपार्थकं स्यात्। तत्रैकय प्रवृत्त्या ह्यस्वन्तेऽन्त्यात्? पूर्वमन्तोदात्तं विथधीयते। अपरया तु ह्यस्वान्तेऽन्त्यात्? पूर्वमन्तोदात्तं न भवतीति नियमः। तेन कपि पूर्वमन्तोदात्तं न भवति। `तेन` इत्यादिना नियमो न स्यात्, तदात्रान्त्यात्? पूर्व उदात्तभावो नास्तीति कपि पूर्वमन्तोदात्तं स्यात्। `कपि पूर्वम्` 6|2|172 इत्यनेन नियमे तु सति न भवति। तेन `नञ्सुभ्याम्` 6|2|171 इति कबन्तस्यैवान्तोदात्तत्वं भवति। यथा च स भवति तथात्रैवोपपादितम्॥
ह्रस्वान्ते इत्यस्य बहुव्रीहेरन्यपदार्थ उतरपदं समासो वेत्याह - ह्रस्वोऽन्तो यस्यत्यादि । अत्र च कपि परतः इति पृथग्वचनातद्रहितमुतरपदं समासश्च गृह्यते, पूर्वग्रहणमनर्थकम्, कपि पूर्वमित्यनुवृतेः इत्यत आह - पूर्वमिति वर्तमाने इत्यादि । द्वितीये पूर्वग्रहणे सति प्रवृत्तिभेदो भवति, तत्रैकया प्रवृत्या ह्रस्वान्तऽन्त्यात्पूर्वस्योदातत्वं विधीयते, अपरया तु नियम्यते - ह्रस्वान्तेऽन्स्यादेव पूर्वमुदातं भवति, न तु कपि पूर्वमिति। तेन किं सिद्धं भवति तत्राह - तेनेति । नास्त्यस्य ज्ञ इत्यज्ञकः, शोभनो ज्ञोऽस्येति सुज्ञकः । तत्र यद्येष नियमो न स्यात्, ततोऽन्त्यात्पूर्व उदातभावी नास्तीति कपि पूर्वम् इत्ययमेव स्वरः स्यात् । अस्मिस्तु नियमे सति न भवति, नञ्सुभ्याम् इति कबन्तस्यैव भवति । यथा च कबन्तस्य भवति तथा तत्रैव प्रितपादितम् । व्यक्तिपक्षाश्रयणे चैतत्पूर्वग्रहणं कृतम् । जातिपक्षाश्रयणे तु यथा हलादिः शेषः इत्यत्र क्वचिदपि वर्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति, (तथैव ) ह्रस्वान्तेऽन्त्यात्पूर्वम् इत्यत्रापि ह्रस्वजातेराश्रयणात्सर्वत्र ह्रस्वान्ते तक्रकौण्डिन्यन्यायेन कपि पूर्वम् इत्यस्याप्रवृत्तिः सिध्यति ॥
सिद्धान्तकौमुदी
ह्रस्वान्त उत्तरपदे समासे वान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.