Page loading... Please wait.
6|2|170 - जातिकालसुखादिभ्योऽनाच्छादनात्‌ क्तोऽकृतमितप्रतिपन्नाः
॥ तस्मै पाणिनये नमः ॥
6|2|170
SK 3904
जातिकालसुखादिभ्योऽनाच्छादनात्‌ क्तोऽकृतमितप्रतिपन्नाः   🔊
सूत्रच्छेदः
जाति-काल-सुखादिभ्यः (पञ्चमीबहुवचनम्) , अनाच्छादनात् (पञ्चम्येकवचनम्) , क्तः (प्रथमैकवचनम्) , अ-कृतमितप्रतिपन्नाः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अन्तः  6|2|143
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जातिवाचिनः आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासे ऽन्तोदात्तं भवति। सारङ्गजग्धः। पलाण्डुभक्षितः। सुरापीतः। काल मासजातः। संवत्सरजातः। द्व्यहजातः। त्र्यहजातः। सुखादिभ्यः सुखजातः। दुःखजातः। तृप्रजातः। जात्यादिभ्यः इति किम्? पुत्रजातः। आहिताग्न्यादित्वात् परनिपातः। अनाच्छादनातिति किम्? वस्त्रच्छन्नः। वसनच्छन्नः। अकृतमितप्रतिपन्नाः इति किम्? कुण्डकृतः। कुण्डमितः। कुण्डप्रतिपन्नः। एतेसु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्येव अस्मादेव ज्ञापकात्। प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः। सुखादयस्तृतीये ऽध्याये पठ्यन्ते।
`शाङ्गरजग्धः` इति। गुणातेरितेर्वा `शमि धातोः संज्ञायाम्` 3|2|14 इत्यच्? शङ्गरः, ततोऽपि प्रज्ञादेराकृतिगणत्वादण्। तेन शाङ्गरशब्दोऽन्तोदात्तः। `पलाण्डुभक्षितः` इति। `पल गतौ` (धातुपाठः-839) `उणादयो बहुलम्` 3|3|1 इत्याण्डुप्रत्ययः तेन पलाण्डुशब्दो मध्योदात्तः। `सुरपीतः` इति। `सुसूधागुधिभ्यः क्रन्` (द।उ।य8।42) इति सुराशब्द आद्युदात्तः। `मासजातः` इति। `मसी परिमाणे` (धातुपाठः-1221) [`परिणामे`धातुपाठः-] अस्माद्घञ्, तेन मास आद्युदात्तः। `संवत्सरजातः` इति। `अशेः सरः` (द।उ।8।50) [`सरन्`--द।उ।प।उ। (3।70)] इत्यधिकृत्य `वसेश्च` (द।उ।8।51) `सम्पूर्वाच्चित्` (द।उ।8।52) इति। तेन संवत्सरोऽन्तोदात्तः। `द्व्यहजातः। त्र्यहजातः` इति। द्वित्रिशब्दावन्तोदाततावित्युकतम्। `सुखजातः` इति। खनतेः सुपूर्वात्? `अन्येष्वपि दृश्यते` 3|2|101 इति डः। तेन सुखशब्दोऽन्तोदात्तः। एवं दृःखशब्दोऽपि वेदितव्यः। तेन तृप्रशब्दोऽन्तोदात्तः। `कृच्छ्रजातः` इति। `कृतेच्छः क्रू च` (द।उ।8।38,पं।उ।2।21) [`कृते च्छक्? च--द।उ। `कृतेश्छक्रू च`--पं।उ।] इति कृच्छ्रशब्दोऽन्तोदात्तः। `असु क्षेणपे` (धातुपाठः-1209) अस्माद्? `बहुलमन्यत्र#आऽपि` (द।उ।8।40) इति रक्, तेनास्लमन्तोदात्तम्। `वृतृवदहनिकमिकषिब्यः सः` (द।उ।9।21) [कषियुमुचिभ्यः--द।उ।] इति बहुलवचनादमेरपि भवति। अंसो वृषादित्वादाद्युदात्तः। `अलकम्` इति। अलतेः `पुंसि संज्ञायां घः प्रायेण` 3|3|118 , ततः कन्निति कन्नन्तोऽप्लकशब्दः। तेनाद्युदात्तः। `कृवृदारिभ्य उनन्` (पं।उ।3।53), तेन करुणशब्द आद्युदात्तः। `रञ्जेः क्वुन्` () इति बहुलवचनात्? कृपेरपि भवति। तेन कृपणमाद्युदात्तम्। `सोढः` इति क्तान्तम्। तेनैतदन्तोदात्तम्। पूर्ववद्घत्वढत्वादयः कत्र्तव्याः। `प्रतीयम्` इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। `ऋक्पूः` 5|4|74 इत्यादिनाऽकारः समासान्तः, `द्व्यन्तरुपसर्गेभ्योऽपि ईत्` 6|3|96 इतीत्त्वम्। `पुत्रजातः` इति। अत्र बहुव्रीहिस्वर एव भवति। `अमिचिमिदिशसिभ्यः क्त्रः` (द।उ।8।86) `पुवो ह्यस्वश्च` (पं।3.4.164) तेन पुत्रशब्दोऽन्तोदात्तः। कथं पुनर्जातशब्दस्य परनिपातः, यावता `निष्ठा` 2|2|36 इति पूर्वनिपातेनात्र भवितव्यम्? इत्यत आह--`आहिताग्न्यादित्वात्` इत्यादि। पुत्रजातशब्दोऽयमाहितागन्यादिषु षठते, तेन `वाऽ‌ऽहितागन्यादिषु` 2|2|37 इति जातादिशब्दसय परनिपातः। `वस्त्रच्छन्नः` इति। वस्त्रम्ाच्छादनम्, आच्छाद्यतेऽनेनेति कृत्वा। वस्त्रशब्द उक्तस्वरः। छन्नशब्दः `छद अपवारणे` (धातुपाठः-1833) इत्यस्य ण्यन्तस्य निष्ठायां `वा दन्तशान्त` 7|2|27 इत्यादिना निपातितः। `वसनच्छन्नः` इति। वसेराच्छादनार्थाल्ल्युट्। तेन वसनमाद्युदात्तम्। `कुण्डलकृतः` इति। कुण्डशब्दोऽयं `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्तः। `कुण्डमितः` इति। `माङ् माने` (धातुपाठः-1142), `द्यतिस्यति` 7|4|40 इत्यादिनेत्त्वम्। अथ कथमेतेषु बहुव्रीहिषु `निष्ठा` 2|2|36 इत्यनेन निष्ठान्तस्य पर्वनिपातो न भवति? इत्याह--`एतेषु` इत्यादि। यस्मादेतत्? कृतम्, तस्माज्जात्यादिभ्यः परस्यान्तोदात्तत्वबिधानाम्। एतस्मादेव ज्ञापकान्निष्ठान्तस्य पूर्वनिपातो न भवति; अन्यथा ह्रेतदन्तोदात्तत्वविदानं नोपपद्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.