Page loading... Please wait.
6|2|154 - मिश्रं चानुपसर्गमसंधौ
॥ तस्मै पाणिनये नमः ॥
6|2|154
SK 3888
मिश्रं चानुपसर्गमसंधौ  
सूत्रच्छेदः
मिश्रम् (प्रथमैकवचनम्) , च (अव्ययम्) , अनुपसर्गम् (प्रथमैकवचनम्) , असन्धौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अन्तः  6|2|143
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तृतीया इति वर्तते। मिश्र इत्येतदुत्तरपदम् अनुपसर्गं तृतीयान्तात् परम् अन्तोदात्तं भवति असन्धौ गम्यमाने। गुडमिश्राः। तिलमिश्राः। सर्पिर्मिश्राः। मिश्रम् इति किम्? गुडधानाः। अनुपसर्गम् इति किम्? गुडसंमिश्राः। इह अनुपसर्गग्रहणं ज्ञापकम् अन्यत्र मिश्रगहणे सोपसर्गग्रहणस्य। तेन मिश्रश्लक्ष्णैः इति सोपसर्गेण अपि मिश्रशब्देन तृतीयासमासो भवति। असन्धौ इति किम्? ब्राह्मणमिश्रो राजा। ब्राह्मणैः सह संहितः ऐकार्थ्याम् आपन्नः। सन्धिः इति हि पणबन्धेन ऐकार्थ्यम् उच्यते। केचित् पुनराहुः गृह्यमाणविशेषा प्रत्यासत्तिः सन्धिः इति। अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्तिविभागो गृह्यते इति ब्राह्मणमिश्रो रजा इति प्रत्युदाह्रियते। उदाहरणेष्वविभागापत्तिरेव गुडमिश्राः इति।
`गुडमिश्राः` इति। पूर्ववत्? `पूर्वसदृश` 2|1|30 इत्यादिना समासः। गुडशब्दः `इगुपध` 3|1|135 इति `गुड रक्षायाम्` (दा।पा।1370) इत्यस्मात्? कः, तेनान्तोदात्तः। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना रग्विधीयमानो बहुलवचनान्? मिशेरपि रग्भवति, तेन मित्रशब्दोऽन्तोदात्तः। तिलशब्दः `तृणधान्यानाञ्च द्व्यषाम्` (फि।सू।2।27) इत्याद्युदात्तः। प्रमिश्रम्, सन्मिश्रमित्यस्य प्राप्नोति, अतस्तन्निवृत्तयेऽनुपसर्गग्रहणं क्रियते? इत्याह--`इह` इत्यादि। अथ वा--मिश्रशब्देन तृतीयासमास उच्यमानः कथं सोपसर्गे लभ्यते? इत्याह--`इह` इत्यादि। यदि तदिहानुपसर्गग्रहणं क्रियते, तह्र्रन्यत्र मिश्रशब्दग्रहणे सोपसर्गस्य ग्रहणं नास्तीतीहानुपसर्गग्रहणमनर्थकं स्यात्। `तेन` इत्यादि। ज्ञापनस्य प्रयोजनं दर्शयति। `ब्राआहृणमिश्रो राजा` इति। `पूर्वसदृश` 2|1|30 इत्यादिनैव समासः। `ब्राआहृणैः सह संहितः` इत्यनेन प्रत्युदाहरणे सन्धिं दर्शयति। `ऐकार्थमापन्नः` इति। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। एकः=अभिन्नोऽर्थो यस्य स एकार्थः, तद्भाव ऐकाथ्र्यम्। तदापन्नः प्राप्त इत्यर्थः। कथं पुनज्र्ञायते--सन्धिशब्दस्यायमर्थः? इत्याह--`सन्धिः` इत्यादि। पणबन्धः=परिभाषणम्--यदि मे भवानिदं कुर्यात्? ततोऽहमपि भवत इदं करिष्यामीत्येवञ्जातीयकम्। तेन पणबन्धेन यदैकाथ्र्यं तत्? सन्धिरुच्यते। तस्मात्? प्रत्युदाहरणे सन्धौ सति ब्राआहृणैः सह संहित ऐकाथ्र्यमापन्नः--इत्येषोऽर्थो विज्ञायते। `केचित्? पुनराहुः` इत्यादि। गृह्रमाणो विशेषो यस्यां प्रत्यासत्तौ सा गृह्रमणविशेषा सन्धिरिति केचिदेवमाहुः, तत्रैव स्यात्। एवंविधः सन्धिः प्रत्युदाहरणे नास्तीत्यत आह--`अत्र राज्ञो ब्राआहृणौ सह` इत्यादि। यद्यपि राज्ञा ब्राआहृणैः सह प्रत्यासत्तिः=देशसामीप्यमस्ति, तधापि सत्यामपि तस्यां मूर्तिविभागो मूर्तिविशेषो राज्ञो ब्राआहृणानाञ्च गृह्रत इत्येव। इतिकरणो हेतौ। यत एवम्, तेन ब्राआहृणैः सह मिश्रो राजेति प्रतयुदाह्यियते। `उदाहणेष्वविभागापत्तिरेव` इति। एतेन गृडमिश्रा इत्यादौ तु सन्धेरभावं दर्शयति। यथा हि विलीनेन मिश्रा धानादयो भवन्ति, तथास्य गुडाः, तेषां च मूर्त्तिविभागो न गृह्रते; न तत्र सन्धेरविभागापत्तिरिति। न विभागोऽविभागः, तस्यापत्तिः=प्राप्तिः। यदा पणबन्धेनैकाथ्र्यं सन्धिस्तदोदहरणेषु तस्याभावो वेदितव्यः स हि परिभाषणविशेषणलक्षणः। न चासौ गुडमिश्रेषु धानास्वचेतनेषु विद्यते; तस्य प्राणिधर्मत्वात्॥
कथं पुनर्मिश्रशब्दस्य विधीयमानः सम्मिश्रशब्दस्य प्राप्वोति, कथं वा मिश्रशब्देन समान उच्यमानः सोपसर्गेण लभ्यते अत आह - इहेत्यादि । प्रत्युदाहरणे सन्धिं दर्शयति - बाह्मकणैरिति । एतदेव स्पष्ययति - एकार्थ्यमापच इति । कथं पुनः सन्धिशब्दस्यायमर्थः इत्याह - सन्धिरिति । पणबन्धः - परिभाषणम् - यदि मे भवानेषं कुर्यादहमपि ते इदं करिष्यामीत्येवंरुपः । केचित्पुनरिति । गृह्यमाणो विशेषो व्यावृत्तिर्थस्यां प्रत्यासतो सा तथोक्ता । ततः किम् इत्याह - तत्रेति । यद्यपि राज्ञोऽपि ब्राह्मणैस्सह प्रत्यासतिरस्ति, तथापि सत्यामपि तस्यां परस्परमूर्तिविभागस्वरुपभेदो गृह्यत इति प्रत्युदाहरणोपपतिरित्यर्थः । उदाहरणेषु नैवमित्याह - उदाहरणेष्विति ॥
सिद्धान्तकौमुदी
पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिर्भिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गं किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.