Page loading... Please wait.
6|2|144 - थाथघञ्क्ताजबित्रकाणाम्
॥ तस्मै पाणिनये नमः ॥
6|2|144
SK 3878
थाथघञ्क्ताजबित्रकाणाम्  
सूत्रच्छेदः
थ-अथ-घञ्-क्त-अचपित्र-काणाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अन्तः  6|2|143
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
थ अथ घञ् क्त अचपित्र क इत्येवम् अन्तानाम् उत्तरपदानां गतिकारकोपपदात् परेषाम् अन्तः उदात्तो भवति। सुनीथः। अवभृथः। हनिकुषिनीरमिकाशिभ्यः क्थनिति अवे भृञः इति च क्थन्प्रत्ययान्तावेतौ। तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन आद्युदात्तम् उत्तरपदं स्यात्। अथ आवसथः उपवसथः। उपसर्गे वसेः इति अथन्प्रत्ययः घञ् प्रभेदः। काष्ठभेदः। रज्जुभेदः। क्त दूरादागतः। आतपशुष्कः। विशुष्कः। अच् प्रक्षयः। प्रजयः। क्षयो निवासे 6|1|201 जयः करणम् 6|1|202 इति च आद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः। अप् प्रलवः। प्रसवः। इत्र प्रलवित्रम्। प्रसवित्रम्। क गोवृषः। खरीवृषः। गां वर्षति, खरीं वर्षति इति मूलविभुजादित्वात् कप्रत्ययः। प्रवृषः। प्रहृषः। इगुपध इति कप्रत्ययः। वृषादीनां च 6|1|203 इति वृषशब्दः आद्युदात्तः। गतिकारकोपपदातित्येव, सुस्तुतं भवता। कर्मप्रवचनीये अव्ययस्वरः एव भवति।
`अत्र कृदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्` इति। यदीदं नारभ्येतेति भावः। `उपसर्गे वसेः इत्यथप्रत्ययः` इति। तत्र `शीङ्शपिरुगमिवञ्चि` (द।उ।6।38) इत्यादिनाऽथप्रत्यया नुवृत्तेः कृदुत्तरपदप्रकृतिसवरत्वेन मध्योदात्तमुत्तरपदं स्यात्। `दूरादागतः` इति। गमेः क्तः, `अनुदात्तोपदेश` 6|4|37 इत्यादिनाऽनुनासिकलोपः, आगतशब्देन `स्तोकान्तिकार्थ` 2|1|38 इत्यादिना समासः, `पञ्चम्याः स्तोकादिभ्यः` 6|3|2 इत्यलुक्। `शुष्कः` [विशुष्कः--काशिका, पदमञ्जरी च] इति। `शुषः कः` 8|2|51 इति कादेशः। उभयत्रात्र कर्मणि निष्ठा। तत्र `गतिरनन्तरः` 6|2|49 इति प्राप्ते तदपवाद उत्तरपदान्तोदात्तत्वं विधीयते। यदा तु कर्तरि क्तः, तदा तु कृत्स्वरेणोत्तरपदस्य प्रकृतिभावे सत्यन्तोदात्तत्वं सिद्धमेव। ननु च शुषिरकर्मकः, तस्य कुतः कर्मणि निष्ठा? अन्तरभावितण्यर्थः सकर्मको भवतीत्यदोषः। `आतपशुष्कम्` [आतपशुष्कः--काशिका, पदमञ्जरी च] इति। `कर्तृकरणे कृता बहुलम्` 2|1|31 इति समासः। अत्र `तत्पुरुषे तुल्यार्थ` 6|2|2 इत्यादिना पूर्वपदं पूर्वपदप्रकृतिस्वरं स्यात्। पूर्वपदं पुनरत्र पचाद्यजन्तत्वात्? कृत्स्वरेणान्तोदात्तः। `प्रक्षयः, प्रजयः` इति। `एरच्` 3|3|56 ननु च कृदुत्तरपदप्रकृतिस्वरत्वेनैवात्रोत्तरपदान्तोदात्तत्वं भविष्यति? इत्यत आह--`क्षयो निवासे` इत्यादि। यदा `क्षयो निवासे` 6|1|195 `जयः करणम्` 6|1|196 इति चादयुदात्तौ क्षयजयशब्दौ भवतः, तदा कृत्स्वरेण मध्योदात्तत्वं स्यात्। `प्रलवित्रम्, प्रसवित्रम्` इति। `अर्तिलूधूसूखन` 3|2|184 इत्यादिनेत्रः। अत्र कृत्स्वरे सति प्रत्ययस्वरं स्यात्। तेनोत्तरपदं मध्योदात्तं स्यात्। `गोवृषः` इति। `पृषु वृषु मृषु सेचने` (धातुपाठः-705,706,707), अत्र `उपपदमतिङ्` 2|2|19 इति समासः `गतिकारकोपपदात्? कृत्` 6|2|138 इत्युत्तरपदाद्युदात्तत्वं स्यात्। `सुस्तुतम्` इति। `सुः पूजायाम्` 1|4|93 , `अतिरतिक्रमणे च` 1|4|94 इति स्वती कर्मप्रवचनीयसंज्ञौ। `अत्राव्ययस्वर एव भवति` इति। `तत्पुरुषे तुल्यार्थ` 6|2|2 इत्यादिना॥
आद्यौदातमुतरपदं स्यादिति । यदिदं नोच्येतेति भावः । दूरादागत तैति । तात्र कर्मणि क्तः , ग्रामादिरभिघेयः, कृता आङे गतिसमासे गतिरनन्तरः इति प्रकृतिभावे चागत इत्याद्यौदातम्, तेन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासः पञ्चम्याः स्तोकादिभ्यः इत्यलुक्, तत्र कारकात्परमागतमित्येतत् कृदुतरपदप्रकृतिस्वरेणाद्यौद्तं स्यात् । विशुष्क इति । शुषेरकर्मकत्वात् कर्तारि क्तः, शुष्कधृष्टौ इत्याद्यौदातत्वम्, ततो गतिसमासः । आतपशुष्क इति । नायम् सिद्धसुष्क इति सप्तमीसमासः, सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् तैति पूर्वपदप्रकृतिस्वरप्रसङ्गात् । तस्मात् कर्तृकरणे कृता बहुरम् इति समासः । प्रक्षयः, प्रजय इति । एरच् । ननु च कृदुतरपदप्रकृतिस्वरेणैवात्रान्तोदातोत्वं सिद्धम् अत आह - क्षयो निवास इत्यादि । प्रलवः प्रसव इत्यादि । आञ्दोरप् । प्रलवित्रमिति । अर्तिलूधूसूखनसहचर इत्र) । गोवृष इति । वृषु मृषु सेवने । सुस्तुतमिति । सुः पूजायाम्, अतिरतिक्रमणे च इति कर्मप्रवचनीयसंज्ञा, स्वती पूजायाम् इति प्रादिसमासः ॥
सिद्धान्तकौमुदी
थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.