Page loading... Please wait.
6|2|142 - नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु
॥ तस्मै पाणिनये नमः ॥
6|2|142
SK 3876
नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु   🔊
सूत्रच्छेदः
(अव्ययम्) , उत्तरपदे (सप्तम्येकवचनम्) , अनुदात्तादौ (सप्तम्येकवचनम्) , अ-पृथिवी-रुद्र-पूषमन्थिषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदादिः  6|2|111
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उत्तरपदे ऽनुदात्तादौ पृथिवी रुद्र पूषमन्थिवर्जिते देवताद्वन्द्वे न उभे युगपत् प्रकृतिस्वरे भवतः। इन्द्राग्नी। इन्द्रवायू। अग्निवायुशब्दौ अन्तोदात्तौ। उत्तरपदग्रहणम् अनुदात्तादौ इत्युत्तरपदविशेषणं यथा स्यात्, द्वन्द्वविशेषणं मा भूतिति। अनुदात्तादौ इति विधिप्रतिषेधयोः विषयविभागार्थम्। अपृथिव्यादिषु इति किम्? द्यावापृथिव्यौ। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र सोमारुद्रौ। रोदेर्णिलुक् च इति रुद्रशब्दो रक्प्रत्ययान्तो ऽन्तोदात्तः। पूषन् इन्द्रापूषणौ। स्वन्नुक्षन्पूषनिति पूषान्तोदात्तो निपात्यते। मन्थिन् शुक्रामन्थिनौ मन्थो ऽस्य अस्ति इति मन्थी। इन्नतत्वादन्तोदात्तः। पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव।
`अग्निवायुशब्दावन्तोदात्तौ` इति। अग्निशब्दः `वीज्याज्वरिभ्यो निः` (द।उ।1।18) इति वर्तमाने `अङ्गेर्नलोपश्च` (द।उ।1।20) इति निप्रत्ययान्तः। वायुशब्दोऽपि `कृवापाजि` (द।उ।1।86) इत्यादिनोण्प्रत्ययान्तः, तेन प्रत्ययस्वरेण द्वावप्यन्तोदात्तौ। अथोत्तरपदग्रहणं किमर्थम्, यावता `अनुदात्तादौ` इति सप्तम्येवात्रानुदात्तादेरपदत्त्वं बोधयिष्यति? इत्यत आह--`उत्तरपदग्रहणम्` इत्यादि। इह हि प्रकरणे द्वन्द्वः सप्तम्या निर्दिष्टः, नोत्तरपदम्। तत्रानुदात्तादाविति सप्तमी द्वग्द्वस्यैव विशेषणमापद्यते--अनुदात्तादौ द्वन्द्वः। उत्तरपदग्रहणे तु सति द्वन्द्वे सप्तम्यांविहितायामनुदात्ता(दा) वित्येतदुत्तरपदस्य विशेषणं सम्पद्यते। तस्मादुत्तरपदविशेषणमेतद्यथा स्तात्, द्वन्द्वविशेषणं मा भूदित्येवमर्थमुत्तरपदग्रहणम्। `अनुदात्तादौ` इति। असत्येतस्मिन्नविशेषणे विधिरपि देवताद्वन्द्व उच्यते, प्रतिषेधोऽपि, ततश्च तयोर्विषयविबागो न स्यात्; एवञ्च समानविषयत्वाद्विकल्पः प्रसज्येत। अनुदत्तादावित्यस्मस्तु सति यत्रानुदात्ताद्युत्तरपदो देवताद्वन्द्वस्तग्त्र प्रतिषेधः स्यात्, ततोऽन्यस्तु विधिरिति विधिप्रतिषेधयोर्विषयविभागो भवति। अतो विषयविबागार्थमनुदात्तादावित्युच्यते। `पृथिवीशब्दो ङीष्प्रत्ययान्तः` इति। गौरादिषु पाठात्। `रोदेर्णिलुक्? च` इति। `रुदिर्? अश्रुविमोचने` (धातुपाठः-1067) इत्यस्माण्ण्यन्तात्? `स्फायितञ्चि` (द।उ।8।31) इत्यादि--सूत्रद्रगित्यनुवर्तमाने `रोदेर्णिलुक्? च` (द।उ।8।39) इति रक्, तेन रुद्रोऽन्तोदात्तः। `शुक्रामन्थिनौ` इति। शुक्रशब्दः `ऋजेन्द्रः` (द।उ।8।46) इत्यादिना रन्प्रत्ययान्तः, तेनाद्युदात्तः॥
अग्निशब्दः अङ्गेर्निर्नलोपश्च इति निप्रत्ययान्तः । कृवापाचिमिस्वदिसाध्यशूभ्य उण् , युक्, वायुः । उतरपदग्रहकणमित्यादि । अन्यथाऽस्मिन्प्रकरणे द्वन्द्वेः सप्तम्या निर्दिष्टः, नोतरपदम् तत्र अनुदातादौ इति सप्तम्यन्तं द्वन्द्वस्यैव विशेषणं स्यात्, ततश्चन्द्रसूर्यावित्यादौ प्रितषेधः स्यचात् । उतरपदग्रहणे तु सति तस्यैव श्रुतस्य अनुदातादौ त्येतिद्विशेषणं भवति । अनुदातादावित्यादि । तान्यथा विधिप्रतिषेधयोः समानविषयत्वाद्विकल्पः प्रसज्येत । प्रथेः षिवन् सम्प्रसारणं च । शुक्रशब्दोऽयम् ऋज्रेन्द्राग्र इत्यादिना निपातितोऽन्तोदातः ॥
सिद्धान्तकौमुदी
पृथिव्यादिवर्जितेऽनुदात्तावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः (इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णः) । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् (द्यावा॑पृथि॒वी ज॒नय॑न्) । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमा॑रुद्रौ । रोदेर्णिलुक्च इति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ (इन्द्रा॑पूषणौ) । श्वन्नुक्षन् पूषन् इति पूषा अन्तोदात्तो निपात्यते । सुकामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.