Page loading... Please wait.
6|2|138 - शितेर्नित्याबह्वज्बहुव्रीहावभसत्‌
॥ तस्मै पाणिनये नमः ॥
6|2|138
SK 3872
शितेर्नित्याबह्वज्बहुव्रीहावभसत्‌  
सूत्रच्छेदः
शितेः (पञ्चम्येकवचनम्) , नित्य-अबह्वव्च् (प्रथमैकवचनम्) , बहुव्रीहौ (सप्तम्येकवचनम्) , अभसत् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदादिः  6|2|111
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शितेः उत्तरपदं नित्यं यदबह्वज् भसच्छब्दवर्जितं बहुव्रीहौ समासे तत् प्रकृतिस्वरम् भवति। शितिपादः। शित्यंसः। शित्योष्ठः। पादशब्दो वृषादित्वादद्युदात्तः। अंसौष्ठशब्दौ च प्रत्ययस्य नित्त्वात्। शितेः इति किम्? दर्शनीयपादः। नित्यग्रहणम् किम्? शितिककुत् ककुदस्य वस्थायां लोपो विधीयते। तत्र अवस्थाया अन्यत्र शितिककुद इति बह्वजुत्तरपदं भवति इति तेन न नित्याबह्वच्। अबह्वचिति किम्? शितिललाटः। बहुव्रीहौ इति किम्? शितेः पादः शितिपादः। अभसतिति किम्? शितिभसद्। शितिशब्द आद्युदात्तः। पूर्वपदप्रकृतिस्वरापवादो योगः।
`शितिपादः` इति। शितिशब्दः `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इति फिषाद्युदात्तः। `अंसौष्ठशब्दौ` इत्यादि। `अम रोगे` (धातुपाठः-1720) इत्यस्मात्? `अमः सन्` (पं।उ।5।21) इति सन्प्रत्ययार्न्तोऽसशब्दो व्यत्पाद्यते। ओष्ठशब्दोऽपि `उषिकुषिगर्त्तिब्यस्थन्` (द।उ।6।29) इति थन्प्रत्ययान्तः। तेनैतौ प्रत्ययस्य नित्वादाद्युदात्तौ। `दर्शनीयपादः` इति। दर्शनीयशब्दोऽनीयर्? प्रत्ययन्तः। तेन `उपोत्तमं रिति` 6|1|211 इति मध्योदात्तः। ततोऽत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरेष्वपि प्रत्युदाहरणेषु। कथं पुनः ककुदशब्दो नित्यं बह्वज्? न भवति? इत्याह--`ककुदस्यावस्थायां लोपः` इत्यादि। `शितिललाटः` इति। `लल ईप्सायाम्` (धातुपाठः-1687), अस्मात्? `उणादयो बहुलम्` 3|3|1 इत्याटप्रत्ययः, तेन ललाटशब्दो मद्योदात्तः। `शितिपादः` इति। शितेः पाद इत्यत्र समासस्वर एव भवति। `शितिभसत्` इति `शृदृभसोदिः` (द।उ।6।42) इति भसच्छब्दो व्युत्पाद्यते। ततोऽयमन्तोदात्त-॥
अंसौष्ठशब्दावित्यादि । अम् रोगे, अमेः सन् , असः, उष दाहेः उषिकुषिगातिभ्यस्थन्, ओष्ठः । दर्शनीयशब्दोऽनीयर् - प्रत्ययान्तो मध्योदातः । शितिशब्दः वर्णानां तणतिनितान्तानाम् इत्याद्यौदातः ॥
सिद्धान्तकौमुदी
शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.