Page loading... Please wait.
6|1|98 - अव्यक्तानुकरणस्यात इतौ
॥ तस्मै पाणिनये नमः ॥
6|1|98
SK 81
अव्यक्तानुकरणस्यात इतौ  
सूत्रच्छेदः
अव्यक्तानुकरणस्य (षष्ठ्येकवचनम्) , अतः (पञ्चम्येकवचनम्) , इतौ (सप्तम्येकवचनम्)
अनुवृत्तिः
पररूपम्  6|1|94 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|71 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
अव्यक्तानुकरणस्य अतः इतौ पूर्वपरयोः एकः पररूपम्
सूत्रार्थः
ध्वनेः अनुकरणस्य यः अत्-शब्दः, तस्मात् इति-शब्दे परे पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
"अव्यक्तानुकरणम्" इत्युक्ते कस्यचन ध्वनेः अस्फुटरूपेण अनुकरणम् । यत्र ध्वनेः स्पष्टरूपेण वर्णनम् / अनुकरणम् कर्तुं न शक्यते, तत्र तम् ध्वनिं दर्शयितुम् तत्र केचन शब्दाः भाषायाम् प्रयुज्यन्ते । यथा - पटत्, घटत्, छमत् आदयः । एतादृशेभ्यः शब्देभ्यः अनन्तरम् यदि "इति" शब्दः आगच्छति तर्हि पूर्वशब्दस्य "अत्" तथा परशब्दस्य "इ" एतयोः एकः पररूप-एकादेशः इकारः भवति । यथा - पटत् इति = पटिति । घटत् + इति = घटिति । छमत् + इति = छमिति ।

अत्र वार्त्तिकमेकं ज्ञातव्यम् - अनेकाचः इति वक्तव्यम् । इत्युक्ते, यदि अनुकरणवाची अयं शब्दः एकाच्-अस्ति, (इत्युक्ते यदि तस्मिन् शब्दे केवलं एकः एव स्वरः अस्ति) तर्हि इदम् पररूपम् न भवति । यथा - श्रत् इति = श्रदिति ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः "अत्" अयं शब्दः अकारस्य तपरकरणम् नास्ति, अपितु "अत्" इति साक्षात् द्विमात्रिकः शब्दः अस्ति । अतः पूर्वपदस्थः यः "अत्", तस्य सम्पूर्णस्य पररूपम् भवति ।
One-line meaning in English
When a word which is used to imitate some abstract sound and which ends is the phrase "अत्" is followed by the word "इति", then the "अत्" of the previous word and the इ of इति are combined to form a पररूप-एकादेश.
काशिकावृत्तिः
अव्यक्तम् अपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णम् एव केनचित् सादृश्येन तदव्यक्तम् अनुकरोति, तस्य यो अत्शब्दः तस्मातितौ पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। पटतिति पटिति। घटतिति घटिति। ज्ञटतिति ज्ञतिति। छमितिति छमिति। अव्यक्तानुकरणस्य इति किम्? जगतिति जगदिति। अतः इति किम्? मरटिति मरडिति। इतौ इति किम्? पटतत्र पटदत्र। अनेकाच इति वक्तव्यम्। इह मा भूत्, श्रतिति श्रदिति। कथम् घटदिति गम्भीरमम्बुदैर्नदितम् इति? दकारान्तम् एतदनुकरणं द्रष्टव्यम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
अव्यक्तमपरिस्फुटवर्णमिति। अपरिस्फुटाउअनभिव्यक्ता अकारादयो वर्णा यस्मिन्ततथोक्तम्। यद्येवम्, तदनुकरणेनापि तथाविधेनैव भाव्यम्, सदृशं ह्यनुकारणं भवति, ततश्चानुकार्य इव तत्रापि नैवाच्छब्दोऽवधार्यते, अनवधारिते चाशक्यं पररूपं कर्तुम् ? तत्राह-तदनुकरणं भवत्यतिप्रसङ्गात्? इत्यत आह--केनचित्सादृश्येनेति। तत्पुनः सादृस्यं ध्वनेस्तुल्यतया, तेन ह्यव्यक्तमनुकार्यमनुकरोति पुरुषः, अनुकरणं कर्तृ अव्यक्तं कर्मानुकरोति, करणस्य कर्तृत्वाविवक्षयां कर्तृप्रत्ययः, अनुकरणशब्दस्तु करणसाधन एव। पररूपमेकादेशो भवतीति। अच्छब्दसयापि सर्वस्य नालोन्त्यस्य; ठ्नानर्थकेऽलोन्त्यविधिःऽ इति वचनाज्ज्ञापकाच्च। यदयम् ठाम्रेडितस्यान्त्यस्य तु वा ऽ इति अन्त्यग्रहणं करोति, तज्ज्ञापयति --ठ्नात्रालोन्त्यपरिभाषा प्रवर्ततेऽ इति। किञ्च--पूर्वापरसमुदाय एकादेशस्य स्थानीत्युक्तम्, ततश्च तदेकदेशे पूर्वस्मिन् खल्वेतत्परिभाषाप्रवृत्तिः कीदृशीति चिन्त्यम्। पटदितीति। प्रक्रियावाक्यमेतत्, न प्रयोगार्हम्; पररूपस्य नित्यत्वात्। पाटितीति कथं पुनः पररूपे कृते तदनुकार्यस्य प्रतिपादकं भवति, कुतश्च तस्यानुकरणत्वम्? नैष दोषः; यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्यानुकरणं भवति शास्त्रावासनया, तद्वदत्राऽपि भविष्यति। दकारान्तानुकरणमेतदिति तकारान्तानुकरणे तु रूपमेवैतन्न स्यात्; अपदत्वेन जश्त्वाभावाद्, यथा--पटिति करोतीति ॥
सिद्धान्तकौमुदी
ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् । पटत् इति पटिति ॥ ।एकाचो न (वार्तिकम्) ॥ श्रदिति ॥
अव्यक्तानुकरणस्यात इतौ - अव्यक्तानुकरणस्य । पररूपमिति वत्र्तते । अव्यक्तः=अस्फुटवर्णविभागो वृक्षपतनादिजनितध्वनिः । तस्यानुकरणं=तत्प्रतिपादकस्तत्सदृशोऽपरिस्फुटवर्णविभागः शब्दः । तस्यावयवो यो ।ञच्छब्दस्तस्मादितिशब्दे परेऽच्छब्दस्य इकारस्य च स्थाने पररूपं स्यादित्यर्थः । अत्र इतिशब्दे यः प्रथम इकारस्तस्मिन्परे इति व्याख्येयम् । अन्यथा इतिशब्दस्य कृत्स्नस्यादेशप्रसङ्गात् । तदाह-धवनेरित्यादिना । अत्राऽलोऽन्त्यस्येति न भवति,नानर्थकेऽलोऽन्त्यविधि॑रिति निषेधात् । पटत्-इतीति प्रक्रियावाक्यप्रदर्शनम् । न तु पररूपाऽभावपक्षे रूपमिति भ्रमितव्यम्, अत्र पररूपस्य नित्यत्वात् । असंहितायां निर्देशो वा । पटितीति । उदाहरणमेतत् । "वृक्षः पतित" इत्याद्यध्याहार्यम् । अत्राऽनेकाज्ग्रहणं कर्तव्यमिति वार्तिकमर्थतः सङ्गृह्णाति — एकाचो नेति । एकोऽच् यस्य स एकाच्, तथाभूतस्यानुकरणस्य उक्त पररूपं नेत्यर्थः । श्रदितीति । अत्र एकाच्त्वान्न पररूपम् । ननु पटत्पटत्-इतीत्यत्र पटत्पटेति रूपमिष्यते । तत्राव्यक्तानुकरणस्येति पररूपे पटत्पटितीत्येव स्यात् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अव्यक्तानुकरणस्यात इतौ (2535) (6195 उपसंख्यानवार्तिकम् ।। 1 ।।) - इतावनेकाज्ग्रहणं श्रदर्थम् - इतावनेकाज्ग्रहणं कर्तव्यम् । किं प्रयोजनम् ? श्रदर्थम् । इह मा भूत् ‐ - श्रदिति ।।