Page loading... Please wait.
6|1|97 - अतो गुणे
॥ तस्मै पाणिनये नमः ॥
6|1|97
SK 191
अतो गुणे  
सूत्रच्छेदः
अतः (पञ्चम्येकवचनम्) , गुणे (सप्तम्येकवचनम्)
अनुवृत्तिः
पररूपम्  6|1|94 (प्रथमैकवचनम्) , अपदान्तात्  6|1|96 (पञ्चम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपम्
सूत्रार्थः
अपदान्त-अकारात् गुणे परे पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
अदेङ् गुणः 1|1|2 इत्यनेन अकार-एकार-ओकाराणाम् गुणसंज्ञा भवति । यदि अपदान्त-अकारात् परः गुण-वर्णः आगच्छति, तर्हि पूर्वपरयोः एकः पररूप-एकादेशः भवति । यथा -

1) पठ् + अ [शप्] + अन्ति = पठन्ति । इत्यत्र अपदान्त-अकारस्य अकारे परे पूर्वपरयोः एकः गुण-एकादेशः अकारः विधीयते ।
2) वन्द् + अ[शप्] + ए = वन्दे । अत्र अपदान्त-अकारस्य एकारे परे पूर्वपरयोः एकः गुण-एकादेशः एकारः विधीयते ।

अवर्णात् ओकारे परे उदाहरणानि न सन्ति ।

ज्ञातव्यम् - अस्मिन् सूत्रे "अतः" इति अत्-इत्यस्य पञ्चम्यैकवचनम् अस्ति । अत्-इत्यत्र तपरकरणम् कृतम् अस्ति, अतः अत्र केवलं ह्रस्व-अकारस्यैव ग्रहणं क्रियते, आकारस्य न ।
One-line meaning in English
When an अपदान्त अकार is followed by a गुण letter, the पूर्व and पर undergo a पररूप-एकादेश.
काशिकावृत्तिः
अपदान्तातिति वर्तते। अकारातपदन्तात् गुणे परतः पूर्वपरयोः स्थने पररूपम् एकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्ने दीर्घस्य अपवादः। पचे, यजे इत्यत्र वृद्धिरेचि इति वृद्धिः प्राप्नोति। अतः इति किम्? यान्ति। वान्ति। गुणे इति किम्? अपचे। अयजे। अपदान्तातित्येव, दण्डाग्रम्। युपाग्रम्।
`पचे, यजे`- इत्यत्र `वृद्धिरेचि` 6|1|85 इति वृद्धिः प्राप्नोति, तेन तस्या एव पररूपत्वमपबाद इत्यभिप्रायः। `आद्गुमः` 6|1|84 इत्यत आदित्यनुवत्र्तत एवेति मन्यमान आह--`अत इति किम्` इति। दीर्घनिवृत्यर्थ इह तपरस्याकारस्य निर्देशः क्रियत इति दर्शयितुमाह--`यान्ति, वान्ति` इति। `अपचे` इति। लङ्यात्मनेपदोत्तमपुरुषैकवचन इट्, अतर `आद्गुणः` 6|1|84 । पररूपे तु सति स गुणो न लभ्यते॥
अकः सवर्णे दीर्घस्यापवाद इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेवायमपवादो युक्तः, न दीर्घस्य? गुणग्रहणाद्दीर्घस्यापि बाधको भविष्यति, अन्यथा--ठतोऽपदान्तात्ऽ इत्येव वक्तव्यम्। एङीत्येव, ततो जुसि च, अपदान्तादित्येव। एवं सिद्धं गुणग्रहणाद् गुणमात्रेऽयं विधैः प्रवर्तमानो दीर्घमपि बाधिष्यते। अत इति किमिति अदिति वर्तत एवेति प्रश्नः। तपरकरणे तात्पर्यमित्युतरम् ॥
सिद्धान्तकौमुदी
अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे (कौमुदी-191) इति हि [(परिभाषा - ) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्‌] इति न्यायेन अकः सवर्णे (कौमुदी-85) इत्यस्यैवापवादो नतु प्रथमयो (कौमुदी-154)रित्यस्यापि । रामाः ॥
अतो गुणे - अथ राम असिति स्थिते "अकः सवर्णे दीर्घ" इति सवर्णदीर्घस्यापवादं पररूपमाशह्कितुमाह-अतो गुणे । "एङि पररूप" मित्यतः पररूपमित्यनुवर्तते ।उस्यपदान्ता॑दित्यतोऽपदान्तादित्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । "अत" इति पञ्चमी । तदाह — अपदान्तादित्यादिना । इति प्राप्त इति । नच परत्वादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः । परत्वादिति । अतो गुणे॑ इत्यपेक्षयाप्रथमयोः पूर्वसवर्ण॑ इत्यस्य परत्वादित्यर्थः । ननु पररूपमिदमपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आह-अतो गुण इतीत्यादि । अनन्तरान् । अव्यवहितानित्यर्थः । उत्तरानिति । व्यवहितानित्यर्थः । "अतो गुण" इत्युत्तरम् अव्यक्तानुकरणस्येत्यादि पठित्वा, "अकःसवर्णे दीर्घः"प्रथमयोः पूर्वसवर्णः॑ इति पठितम् । ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्व्यवहितं पूर्वसवर्णदीर्घमपीति भावः । वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः । नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः । भवन्तीत्यादावप्राप्ते ।ञपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामा इति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अपदान्तादतो गुणे पररूपमेकादेशः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.