Page loading... Please wait.
6|1|96 - उस्यपदान्तात्‌
॥ तस्मै पाणिनये नमः ॥
6|1|96
SK 2214
उस्यपदान्तात्‌   🔊
सूत्रच्छेदः
उसि (सप्तम्येकवचनम्) , अपदान्तात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
आत्  6|1|87 (पञ्चम्येकवचनम्) , पररूपम्  6|1|94 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
अपदान्तात् आत् उसि पूर्वपरयोः एकः पररूपम्
सूत्रार्थः
अपदान्त-अवर्णात् "उस्" शब्दे परे पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
अपदान्त-अकारात् / आकारात् अनन्तरम् यदि "उस्" अयं शब्दः आगच्छति, तर्हि पूर्वपरयोः एकः पररूप-एकादेशः उकारः भवति ।

उदाहरणम् - विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य झेर्जुस् 3|4|108 इत्यनेन जुस्-आदेशः भवति । जकारस्य अत्र चुटू इत्यनेन इत्संज्ञा भवति, अतः प्रत्ययस्य दृश्यरूपम् "उस्" इत्येव वर्तते । यदि अयम् आदेशः अपदान्तात् अवर्णात् अनन्तरम् आगच्छति, तर्हि पूर्व-परयोः एकः पररूप-एकादेशः उकारः विधीयते । यथा, रुधादिगणस्य भिद्-धातोः अस्मिन् प्रत्यये परे प्रक्रिया इयम् वर्तते -

भिद् + झि [विधिलिङ्लकारस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् तिप्तस्झि.. 3|4|78 इति झि-प्रत्ययः।]
→ भि श्नम् द् झि [रुधादिभ्यः श्नम् 3|1|78 इति श्नम्-प्रत्ययः]
→ भि न् द् झि [श्नसोरल्लोपः 6|4|111 इति अकारलोपः]
→ भि न द् उस् [झेर्जुस् 3|4|108 इति झि-इत्यस्य जुस्-आदेशः]
→ भि न् द् यास् उस् [यासुट् परस्मैपदेषूदात्तो ङिच्च 3|4|103 इत्यनेन यासुट्-आगमः]
→ भि न् द् या उस् [लिङः सलोपोऽनन्त्यस्य 7|2|79 इत्यनेन यास्-इत्यस्य सकारस्य लोपः]
→ भिन्द्युस् [उस्यपदान्तात् 6|1|96 इत्यनेन "या + उस्" इत्यस्य पररूप-एकादेशः उकारः ]
→ भिन्द्युः [ससजुषोः रुँः 8|2|66 इति रूँत्वम्, खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः ।]

अपदान्त-अवर्णात् एव अस्य सूत्रस्य प्रसक्तिः अस्ति इति स्मर्तव्यम् । यथा, का + उस्रा (धेनुः इत्यर्थः) इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अत्र आकारः पदान्ते विद्यमानः अस्ति ।
One-line meaning in English
When a अवर्ण not occurring at end of a पद is followed by the word "उस्", the पूर्व and the पर letters undergo a पररूप-एकादेश.
काशिकावृत्तिः
आतित्येव। अवर्णातपदान्तातुसि पूर्वपरयोः आद्गुणापवादः पररूपम् एकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उसदुः। अया उसयुः। अपदान्तातिति किम्? का उस्रा कोस्रा। का उषिता कोषिता। आतित्येव, चक्रुः। अबिभयुः।
`भिन्द्युः` इति। भिदेर्लिङ्, झि, यासुट्? `झेर्जुस्` 3|4|108 इति जुस्, श्नम्, `श्नसोरल्लोपः` 6|4|111 इत्यकारलोपः, `लिङः सलोपोऽनन्तयस्य` 7|2|79 इति सकारलोपः, भिन्द्या+उसिति स्थितेऽनेन पररूपत्वम्। `अदुः` इति। ददातेर्लुङ्, झि, `आतः` 3|4|110 इति झेर्जस्, `गातिस्थाट 2|4|77 इति सिचो लुक्, अदा+उसिति स्थितेऽनेन पररूपत्वम्। `कोरुआआ, कोषिता` इति। ननु चात्रैकस्मिन्? प्रत्युदाहरणे `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यनया परिभाषयैव न भविष्यति, उरुआआशब्दो हि समुदायोऽर्थवान्, न तूसित्येष तदवयवः। द्वितीये तु `लक्षणप्रतपदोक्तयोः प्रतपदोकतस्यैव ग्रहणं न तु लाक्षणिकस्य` (व्या।प।3) इत्यनया परिभाषयाऽपि न भविष्यति, लाक्षणिको हि तत्रोस्? तथा हि वसेर्निष्ठायां `वसतिक्षुधोरिट्` 7|2|52 यजादित्वात्? सम्प्रसारणे कृते--उषितेति, तत्र पररूपं न सम्पद्यते, तत्? किमपदान्तादित्यनेन? एवं तह्र्रेतदतिरिच्यमानमपदान्तग्रहममर्थवदनर्थवत्त्वादिकं विशेषमनपेक्ष्योस्मात्रे पररूपं भवतीत्यमुमर्थं द्योतयति। तेन नानर्थके `उस्यपदान्तात्` इत्येतद्भवति। भिन्द्युरित्यत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। लाक्षणिकेऽपि भवतीति--बभुषः पश्येति। `भा दीप्तौ`, (धातुपाठः-1051) लिटः क्वसुः; शस्, `वसोः सम्प्रसारणम्` 6|4|131 इति सम्प्रसारणम्; `सम्प्रसारणाच्च` 6|1|104 इति पूर्वरूपम्, बभा उस अस्? इति स्थितेऽनेन पररूपत्वम्। एतत्? सार्वधातुकपक्ष उदाहरणं वेदितव्यम्। अर्धधातुकपक्षे ह्रकारलोपेनैव सिद्धम्। सानुबन्धकेऽपि भवति--अधुर#इति। क्व तर्हि स्यात्? बभूरिति। ननु चानर्थक्ये सत्यपदान्तग्रहणस्यायमर्थः परिकल्प्येत, अस्ति चास्योक्तसूत्रे प्रयोजनम्, किं तत्? अपदान्ताद्यथा स्यादिह मा भूदिति--दण्डाग्रमिति? नैतदस्ति; यद्येतदेव प्रयोजनमभिमतं स्यात्, तदोत्तरसूत्र एवेदं कुर्यात्। इह करणात्तु यथोक्तार्थप्रतिपादनपरतैव तस्यावगम्यते। अधिकाराच्चोत्तरार्थतापि भवत्येव। कोषितेत्यत्र `वसतिक्षूधोः` 7|2|52 इतीट्, `शासवसिघसीनां च` 8|3|60 इति षत्वम्, तस्य चासिद्धत्वात्? पररूपत्वप्राप्तिर्वेदितव्या। `चऋः` इति। कृत्रो लिटउसि रूपम्। `अबिभयुः` इति। `ञिभी भये` (धा।प।1084) लङ्, शप्, `जुहोत्यादिभ्यः श्लुः` 2|4|75 इति श्लुः, द्विर्वचनम्, `सिजभ्यस्तविदिभ्यश्च` 3|4|109 इति झेर्जुस्? `जुसि च` 7|3|83 इति गुणः॥
भिन्द्यौरिति। भिदेर्लिङ्, यासुट्, झेर्जुस्, श्नसोरल्लोपः, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ इति सलोपः, भिन्द्याऔस्--अनेन पररूपम्। अदुरिति। दाञो लुङ्, ठ्गातिस्थाऽ इत्यादिना सिचो लुक्, ठातःऽ इति झेर्जुस्, अदाऔस्--अनेन पररूपम् । कोस्रेति। ननु चानर्थकत्वादेवास्योसो ग्रहणं न भविष्यति ? एवं तर्ह्येतज्ज्ञापयति--अनर्थस्याप्युसो ग्रहणमिति, तेन भिद्यौरित्यादावप्युसि पररूपं भवति। अत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। कोषितेति। वसेः क्तः, ठ्वसतिक्षुदोरिट्ऽ, यजादित्वात्सम्प्रसारणम्, ठ्शासिवसिघसीनां चऽ इति षत्वम्, तस्यासिद्धत्वादुसि न पररूपं भवति। अस्य तु लाक्षणिकत्वादेवाग्रहणं सिद्धम्। अबिभयुरिति। भियो लङ्, शपः श्लुः, ठ्सिजभ्यस्तऽ इत्यादिना झेर्जुस्, ठ्जुसि चऽ इति गुणः ॥
सिद्धान्तकौमुदी
अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः (कौमुदी-2212) इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥
नाम्रेडितस्यान्त्यस्य तु वा (नित्यमाम्रेडिते डाचि) - तत्राह-नाम्रेडितस्य ।अव्यक्तानुकरणस्यात #इता॑वितिपररूप॑मितिएकः पूर्वपरयो॑रिति चानुवर्तते । आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा । तुरवधारणे । अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः । तदाह — आम्रेडीतस्य प्रागुक्तमित्यादिना । ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह — डाचीति ।डाचि बहुलं द्वे भवत इति द्वित्व॑मित्यन्वयः । नन्वव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह — बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः ।
उस्यपदान्तात् - अन्तरङ्गत्वादिति । प्रत्ययमात्रापेक्षत्वात् ।अतो येयः॑ इत्यस्य त्वाङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वेन बहिरङ्गत्वादिति भावः । नचाऽपदान्ताऽकारस्य जुसश्चाश्रयणात्पररूपस्याप्युभयसापेक्षत्वमस्त्येवेति चेन्मैवम्, अनेकाश्रयणेऽपि प्रत्ययमात्राश्रयतया प्रकृतेरनाश्रयणात् । व्याख्येयमिति । एतच्च विप्रतिषेधसूत्रे भाष्ये स्पष्टम्॥
लघुसिद्धान्तकौमुदी
अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ ग्लै हर्षक्षये॥ 17॥ ग्लायति॥
महाभाष्यम्
उस्यपदान्तात्( 2533) (अपदान्तात्पदप्रयोजनभाष्यम्) अपदान्तादिति किमर्थम् ? का उस्रा ‐ - कोस्रा । अपदान्तादिति शक्यमकर्तुम् । कस्मान्न भवति ‐ - का उस्रा ‐ - कोस्रा ? अर्थवद्ग्रहणे नानर्थकस्येति । नैषा परिभाषेह शक्या विज्ञातुम्, इह हि दोषः स्यात् ‐ - भिन्द्या उस् ‐ - भिन्द्युः, छिन्द्या उस् ‐ - छिन्द्युः ।। एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति ।। उत्तरार्थं तर्ह्यपदान्तग्रहणं कर्तव्यम् । अतो गुणे (97) अपदान्ताद्यथा स्यादिति । इह मा भूत् ‐ - दण्डाग्रम्, क्षुपाग्रमिति ।।