Page loading... Please wait.
6|1|95 - ओमाङोश्च
॥ तस्मै पाणिनये नमः ॥
6|1|95
SK 80
ओमाङोश्च   🔊
सूत्रच्छेदः
ओम्-आङोः (सप्तमीद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
आत्  6|1|87 (पञ्चम्येकवचनम्) , पररूपम्  6|1|94 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
ओम्-आङोः आत् पूर्वपरयोः एकः पररूपम्
सूत्रार्थः
अवर्णात् परस्य ओम्-शब्दे परे आङ्-शब्दे च परे पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
अकारात् / आकारात् परः यदि "ओम्" शब्दः / "आङ्" उपसर्गः आगच्छति, तर्हि पूर्वपरयोः एकः पररूपः आदेशः जायते । यथा -

1) शिवाय ओम् = शिवायोम् । शिवायों नमः । अत्र वृद्धिरेचि 6|1|88 इत्यनेन प्राप्तां वृद्धिं बाधित्वा पररूप-एकादेशः भवति ।
2) शिव + एहि = शिवेहि । अत्र एहि इति आङ्-उपसर्गपूर्वकम् इण्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् अस्ति । आङ् + इण् + हि = एहि । अतः अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।

विशेषः - "शिव + एहि" अस्मिन् उदाहरणे "एहि" एतत् इण्-धातोः एकारादिः रूपम् अस्ति, अतः अत्र एत्येधत्यूठ्सु 6|1|89 इत्यस्यापि प्रसक्तिः अस्ति । अत्र कस्य प्रयोगः करणीयः? एत्येधत्यूठ्सु 6|1|89 इति ओमाङोश्च 6|1|95 इत्यस्य अपवादः अस्ति वा? अस्य उत्तरम् अनया परिभाषया लभ्यते - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान् । "पुरस्तात्" इत्युक्ते "उत्सर्गसूत्रात् प्राक्" । "अनन्तरः विधिः" इत्युक्ते सः उत्सर्गविधिः यः अपवादसूत्रात् अनन्तरम् (अन्येषां उत्सर्गविधिनाम् अपेक्षया) प्रथमः आगच्छति सः । अतः अस्याः परिभाषायाः अर्थः अयम् - अपवादसूत्रम् तस्मात् अनन्तरस्य केवलं एकस्य सूत्रस्य एव अपवादरूपेण कार्यं करोति, तदनन्तरं विद्यमानानाम् सूत्राणाम् अपवादरूपेण कार्यं न करोति । (अपवादसूत्रात् पूर्वं विद्यमानानाम् तु अनेकानाम् सूत्राणाम् अपवादरूपेण कार्यं कर्तुं शक्नोति) ।
अतः अत्र एत्येधत्यूठ्सु 6|1|89 एतत् सूत्रम् केवलं एङि पररूपम् 6|1|94 इत्यस्यैव अपवादरूपेण कार्यं करोति, ओमाङोश्च 6|1|95 इत्यस्य न । अतः "शिव + एहि" इत्यत्र परत्वात् ओमाङोश्च 6|1|95 इत्यस्यैव प्रयोगः भवति ।

तथैव - अव + एहि = अवेहि इत्यत्र वृद्धिरेचि 6|1|88 इत्यनेन प्राप्तं वृद्धि-एकादेशम् अपवादत्वेन बाधित्वा एङि पररूपम् 6|1|94 इत्यनेन प्राप्तम् पररूप-एकादेशम् अपवादत्वेन बाधित्वा एत्येधत्यूठ्सु 6|1|89 इत्यनेन प्राप्तं वृद्धि-एकादेशम् परत्वेन बाधित्वा ओमाङोश्च 6|1|95 इत्यनेन पररूपम् विधीयते ।
One-line meaning in English
When a अवर्ण is followed by the word ओम् or the word आङ् , then the पूर्व and the पर words get a पररूप-एकादेशः ।
काशिकावृत्तिः
आतित्येव। अवर्णान्तातोमि आङि च परतः पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। का ओम् इत्यवोचत्, कोम् इत्यवोचत्। योम् इत्यवोचत्। आगि खल्वपि आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा तदोढा। वृद्धिरेचि 6|1|88 इत्यस्य पवादः। इह तु आ ऋश्यातर्श्यात्, अद्य अर्श्यातद्यर्श्यातिति अकः सवर्णे दीर्घत्वं बाधते।
`अद्योढा` इति। अद्य+ओढा। ननु च `आदगुणः` 6|1|87 इत्यनेनाङो निवर्त्तितत्वादिदमाङ उदाहरणं युज्यते? आङ्माङोरेकादेशस्त्वाङ्ग्रहणेन गुह्रत इत्यदोषः। पूर्वमेव हीदमुक्तम्--`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यो भवति लभतेऽसावन्यतरव्यपदेशम्` इति। किमर्थं पुनराङो ग्रहणम्, यावता प्रागेवाङः पूर्वेम सह `अकः सवर्णे दीर्घः` 6|1|97 इति दीर्घत्वे कृते ततः परेण सह `आद्गुणः` 6|1|87 इति गुणे चाद्योढेत्यादि सिद्धमेव? न सिध्यति, यतः `धातूपसर्गयोः कार्यमन्तरङ्गम्` (व्या।वृ।37) इति पूर्वमाद्गुणेन भवितव्यम्, तथा च सति वृद्धिः स्यात्। अत आङोऽपि ग्रहणं कत्र्तव्यम्। `इह त्वकः सवर्णे दीर्घत्वं बाध्यते` इति। अस्य विधेरविशेषविहितत्वात्, अकः सवरणे दीर्घस्य च सामान्यविहितत्वात्। विशेषविहितोऽपि सामान्यविहितस्य बाधको भवतीति प्रतिपादितमेतत्॥
अद्योढेअति। आङ्नाङेरेकादेश आङ्ग्रहणेन गृह्यत इति भवत्युदाहरणम्। अत्र च ठ्धातूपसर्गयोः कार्यमन्तरङ्गम्ऽ इति पूर्वमाद्गुणए कृते पश्चादद्यशब्देन सम्बन्धे वृद्धिः प्राप्नोति, एवमाङे रूपमवितष्टम्। अद्य गाअगत इत्यादौ तत्र सवर्मदीर्घत्वेन सिद्धं रूपम्। अकः सवर्णे दीर्घत्वं बाध्यत इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेव बाधो युक्तः न दीर्घत्वस्य? नैष दोष; चकारोऽत्र क्रियते, स पुनर्विदानार्थो भविष्यति ॥
सिद्धान्तकौमुदी
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥
ओमाङोश्च - ओमाङोश्च । ओम् च आङचेति विग्रहः । आदिति पररूपमिति चानुवरग्तते, एकः पूर्वपरयो॑रिति च । तदाह — ओमीत्यादिना । शिवार्योनम इति । अत्र वृदिंध बाधित्वा पररूपम् । शिवहीति । आःइहीति स्थिते गुणेएही॑ति रूपम् । ततः शिव-एहि इति स्थिते वृदिंध बाधित्वा पररूपमेकारः । नचशिव-अःइही॑ति स्थिते सवर्णदीर्घे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धेराङ्ग्रहणं व्यर्थमिति वाच्यं,धातूपसर्गयोः कार्यमन्तरङ्ग॑मिति न्यायेन प्रथमाद्गुण इति गुणे कृते शिव-एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात् । भाष्ये तु-आ ऋश्यात्, गुणः अश्र्यात्, अद्य-अश्र्यात्-अद्यश्र्यादित्यत्र सवर्णदीर्घनिवृत्त्यर्थमाद्ग्रहणमिति स्थितम् ।
ओमाङोश्च - शिवेहीति । ननुशिव आ इही॑त्यत्र सवर्णदीर्घे कृते पश्चादाद्गुणे च सिद्ध मिष्टं तत्किमाङ्ग्रहणेन । सत्यम् ।पूर्वं धातुरूपसर्गेण युज्यते॑ इति दर्शनेधातूपसर्गयोः कार्यमन्तरङ्ग॑मिति पूर्वं गुणे कृते वृद्धिः स्यात्, तन्मा भूदित्याग्रहणम् ।अव्यक्तानुकरणस्यात इतौ । यद्यपिअतो गुणे॑ इति पूर्वसूत्रादत इत्यनुवर्त्त्याऽतो ग्रहणमिह त्यक्तुं शक्यं, तथापि पूर्वसूत्रेअत॑इति तपरकरणाद्ध्रस्वाकारस्य ग्रहणमिह तु शब्दाधिकारपक्षाश्रयणादच्छब्दस्य ग्रहणमिति व्याख्याने क्लेशः स्यादिति पुनरत्राऽतो ग्रहणं कृतम् । ॒अव्यक्त॑शब्दं व्याचष्टे-ध्वनेरिति । अनुकरणस्येति । परिस्फुटाऽकारादिवर्णस्येति भावः । तस्य चानुकरणत्वं किंचित्साम्येन बोध्यम् । पररूपस्याऽस्य नित्यत्वेऽपि संहितायामविवक्षितायां तदभावादाह-पटत्-इतीदी ।
लघुसिद्धान्तकौमुदी
असम्बुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः॥
महाभाष्यम्
ओमाङोश्च (2532) (चकारानर्थक्यबोधकभाष्यम्) किमर्थश्चकारः ? । एङीत्यनुकृष्यते । किं प्रयोजनम् ? । इह मा भूत् ‐ - अद्य आ ऋश्यात् ‐ - अद्यार्श्यात्, कदा अर्श्यात् ‐ - कदार्श्यात् । नैतदस्ति प्रयोजनम् । अर्द्यश्यादित्येव भवितव्यम् । एवं हि सौनागाः पठन्ति ‐ - चोऽनर्थकोऽनधिकारादेङः ।। (6194 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।) - उस्योमाङ्क्ष्वाटः प्रतिषेधः - उसि पररूपे ओमाङोश्चाटः प्रतिषेधो वक्तव्यः । औस्रीयत्, औढीयत्, औङ्कारीयत् ।। स तर्हि प्रतिषेधो वक्तव्यः । न वक्तव्यः । उक्तम् आटश्च (90) इत्यत्र चकारस्य प्रयोजनम् ‐ - आटोऽचि वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति ।।