॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
6|1|94
SK 78
6|1|94
एङि पररूपम्  
SK 78
सूत्रच्छेद:
एङि - सप्तम्येकवचनम् , पररूपम् - प्रथमैकवचनम्
अनुवृत्ति:
आत्  [6|1|87] - पञ्चम्येकवचनम् , उपसर्गात्  [6|1|91] - पञ्चम्येकवचनम् , धातौ  [6|1|91] - पञ्चम्येकवचनम्
अधिकार:
संहितायाम्  [6|1|71] , एक: पूर्वपरयो:  [6|1|84]
सम्पूर्णसूत्रम्
आत् उपसर्गात् एङि धातौ पूर्वपरयो: एक: पररूपम्
सूत्रार्थ:
अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।
उपसर्गाः क्रियायोगे 1|4|59 अनेन सूत्रेण प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञां प्राप्नुवन्ति । यदि कश्चन अकारान्तः/ आकारान्तः उपसर्गः एकारादेः / ओकारादेः धातूरूपात् पूर्वम् आगच्छति, तर्हि पूर्व-परयोः एकः पररूप-एकादेशः विधीयते ।

यथा - प्र + एजते = प्रेजते । उप + ओषति = उपोषति । उभयत्र वृद्धिरेचि 6|1|88 इत्यनेन प्राप्तां वृद्धिम् बाधित्वा पररूप-एकादेशः भवति ।

अस्मिन् सूत्रे दीक्षितः सिद्धान्तकौमुद्याम् वा सुप्यापिशलेः 6|1|92 इत्यतः "वा सुपि" इति अपि अनुवर्तयति । तेन अवर्णान्तात् उपसर्गात् एकारादि-ओकारादि-सुब्धातौ परे उभयोः विकल्पेन पररूप-एकादेशः जायते । यथा - "एडकम् आत्मानम् इच्छति" अस्मिन् अर्थे "एडक" शब्दस्य क्यच्-प्रत्यये कृते "एडकीय" इति सुब्धातुः सिद्ध्यति । इदानीम् "प्र + एडकीयति" इत्यत्र विकल्पेन पररूप-एकादेशं कृत्वा "प्रेडकीयति" इति रूपं सिद्ध्यति । विकल्पाभावे वृद्धिरेचि 6|1|88 इत्यनेन वृद्धिं कृत्वा "प्रैडकीयति" इति अपि रूपं सिद्ध्यति । (अत्र अनुवर्तितः "वा" अयं शब्दः केवलं "सुपि" इत्यस्य कृते अस्ति, एङि-इत्यस्य कृते न, इति स्मर्तव्यम् । अतः विकल्पः केवलं सुब्धातोः विषये एव उक्तः अस्ति, अन्येषां विषये न ।)

अत्र कानिचन वार्तिकानि ज्ञातव्यानि -
1. शकन्ध्वादिषु पररूपं वाच्यम् । शकन्ध्वादिगणस्य शब्दानां निर्माणे "पूर्वशब्दस्य टि-संज्ञकस्य" "परशब्दस्य आदिस्वरेण सह" पररूप-एकादेशः करणीयः इत्यर्थः । अयं शकन्ध्वादिगणः एतादृशः -
1) शकन्धु - शक (देशस्य नाम) + अन्धु (कूपः) = शकन्धु । अत्र अकार-अकारयोः सवर्णदीर्घं बाधित्वा अनेन वार्त्तिकेन पररूप-एकादेशः अकारः विधीयते ।
2) कर्कन्धु = कर्क + अन्धु । कर्कदेशस्य कूपः इत्यर्थः ।
3) कुलटा = कुल + अटा । कुलान् अटति सा - वेश्या इत्यर्थः ।
4) सीमन्त = सीमन् + अन्त । अत्र सीमन्-शब्दस्य टि-संज्ञकः "अन्" इत्यस्य अकारे परे पररूप-एकादेशः अकारः भवति । सीमन् इत्युक्ते केशानां मध्ये उपस्थिता रेषा (=केशवेशः) । तस्याः अन्तः = सीमन्तः । (सीमान्तः इति भिन्नः अस्ति, सीमायाः यः अन्तः सः सीमान्तः । इत्यत्र तु सवर्णदीर्घः एव भवति ।)
5) मनीषा = मनस् + ईषा । अत्र मनस्-शब्दस्य टि-संज्ञकः "अस्" इत्यस्य ईकारे परे पररूप-एकादेशः ईकारः भवति । मनसः ईषा मनीषा । ईषा इत्युक्ते अग्रम् ।
6) हलीषा = हल + ईषा । हलस्य ईषा हलीषा (हलस्य अग्रम् इत्यर्थः ।)
7) लाङ्गलीषा = लाङ्गल + इषा । लाङ्गलस्य ईषा इत्यर्थः । लाङ्गलः इत्यक्ते हलः इत्येव ।
8) पतञ्जलि = पतन् + अञ्जलि । अत्र पतन् -शब्दस्य टि-संज्ञकः "अन्" इत्यस्य अकारे परे पररूप-एकादेशः अकारः भवति । अञ्जल्यां पतन् सः पतञ्जलिः ।
9) सारङ्गः = सार + अङ्ग । साराणि अङ्गानि यस्य सः । पशुः पक्षी वा इत्यर्थः । अन्यस्मिन् अर्थे तु "साराङ्ग" इति सवर्णदीर्घः भवति ।

अयम् गणः आकृतिगणः अस्ति । इत्युक्ते, शिष्टप्रयोगैः अन्ये शब्दाः अपि अत्र भवितुम् अर्हन्ति । यथा - मृतण्ड = मृत + अण्ड ।

2) एवे चानियोगे पररूपं वक्तव्यम् । "नियोग" इत्युक्ते अवधारणम् (= "निश्चयः") । एव-शब्दस्य प्रयोगः सामान्यरूपेण अवधारणार्थम् भवति । यथा - "रामः एव शूरः" अस्मिन् अर्थे एव-शब्दस्य प्रयोगः अवधारणार्थे कृतः अस्ति । "निश्चयेन रामः शूरः अस्ति" इत्यर्थः) । एतम् अर्थम् विहाय अन्येषु अर्थेषु यदि एव-शब्दस्य प्रयोगः भवति, तर्हि एव-शब्दात् पूर्वेण वर्णेन सह तस्य पररूप-एकादेशः विधीयते । यथा - क्व एव = क्वेव (किम् / कुत्र इत्यर्थः ।) अवधारणार्थे तु वृद्धिरेचि 6|1|88 इत्यनेन वृद्धि-एकादेशः भवति । यथा - तव + एव = तवैव ।

3) ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् । यदि समस्तपदस्य उत्तरपदम् "ओतु" (=मार्जारः) अथवा "ओष्ठ" एतौ शब्दौ स्तः, तर्हि तस्य समस्तपदस्य निर्माणं विकल्पेन पररूप-एकादेशं कृत्वा भवति । यथा -
- स्थूलः ओतुः = स्थूलोतुः , स्थूलौतुः । अत्र अनेन वार्त्तिकेन विकल्पेन पररूप-एकादेश" भवति । विकल्पाभावात् वृद्धिरेचि 6|1|88 इत्यनेन वृद्धि-एकादेशः भवति ।
- बिम्ब इव ओष्ठः = बिम्बोष्ठः, बिम्बौष्ठः ।
- दन्ताश्च ओष्ठौ च = दन्तोष्ठम् , दन्तौष्ठम् ।
यदि समस्तपदम् नास्ति तर्हि अस्य वार्तिकस्य प्रसक्तिः न भवति । यथा - तव + ओष्ठ = तवौष्ठ ।

4) एमन्नादिषु छन्दसि पररूपं वक्तव्यम् । "एमन्" , "ओद्वन्", "इष्टि" एतेषाम् विषये वेदेषु पररूपं दृश्यते । यथा - त्वा + एमन् = त्वेमन् । त्वा + ओद्वन् = त्वोद्वन् । अभि + इष्टि = अभिष्टि । परि + इष्टि = परिष्टि । (ऋग्वेदस्य प्रथममण्डलस्य 65 तमे सूक्ते तृतीये मन्त्रे "परिष्टि" इत्यस्य प्रयोगः दृश्यते ।)

ज्ञातव्यम् -
1. उपसर्गात् परः यद् धातुरूपम् आगच्छति, तत् एकारादिः /ओकारादिः अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति । मूलधातुः एकारादि-ओकारादिः अस्ति वा नास्ति तस्य चिन्तनम् अत्र न आवश्यकम् ।

2. अवर्णान्त-उपसर्गात् इण्-धातोः / एध्-धातोः एकारादि-रूपे परे वर्तमानसूत्रेण पररूप-एकादेशे प्राप्ते एत्येधत्यूठ्सु 6|1|89 अनेन सूत्रेण अपवादरूपेण वृद्धि-एकादेशः भवति इति स्मर्तव्यम् ।
One-line meaning in English
When an अवर्णान्त उपसर्ग is followed by a एकारादि or ओकारादि verb form, the पूर्व and the पर letters undergo a common पररूप एकादेश.
काशिकावृत्तिः
आतित्येव, उपसर्गाद् धातौ इति च। अवर्णान्तातुपसर्गातेङादौ धातौ पूर्वपरयोः पररूपम् एकादेशो भवति। वृद्धिरेचि 6|1|88 इत्यस्य अपवादः। उपेलयति। प्रेलयति। उपोषति। प्रोषति। केचित् वा सुप्यापिशलेः 6|1|92 इत्यनुवर्त्यन्ति, तच् च वाक्यभेदेन सुब्धातौ विकल्पं करोति। उपेडकीयति, उपैडकीयति। उपोदनीयति, उपौदनीयति। शकन्ध्वादिषु पररूपं वाच्यम्। शक अन्धुः शकन्धुः। कुल अटा कुलटा। सीमन्तः केशेषु। सीम्नो ऽन्तः सीमन्तः। अन्यत्र सीमान्तः। एवे चानियोगे पररूपं वक्तव्यम्। इह एव इहेव। अद्य एव अद्येव। अनियोगे इति किम्? इहैअ भव, मा अन्यत्र गाः। ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्। स्थूल ओतुः स्थूलौतुः, स्थूलोतुः। बिम्बौष्ठी, बिम्बोष्ठी। समासे इति किम्? तिष्ठ देवदत्तौष्ठं पश्य। एमन्नादिषु छन्दसि पररूपं वक्तव्यम्। अपां त्वा एमनपां त्वेमन्। अपां त्वा ओद्मनपां त्वोद्मन्।
`उपेलयति` इति। `इल प्रेरणे` (धातुपाठः-1660) चुरादिणिच्। `प्रोखति इति। `उख नख` (धा। पा। 128,134) इत्युखिर्गत्यर्थो भ्यादौ पठते। यदि `वा सुपि` 6|1|89 इत्यनुवत्र्तयन्ति, एवं सति तेन सहास्यैकवाक्यतायां सुबधातोरेवानेन विकल्पेन पररूपं क्रियते, असुपि तु पररूपं न स्यादेवेत्याह--`तच्च` इत्यादि। एकवाक्यत्वे हि सत्येष दोषः स्यात्। न चात्रैकवाक्यता, किं तर्हि? वाक्यभेदः। तेन तदिहानुवत्र्तमानं सुब्धातावेव विकल्पं करोति, इतरतर तु नित्यमेव पररूपं प्रवत्र्तते। तत्रावर्णान्तादुपसर्गादसुबन्तावयवे धातावेङादौ पूर्वपरयोः पररूपमेकादेशो भवतीत्येकं वाक्यम्, अवर्णान्तादुपसर्गात्? सुबन्तावयवे धातावेङादौ पूर्वपरमोर्वा पररूपमेकादेशो भवतीति द्वितीयम्। तत्र पूर्वेण वाक्येनासुबन्तावयवे धातावुपेलयतत्यादौ नित्यं पररूपं दिधीयते। द्वितीयेन तु सुबन्तावयवे धातावुपेङकीयतीत्येवमादौ विकल्पेन पररूपं विधीयते। वाक्यभेदस्तु `एङि पररूपम्` इति तन्त्रेण सूत्रद्वयोच्चारणाल्लभ्यते। सूत्रद्वये तूच्चार्यमाणे सत्येक एव `वा सुप्यापिशलेः` 6|1|89 इत्येदनुवर्तमानमपि लभ्यानुरोधान्नाभिसम्बध्यते, द्वितीये तु सम्बध्यत एव। तेन वाक्यद्वयं पूर्वोक्तं सम्पद्यते। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानाम्--उत्तरसूत्रे चकारोऽधिकविधानार्थः, तेन शकन्ध्वादिषु पररूपं भविष्यतीति। उत्तरत्राप वक्तव्यशब्दस्यायमर्थो व्याख्यानं चैतददेव वेदितव्यम्। `एवे चानियोगे` इति। नियोगः=नियोजनम्, व्यापारणमित्यर्थः। न नियोगोऽनियोगः=अनवक्लृप्तिः। तत्रैवशब्दे पररूपं वेदितव्यम्। एवशब्दोऽनियमे वर्तते। यदा तमेव केवलं नियमं व्यापारेणाविशिष्टं ब्राऊते तदा पररूपं भवति। यदा तु व्यापारेम विशिष्टं तदा वृद्धिरेव। `बिम्बोष्ठी` इति। `नासिकोदरौष्ठ` 4|1|55 इति ङीष्। `तिष्ठ देवदत्तौष्ठं पश्य` इति वाक्यमेतत्? न तु समासः। देवदत्तशब्दात्? `एङ् ह्यस्वात्? सम्बुद्धेः` 6|1|67 इति सोर्लोपः॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन एङादौ सुब्धातौ वा । उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥एवे चानियोगे (वार्तिकम्) ॥ नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवक्लृप्तावेवशब्दः । अनियोगे किम् । तवैव ॥
एङि पररूपम् - एङि पररूपम् । उपसर्गादीति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधिः ।यस्मिन्विधि॑रिति परिभाषया तदादिग्रहणम् ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह — अवर्णान्तादित्या दिना । एकादेश इति । पूर्वपरयो॑रिति शेषः । प्रेजत इति । एजृ दीर्तौ । प्र-एजते इति स्थिते वृद्धिरेचीति वृदिंध बाधित्वाऽनेन पररूपमेकारः । एजृ कम्पने इति तु परस्मैपदी । उपोषतीति । उष दाहे । लट् तिप् शप् । लघूपधगुणः । उष ओषतीति स्थिते वृदिंध बाधित्वाऽनेन ओकारः । ननु एकडो मेषः, तमात्मन इच्छति एडकीयति , उप एडकीयतीति स्थितेऽनेन नित्यमेव पररूपं स्यात्, इष्यते तु वृद्धिरपि — उपैडकीयति उपैडकीयतीति । तत्राह — इहेति ।एङि पररूप॑मित्यत्र वा सुपीत्यनुवत्र्तते । तच्च नैकवाक्यतया संबध्यते । तथा सति अवर्णान्तादुपसर्गादेङादौ सुब्धातौ परे पररूपमेकादेशो वा स्यादित्येवार्थः स्यात् । एवं सति प्रेजते उपोषतीत्यत्र नित्यं पररूपं न स्यात् । अतो वाक्यभेदेन व्याख्येयम् ।एङि पररूप॑मिति प्रथमं वाक्यम् । अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यादिति तदर्थः ।वा सुपी॑ति द्वितीयं वाक्यम् । तत्र एङि पररूपमित्यनुवर्तते । धातौ उपसर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातौ परे पररूपं वा स्यादिति लभ्यते । तदाह — तेनेति । उक्तरीत्या वाक्यभेदाश्रयणेन एङादौ सुब्धातौ पररूपं पाक्षिकं भवति, तदितरधातौ तु नित्यमित्यर्थः । एवे चानियोगे । नियोगशब्दं व्याचष्टे — नियोगोऽवधारणमिति । अवधारणम्न्ययोगव्यवच्छेदः । तदन्यस्मिन्नर्थे य एवशब्दस्तस्मिन्नकारात्परे पूर्वपरयोः पररूपमेकादेशः स्यादित्यर्थः । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थः । क्व-एव इति स्थिते वृदिंध बाधित्वाऽनेन वार्तिकेन पररूपमेकारः । अनवक्लृप्ताविति । अनवधारण इत्यर्थः । तवैवेति । नान्यस्येत्यर्थः । अत्रैवशब्दस्याऽवधारणार्थत्वान्न तस्मिन् परे पररूपम् । अथ क्वचिट्टेः पररूपं विधातुं टिसंज्ञामाह-अचोऽन्त्यादि टि । "अच" इति निर्धारणे षष्ठी । जातावकवचनम् । अन्ते भवेऽन्त्यः, अन्त्य आदिर्यस्य तत्-अन्त्यादीति विग्रहः । फलितमाह-अचां मध्य इति । शकन्ध्वादिष्विति । शकन्ध्वादिषु विषये तत्सिद्ध्यर्थं पूर्वपरयोः पररूपं वक्तव्यमित्यर्थः । ततश्च शकादिशब्दानां टेरचि परे टेश्च परस्याचश्च स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते । आदित्यनुवृत्त#औ शकन्ध्वादिगणे सीमन्त इत्यादिकतिपयरूपाणामसिद्धेः । तदाह-तच्च टेरिति । शकन्ध्वादिगणं पठति — शकन्धुरित्यादिना । शकानां-देशविशेषाणाम्, अन्धुः=कूप इति विग्रहः । कर्क-अन्धुरिति स्थिते पररूपम् । कुलटेति । अट गतौ । पचाद्यच् । टाप् कुलानामटेति विग्रहः । भिक्षार्थं व्यभिचारार्थं वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कर्मण्यणि टिड्ढाणञिति ङीप्स्यात् । कुल-अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति । गणान्तर्गतवार्तिकमेतत् । केशानां वेशः=सन्निवेशविशेषः । तस्मिन् गम्येसीमन्शब्दस्य टेः-॒अ॑नित्यस्य अन्तशब्दस्थावर्णस्य च स्थाने पररूपमित्यर्थः । आदित्यनुवृत्तौ तु इदं न सिध्येत् ।सीमान्तोऽन्य इति । ग्रामान्तप्रदेश इत्यर्थः । मनीषेति । मनस-ईषेति विग्रहः, । अत्रअ॑सिति टेरीकारस्य च स्थाने पररूपमीकारः । ईष गतौ । "गुरोश्च हलः" इत्यप्रत्ययः । टाप् । बुद्धिर्मनीषा॑इत्यमरः । हलीषेति ।ईषा लाङ्गलदण्डः स्यादि॑त्यमरः । हलस्य ईषेति विग्रहः । "करिकलभ" इतिवत्पुनरुक्तिः समाधेया । अत्र गुणे प्राप्ते पररूपम् । एवं लाङ्गलीषेत्यत्रापि । पतञ्जलिरिति । पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रहः । अत्रअ॑दिति टेरकारस्य च स्थाने पररूपमकारः । केचित्तु गोनर्दाख्यदेशे कस्यचिदृषेः सन्ध्योपालनसमयेऽञ्जलेर्निर्गत इत्यैतिह्रा दञ्जलेः पतन्निति विगृह्णन्तिव । मयूरव्यंसकादित्वात्समासः । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गतं वार्तिकम् । भाष्ये तु न दृश्यते ।सार॑शब्द उत्कृष्टे ।सारो बले स्थिरांशे च न्याय्ये क्लीबेऽम्बरे त्रिषु॑ इत्यमरः । साराणि अङ्गानि यस्येति विग्रहः । सार-अङ्ग इति स्थिते सवर्णदीर्घे प्राप्तेऽनेन पररूपम् ।चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॑ इत्यनरः । आकृतिगणोऽयमिति । आकृत्या= एवञ्जातीयकतया निर्णेतव्योऽयं गण इत्यर्थः । लोकप्रयोगानुसारेणैवंजातीयकाः शब्द#आ अस्मिन् गणे निवेशनीय इति यावत् । तत्फलमाह — मार्तण्ड इति । मृतमण्डं यस्य स मृतण्डः कश्चिदृषिः । मृत-अण्ड इति स्थिते सवर्णदीर्घं बाधित्वाऽनेन पररूपम् । ततेऽपत्येऽणि मार्तण्डः ।परामार्ताण्डमास्थ॑दिति सवर्णदीर्घस्तु च्छान्दसः । ओत्वोष्ठयोः । अवर्णादोतुशब्दे ओष्ठशब्दे च परे पूर्वपरयो रचोः स्थाने पररूपं वक्तव्यमित्यर्थः । स्थूलोतुरिति ।ओतुर्बिडालो मार्जारः॑ इत्यमरः । स्थूल — ओतुरिति स्थिते वृदिंध बाधित्वा पाक्षिकं पररूपम् । बिम्बोष्ठ इति । बिम्बफलवद्रक्तवर्णावोष्ठौ यस्येति विग्रहः ।
एङि पररूपम् - एङि पररूपम् ।एङ्ये॑ङित्येव सिद्धेपर॑-ग्रहणमुत्तरार्थम् ।रूप॑ ग्रहणं तु स्पष्टार्थम्,अमि पूर्व॑वदेङि पर इत्येव सिद्धेः । प्रेजत इति ।एजृ दीप्तौ॑ । कम्पनार्थस्तु परस्मैपदी । प्रेजति ।एवे चाऽनियोगे । नियोगोऽवधारणमिति । निर्धारणमित्यर्थः । तदुक्तम्-॒अनवक्लृप्तौ यदा दृष्टः पररूपस्य गोचरः । एवस्तु विषयो वृद्धेर्नियमेऽयं यदा भवेत् ।॑ इति । अस्यार्थः-अनवक्लृप्तौ अनिश्चये यदा एवकारो दृष्टः स पररूपस्य विषयः । यस्तु नियमे निर्धारणे यदा दृष्टः स वृद्धेर्विषय इति । ये तुनियोगे त्वद्यैव गच्छे॑ति प्राचोग्रन्थे स्थितस्य प्रत्युदाहरणस्यानुगुणतयानियोजनं नियोगो व्यापार॑ इति व्याचक्षते, तेषांयदैव पूर्वं ज्वलने शरीरं॑ममैव जन्मान्तरपातकाना॑मिति लौकिकप्रयोगाः,तपस्तपःकर्मकस्यैव॑लङः शाकटायनस्यैवे॑त्यादिसौत्रप्रयोगाश्चन सिद्धयेयुः । उदाह्मतवृत्तिश्लोकविरोधश्च स्यात् ।अवधारण॑मिति व्याकुर्वतां तु सर्वेष्टसिद्धिः ।(६६) अचोऽन्त्यादि टि.१.१.६४ ।अचोऽन्त्यादि टि ।अच॑ इति निर्धारणे षष्ठी । जातावेकवचनं, तदाह-अचां मध्य इति ।शकन्ध्वादिषु पररूपं वाच्यम् । शकन्ध्वादिष्विति । शकन्ध्वादिविषये तत्सिद्धयनुगुणं पररूपं वाच्यमित्यर्थः । अतएवाह-तच्च टेरिति । यदि तुआ॑दित्यधिकारादकारस्यैवेष्येत तर्हि मनीषा पतञ्जलिरिति न सिध्येत् । केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोपे अकारस्यैव पररूपमाहुः । शकानां देशविशेषाणामन्धुः कूपः । कर्काणां राजविशेषाणामन्धुः कर्कन्धुः अटतीत्यटा । पचाद्यचि टाप् । कृलस्य अटा कुलटा । यदि तु कुलमटतीति विगृह्रते तदा कर्मण्यणि ङीपिकुलाटी॑ति त्यात् ।ईष उञ्छे॑ ।ईष गत्यादिषु॑ । आभ्यांगुरोश्च हलः॑ इत्यप्रत्यये ईषा । मनस ईषा मनीषा । हलस्य ईषा हलीषा । ईषा-लाङ्गलदण्डः । पतन्तोऽञ्जलयो यस्मिन्नमस्कार्यत्वादिति पतञ्जलिः । मार्तण्ड इति । पररूपेणानेनमृतण्ड॑ इति सिद्धे तत अण्यादिवृद्धिः ।परा मार्ताण्डमास्यत्पुनर्मार्ताण्डमाभरत् इत्यादिषु तु दीर्घश्छान्दस इति भावः । केचिदत्र सवर्णदीर्घमेवाहुः । पूर्वोक्तवैदिकप्रयोगास्तेषामनुकूलः ।ओत्वोष्ठयोरिति । अकारस्य ओत्वोष्ठयोश्च एकत्र समासे स्थितौ सत्यामिदं प्रवर्तते । तेनेह न,-॒वृषलसुतौष्ठव्रणस्ते॑ इति ।
लघुसिद्धान्तकौमुदी
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥
महाभाष्यम्
एङि पररूपम् (2531) (पररूपाधिकरणम्) (6188 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।) - पररूपप्रकरणे तुन्वोर्वि निपात उपसंख्यानम् - पररूपप्रकरणे तु नु इत्येतयोर्वकारादौ निपात उपसंख्यानं कर्तव्यम् । तु वै-त्वै, वै-न्वै । वकारादाविति किमर्थम् ? त्वावत्, न्वावत् ।। निपात इति किमर्थम् ? तु वानि, नु वानि ।। (6189 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।) - न वा निपातैकत्वात् - न वा कर्तव्यम् । किं कारणम् ? निपातैकत्वात् । एक एवायं निपातः ‐ - त्वै, न्वै ।। (6190 उपसंख्यानवार्तिकम् ।। 3 ।।) - एवे चानियोगे - पररूपं वक्तव्यम् । इह एव ‐ - इहेव, अद्येव । अनियोग इति किमर्थम् ? इहैव भव मा स्म गाः, अत्रैव त्वमिह वयं सुशेवाः ।। (6191 उपसंख्यानवार्तिकम् ।। 4 ।।) - शकन्ध्वादिषु च - शकन्ध्वादिषु पररूपं वक्तव्यम् । शक अन्धुः ‐ - शकन्धुः, कुल अटा ‐ - कुलटा, सीम अन्तः ‐ - सीमन्तः । केशेष्विति वक्तव्यम् । यो हि सीम्नोऽन्तः, सीमान्तः स भवति ।। (6192 उपसंख्यानवार्तिकम् ।। 5 ।।) - ओत्वोष्ठयोः समासे वा - ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् । स्थूलोतुः ‐ - स्थूलौतुः, बिम्बोष्ठी ‐ - बिम्बौष्ठी ।। (6193 उपसंख्यानवार्तिकम् ।। 6 ।।) - एमनादिषु च्छन्दसि - एमनादिषु च्छन्दसि पररूपं वक्तव्यम् । अपां त्वेमन्सादयाम्यपां त्वोद्मन्सादयामि ।।