Page loading... Please wait.
6|1|92 - वा सुप्यापिशलेः
॥ तस्मै पाणिनये नमः ॥
6|1|92
SK 77
वा सुप्यापिशलेः   🔊
सूत्रच्छेदः
वा (अव्ययम्) , सुपि (सप्तम्येकवचनम्) , आपिशलेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
आत्  6|1|87 (पञ्चम्येकवचनम्) , वृद्धिः  6|1|88 (प्रथमैकवचनम्) , धातौ  6|1|91 (सप्तम्येकवचनम्) , ऋति  6|1|91 (सप्तम्येकवचनम्) , उपसर्गात्  6|1|91 (पञ्चम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
आत् उपसर्गात् ऋति सुपि धातौ पूर्वपरयोः वृद्धि-एकादेशः वा |
सूत्रार्थः
अवर्णान्तात् उपसर्गात् ऋकारादौ सुब्धातौ परे विकल्पेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
अवर्णान्तात् उपसर्गात् ऋकारादौ धातौ परे विकल्पेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।

उपसर्गाः क्रियायोगे 1|4|59 अनेन सूत्रेण प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञां प्राप्नुवन्ति ।

"सुब्धातु" इत्युक्ते सः धातुः यः प्रातिपदिकात् सनादि-प्रत्ययानां प्रयोगं कृत्वा सिद्ध्यति । यथा - "पुत्रम् आत्मानम् इच्छति" अस्मिन् अर्थे "पुत्र" प्रातिपदिकस्य "काम्यच्" प्रत्ययं कृत्वा "पुत्रकाम्य" इति धातुनिर्माणं भवति । अयमेव सुब्धातुः । "नामधातु" इति अपि अस्य अन्यत् नाम ।

यदि कश्चन अकारान्तः/ आकारान्तः उपसर्गः ऋकारादेः सुब्धातोः पूर्वम् आगच्छति, तर्हि अनेन सूत्रेण अवर्ण-ऋवर्णयोः एकः वृद्धि-एकादेशः "आर्" विधीयते ।

ऋकार-ऌकारौ सवर्णौ स्तः , अतः "ऋति" इत्यनेन ऌकारस्यापि ग्रहणं भवति । यथा - उप + ऌकारीयति = उपाल्कारीयति, उपल्कारीयति ।

ज्ञातव्यम् -
1) "ऋति" इत्यत्र तपरकरणम् कृतम् अस्ति, अतः केवलं ह्रस्व-ऋकारादौ/ऌकारादौ-धातौ परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति, दीर्घ-ॠकारादौ धातौ परे न । यथा - प्र + ॠकारीयति = उपर्कारीयति । इत्यत्र आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशं कृत्वा रूपं सिद्ध्यति ।
यथा - "ऋषभम् आत्मानम् इच्छति" अस्मिन् अर्थे "ऋषभ" शब्दस्य क्यच् प्रत्ययः भवति, तथा च "ऋषभीय" इति सुब्धातुः सिद्ध्यति । अतः "प्र + ऋषभीयति" इत्यत्र वर्तमानसूत्रेण वैकल्पिकां वृद्धिं कृत्वा "प्रार्षभीयति" इति रूपं सिद्ध्यति । विकल्पाभावे तु आद्गुणः 6|1|87 इत्यनेन गुणं कृत्वा "प्रर्षभीयति" इति अपि रूपं सिद्ध्यति ।
- "आपिशलिः" इति कश्चन वैयाकरणः । अस्मिन् सूत्रे तस्य नाम पूजार्थम् स्वीकृतम् अस्ति । अष्टाध्याय्यां सामान्यरूपेण यत्र पाणिनिः अन्येषाम् आचार्याणाम् नाम उक्त्वा किञ्चन कार्यं वदति, तत्र तत् कार्यं वैकल्पिकं मन्यते । परन्तु अत्र पाणिनिना "वा" इति उक्त्वा आदौ एव वैकल्पिकत्वम् उक्तम् अस्ति । अतः अत्र "आपिशलि"-मुनेः ग्रहणम् केवलं पूजार्थम् (आदरार्थम्) क्रियते इति पण्डिताः मन्यन्ते ।
One-line meaning in English
When an अवर्णान्त उपसर्ग is followed by a ऋकारादि सुब्धातु, both of them optionally undergo a वृद्धि-एकादेश.
काशिकावृत्तिः
आतित्येव, उपसर्गातृति धातौ इति च। सुबन्तावयवे धातौ ऋकारादौ परतः अवर्णान्तातुपसर्गात् पूर्वपरयोः आपिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्शभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। ऋकारलृकारयोः सावर्ण्यविधिः इति ऋति इति लृकारो ऽपि गृह्यते। आपिशलिग्रहणं पूजर्थम्, वा इति ह्युच्यते एव।
धातावित्यनुवर्तते, सुपीति चोच्यते, न च सुबन्तो धातुरस्ति, तत्र समथ्र्याद्धात्वेकदेशे वत्र्तमानं सुपत्येतदिह विशेषणं विज्ञायते, इत्याह--`सुबन्तावयवे धातौ` इत्यादि। `उपाल्कारीयति` इति। कथं पुनरृतीतयुच्यमाने लुकारे वृद्धिः प्रवत्र्तते? इत्याह--`ऋकारलृकारयोः` इत्यादि। ऋकारलृकारयोः सवर्णसंज्ञा विहितेति ऋकारो गृह्रमाण लृकारमपि ग्राहयतीति तत्रापि वृद्धिर्भवति। `आपिशलिग्रहणं पूजार्थम्` इति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह---`वेत्युच्यत एव` इति। यद्यप्याचार्यग्रहणेनैव पूजा, विकल्पश्चोभयं सम्पद्यते; तथाप्याचार्यग्रहणस्य प्राधान्येन पूजां ख्यापयितुं वाग्रहणं कृतमिति भावः॥
सुबन्तस्य धातोरसम्भवात्सुबित्येत्येतद्धातोरवयवद्वारकं विशेषणमित्याह--सुबन्तावयवे धाताविति। आचार्यग्रहणेनैव पूजाविकल्पयोरपि सिद्धयोः पुनर्वाग्रहणमाचार्यग्रहणस्य प्राधान्येन पूजार्थतां ख्यापयितुं कृतम् ॥
सिद्धान्तकौमुदी
अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् लृवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥
वा सुप्यापिशलेः - न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामथ्र्याद्बाध्यत इत्यर्थः । वा सुपि । उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण #इत्यतो वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह — अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतकधातौ परत इत्यर्थः, सुबन्तस्य धातोरसंभवात् । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि तुस्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात्सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह — आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः संमत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यच्॒सनाद्यन्ताः॑ इति धातुत्वम् ।सुपो धातुप्रातिपदिकयोः॑ इति सुपो लुक् ।क्यचि चे॑ति ईत्वम् । लट्, तिप्, शप् । पररूपम् । प्र ऋषभीयति इति स्थितेऽनेन वृद्धिराकारः । रपत्वम् । प्रर्षभीयतीति । वृद्ध्यभावपक्षे आद्गुणः, रपरत्वम् । सावण्र्यादिति । ऋलृवर्णयोरिति सावण्र्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । लृकारमात्मान इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्वभावादत्र गुणः । लपरत्वम् । तपरत्वादिति । ऋतीति तपरकरणेन तत्कालस्यैव ग्रहणाद्दीर्घऋकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्ध्यभावादत्र गुण एव ।
वा सुप्यापिशलेः - सुब्धाताविति । सुबन्तावयवके इत्यर्थः । सुबन्तस्य धातोरसंभवात् । यद्यपिऋज गतौ॑ इत्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि न तादृशेषु तपरत्वव्यावर्त्त्यत्वं प्रसिद्धं, नामधातुष्वेव तत्संभवतीति न त एवेह गृह्रन्ते इति भावः । प्रार्षभीयतीति ।शरोऽची॑ति वक्ष्यमाणेन द्वित्वनिषेधः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.