Page loading... Please wait.
6|1|89 - एत्येधत्यूठ्सु
॥ तस्मै पाणिनये नमः ॥
6|1|89
SK 73
एत्येधत्यूठ्सु   🔊
सूत्रच्छेदः
एति-एधति-ऊठ्सु (सप्तमीबहुवचनम्)
अनुवृत्तिः
आत्  6|1|87 (पञ्चम्येकवचनम्) , एचि  6|1|88 (सप्तम्येकवचनम्) , वृद्धिः  6|1|88 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
आत् एचि एति-एधति-ऊठ्सु एकः पूर्वपरयोः वृद्धिः
सूत्रार्थः
अवर्णात् परस्य इण्-धातोः एध्-धातोः एच्-वर्णे परे तथा ऊठ्-शब्दे परे पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।
यदि अकारात् / आकारात् परः -
1) इण्-धातोः एकारादि /ऐकारादि / ओकारादि /औकारादि रूपम् आगच्छति, अथवा
2) एध्-धातोः एकारादि /ऐकारादि / ओकारादि /औकारादि रूपम् आगच्छति, अथवा
3) "ऊठ्" अयम् शब्दः आगच्छति, तर्हि -
पूर्वपरयोः स्थाने एकः वृद्धि-एकादेशः भवति ।

उदाहरणानि -

1) उप + एति → उपैति । अकार-एकारयोः वृद्धि-एकादेशः ऐकारः ।

2) प्र + एधते → प्रैधते । अकार-एकारयोः वृद्धि-एकादेशः ऐकारः ।

3) "विश्ववाह्" शब्दस्य तृतीयैकवचनस्य रूपस्य प्रक्रिया इयम् -
विश्ववाह् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ विश्व ऊ आ ह् + आ [वाह् ऊठ् 6|4|132 इत्यनेन वकारस्य सम्प्रसारणम् ऊकारः । ठकारस्य इत्संज्ञा, लोपः ।]
→ विश्व ऊ ह् + आ [सम्प्रसारणाच्च 6|1|108 इति ऊकार-आकारयोः एकः पूर्वरूपः ऊकारः]
→ विश्वौहा [एत्येधत्यूठ्सु 6|1|89 इति अकार-ऊकारयोः वृद्धि-एकादेशः औकारः।]

4) क्र्यादिगणस्य "खच्" (भूतप्रादुर्भावे) अयं धातुः पाठभेदेन "खव्" इत्यपि पठ्यते । खव्-इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
खव् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ खव् + तिप् [तिप्तस्.. 3|4|78 इति तिप्]
→ खव् + श्ना + तिप् [क्र्यादिभ्यः श्ना 3|1|81 इति श्ना-विकरणप्रत्ययः]
→ ख ऊठ् + ना + ति [अनुनासिकादौ ङिति प्रत्यये परे च्छ्वोः शूडनुनासिके च 6|4|19 इति वकारस्य ऊठ्-आदेशः]
→ खौनाति [एत्येधत्यूठ्सु 6|1|89 इति अकार-ऊकारयोः वृद्धि-एकादेशः औकारः।]

अत्र कानिचन वार्तिकानि ज्ञातव्यानि -

1. अक्षादूहिन्यामुपसङ्ख्यानम् । अक्ष + ऊहिनी = "अक्षौहिणी" इत्यत्र गुणं बाधित्वा वृद्धि-एकादेशः भवति । (अत्र पूर्वपदात्‌ संज्ञायामगः 8|4|3 इत्यनेन णत्वं भवति ।)

2. स्वादीरेरिण्योः । "स्वात् ईर-ईरिण्योः" इति विग्रहः । "स्व" शब्दात् "ईर" तथा "ईरिणी" शब्दयोः परयोः वृद्धिः भवति । यथा - स्व + ईर = स्वैर । स्व + ईरिणी = स्वैरिणी । उभयत्र गुणापवादः ।
- ईर् (गतौ) + भावे घञ् प्रत्ययः = ईरः । "स्वच्छन्दं गमनम्" इति स्वैरम् ।
- ईर् (गतौ) + ताच्छिल्ये णिनिँ प्रत्ययः = ईरिन् । तस्य स्त्रियाम् ङीप्-प्रत्ययः = ईरिणी । स्वच्छन्दं ईरितुं शीलं अस्याः सा स्वैरिणी ।

3. प्रादूहोढोढ्येषैष्येषु । "प्रात् ऊह-ऊढ-ऊढि-एष-एष्येषु" इति विग्रहः । प्र-उपसर्गात् परस्य एतेषां शब्दानाम् वृद्धि-एकादेशः भवति इत्यर्थः ।
- ऊहः = ऊहँ वितर्के + भावे घञ् । प्र + ऊहः = प्रौहः । अयं गुणापवादः ।
- ऊढः = वह् प्रापणे + भूते कर्मणि क्तः । प्रौढः । गुणापवादः । ("ऊढवान्" इत्यस्य विषये अस्य वार्तिकस्य प्रयोगः न भवति, अतः तत्र "प्रोढवान्" इति गुणादेशं कृत्वैव रूपं सिद्ध्यति इति स्मर्तव्यम् । एतत् स्पष्टीकर्तुम् दीक्षितः अर्थवद्ग्रहणे न अनर्थकस्य ग्रहणम् अस्याः परिभाषायाः साहाय्यं स्वीकरोति । "ऊढवान्" इति अर्थवान् शब्दः , अतः तस्य निर्देशः "ऊढ" इति तस्य अनर्थकेन शकलेन न भवति इत्यर्थः ।)
- ऊढिः = वह् प्रापणे + स्त्रियाम् क्तिन् । प्रौढिः । गुणापवादः ।
- एषः = इषँ (इच्छायाम् / गतौ / आभीक्ष्ण्ये) + भावे घञ् । प्रैषः । एङि पररूपम् 6|1|94 इत्यनेन विहितस्य पररूपस्य अपवादरूपेण अत्र वृद्धिः आगच्छति ।
- एष्यः = इषँ (इच्छायाम् / गतौ / आभीक्ष्ण्ये) + ण्यत् । प्रैष्यः । एङि पररूपम् 6|1|94 इत्यनेन विहितस्य पररूपस्य अपवादरूपेण अत्र वृद्धिः आगच्छति ।

4. ऋते च तृतीयासमासे । तृतीयासमासे अकारात् "ऋत" शब्दे परे उभयोः वृद्धि-एकादेशः भवति ।
यथा - "सुखेन ऋतः" अस्मिन् अर्थे "सुख + ऋत" इति तृतीया-तत्पुरुषसमासः भवति । अत्र गुणं बाधित्वा अनेन वार्त्तिकेन वृद्धि-एकादेशं कृत्वा "सुख् + आर्तः" = सुखार्तः इति रूपं जायते । अत्र अकार-ऋकारयोः वृद्धि-एकादेशस्य रूपेण 1|1|51 इति रपरः आकारः आगच्छति ।
तृतीयासमासः नास्ति चेत् गुण-एकादेशः एव भवति । यथा - परमश्च असौ ऋतश्च = परमर्तः ।

5. प्रवत्सतरकम्बलवसनार्णदशानामृणे । प्र/वत्सतर/कम्बल/वसन/ऋण/दश - एतेषां शब्दानाम् ऋण-शब्दे परे गुणं बाधित्वा पूर्वपरयोः वृद्धि-एकादेशः भवति ।
- प्र + ऋणम् = प्रार्णम् ।
- वत्सतर + ऋणम् = वत्सतरार्णम् ।
- कम्बल + ऋणम् = कम्बलार्णम् ।
- वसन + ऋणम् = वसनार्णम् ।
- ऋण + ऋणम् = ऋणार्णम् ।
- दश + ऋणः = दशार्णः (देशः इत्यर्थः) । दश + ऋणा = दशार्णा (नदी इत्यर्थः) ।


अस्य सूत्रस्य विषये एते बिन्दवः स्मर्तव्याः -
1. "एति" इत्यनेन इण्-धातोः निर्देशः क्रियते । तथा च्, "एधति" इत्यनेन एध्-धातोः निर्देशः क्रियते । इक्श्तिपौ धातुनिर्देशे इत्यनेन अत्र श्तिप्-प्रत्ययं प्रयुज्य धातुनिर्देशौ कृतौ स्तः ।
2. अवर्णान्तात् उपसर्गात् परः इण्-धातोः / एध्-धातोः एजादौ रूपे परे एङि पररूपम् 6|1|94 इत्यनेन वस्तुतः पररूप-एकादेशः प्राप्यते । तस्य अपवादरूपेण वर्तमानसूत्रेण वृद्धि-एकादेशः विधीयते ।
3. अवर्णात् परः ऊठ्-शब्दे परे आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशः प्राप्यते । तस्य अपवादरूपेण वर्तमानसूत्रेण वृद्धि-एकादेशः विधीयते ।
4. इण्-धातोः / एध्-धातोः केवलं एजादि-रूपेषु परेषु एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषु रूपेषु परेषु न । यथा - इण्-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् "इतः" इत्यस्य विषये "उप + इतः" इत्यत्र आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशः भवति । तथैव एध् धातोः णिजन्तरूपस्य लुङ्-लकारस्य प्रथमपुरुषैकवचनम् "इदिधत्" इत्यस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः नास्ति - उप + इदिधत् = उपेदिधत् ।
5. अस्मिन् सूत्रे "एचि एति" तथा "एचि एधति" एतयोः अर्थः "इण्-धातोः एच्-वर्णादि रूपम्" तथा "एध्-धातोः एच्-वर्णादिः रूपम्" इति भवति । अत्र यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया आदिग्रहणं भवति ।
One-line meaning in English
When an अवर्ण followed by (1) एच् letter of the इण् धातु or एध् धातु, or (2) the word ऊठ्, the पूर्व and पर words undergo a वृद्धि-एकादेश.
काशिकावृत्तिः
वृद्धिरेचि इति वर्तते, आतिति च। तदेततेज्ग्रहणम् एतेरेव विशेषणं , न पुनरेधतेः, अव्यभिचारात्, ऊठश्च सम्भवात्। इण् गतौ इत्येतस्मिन् धातौ एचि, एध वृद्धौ इत्येतस्मिनूठि च पूर्वं यदवर्णं ततश्च परो यो ऽच्, तयोः पूर्वपर्योः अवर्णाचोः स्थाने वृद्धिरेकादेशो भवति। उपैति। उपैषि। उपैमि। उपैधते। प्रैधते। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। ऊठि आद्गुणापवादो वृद्धिर् विधीयते। एत्येधत्योः तु एङि पररूपापवादः। ओमाङोश्च 6|1|95 इत्येतत् तु पररूपं न बाध्यते, येन न अप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति, पुरस्तादपवादा अनन्तरान् विधीन् बधन्ते इति वा। तेन इह न भवति, उप आ इतः उपेतः इति। एचि इतेव, उप इतः उपेतः। अक्षादूहिन्यां वृद्धिर् वक्तव्या। अक्षौहिणी। स्वादीरेरिण्योर् वृद्धिर् वक्तव्या। स्वैरम्। स्वैरिणी। प्रादूढोढ्येषैष्येषु वृद्धिर् वक्तव्या। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। ऋते च तृतीयासमासे ऽवर्णाद् वृद्धिर् वक्तव्या। सुखेन ऋतः सुखार्तः। दुःखेन ऋतः दुःखार्तः। ऋतः इति किम्? सुखेन इतः सुखेतः। तृतीया इति किम्? परमर्तः। समासे इति किम्? सुखेनर्तः। प्रवत्सतरकम्बलवसनानाम्र्णे वृद्धिर् वक्तव्या। प्र प्रार्णम्। वत्सतर वत्सतरार्णम्। कम्बल कम्बलार्णम्। वसन वसनार्णम्। ऋणदशाभ्यां वृद्धिर् वक्तव्या। ऋणार्णम्। दशार्णम्।
सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तौ च सम्भवव्यभिचारावेतादेव धातौ स्तः, नेतरत्रेत्याह--`तदेतदेज्ग्रहणम्` इत्यादि। `प्रष्ठौहः` इति। प्रष्ठं बहतीति `छन्दसि सहः` 3|2|63 इति `वहश्च` 3|2|64 इति ण्विप्रत्ययः `वाह ऊठ्` 6|4|132 इत्यूठ्? सम्प्रसारणसंज्ञकः, `सम्प्रसारणाच्च` 6|1|104 इति परपूर्वत्वम्, ततो वृद्धिः। `एत्येधत्योरेङि पररूपापवादः` इति वृद्धिर्विधीयत इति प्रकृतेन सम्बन्धः। अथ `ओमाङोश्च` 6|1|92 इत्यस्याप्याङि पररूपापवादो वृद्धिः कस्मान्न भवति, नाप्राप्ते हि पररूप इयं वृद्धिरारभ्यत इति मा यथैङि पररूपं बाधते तथाङि पररूपमपि बाधेत, ततश्चेहापि स्यात्--आ+इतः=एतः, उप+एतः=उपेतः? इत्यत आह--`ओमाङोश्चेत्येतत्` इत्यादि। अत्रैव कारणमाह--`येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति` (इति)। नाप्रप्त एङि पररूपे इयं वृद्धिरारभ्यत इति युक्तं यत्? तस्य बाधिका भवति। आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे उप+एति=उपैतीति--अत्र त्वप्राप्ते। तस्मादेषा वृद्धिराङि पररूपत्वं न बाधते। `पुरस्तादपवादाः` इत्यादिना परीहारान्तरमाह--`पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।9) इति, इयं च वृद्धिः पुरस्तादपवादः, अस्याश्चैहि पररूपमेवानन्तरम्, अतस्तदेव तया बाध्यते, नाङि पररूपम्, तस्यान्तरत्वात्। `अक्षात्` इत्यादि। `वक्तव्या` इति। व्याख्येयेत्यर्थः। तत्रेदं व्याख्यानम्--उत्तरसूत्रे चकारोऽधिकविधानार्थः। तेनाक्षशब्दादूहिनीशब्दे परतो वृद्धिर्भविष्यतीति। एवमुत्तरत्रापि वक्तव्यशब्दस्यार्थः, व्याख्यानमप्येवमेव वेदितव्यम्। अक्षाणामूहः, सोऽस्यास्तीति मत्वर्थीयः इनिः। `ऋन्नेब्यो ङीप्` 4|1|5 इति ङीप्--`अक्षौहिणो`।`स्वैरम्` इति। `ईर गतौ` (धातुपाठः-1018) ईरणमीरः, भावे घञ्? स्वस्य ईरः स्वैरः। क्रियविशेषणत्वात्? स्वैरमिति वृत्तौ नपुंसकलिङ्गेन निर्देशः। क्रिया तु काचिदत्राध्याहत्र्तव्या। अथ वा स्व ईरो यस्य कुलस्य तत्? स्वैरं कुलम्। नपुंसकस्य कुलादेरन्यपदार्थत्वान्नपुंसकलिङ्गत्वम्। `स्वैरी` [स्वैरिणी--काशिका] इति। स्वमीरितुं शीलमस्येति `सुप्यजातौ णिनिस्ताच्छील्ये` 3|2|78 इति णिनिः। ऊढ, ऊढिरिति शब्दौ निष्ठाक्तिन्नन्तौ। `प्रैषः` इति। `इष गतिरहिसादानेषु` (धातुपाठः-1127) `इषु इच्छायाम्` (धातुपाठः-1351) इति वा, अभ्यां प्रपूर्वाभ्यां यदा घञ्? तदा प्रैषः, यदा तु ण्यत्? तदा प्रैष्य इति। `सुखार्त्तः` इति। `कर्त्तृकरणे कृता बहुलम्` 2|1|31 इति समासः॥
न पुनरेधतेरव्यभिचारादिति। बाहुल्याभिप्रायेणैतदुक्तम्। अस्ति ह्यस्यापि व्यभिचारः--चङ्युपधाह्रस्वत्वे भवान् मा प्रेदिधदित्यत्रेत्याहुः। प्रष्ठौह इति। प्रष्ठ्ंअ वहतीति ठ्धन्दसि सहःऽ, ठ्वहश्चऽ इति ण्विः, ठ्वाह ऊठऽ इत्यूठ, सम्प्रसारणम्, पूर्वत्वम्, ततो वृद्धिः। एत्येधत्योरेहि पररूपापवाद इति। वृद्धिर्विधीयत इत्यनुषङ्गः। यथैव तर्हि ठेङ् पिररूपम्ऽ बाधते, एवमाङ् पिररूपमपि बाधेतः नाप्राप्ते पररूपेऽस्या वृद्धेरारम्भात्? इत्यत आह-ओमाङेश्चैतच्चिवति। कुतः? इत्याहयेनेति। स तस्य बाधको भवतीति। तस्यैव बाधको भवतीति यावत्, तद्बाधस्यावश्यम्भावित्वात्, तावता च बाधकस्य चरितार्थत्वात्। न चाप्राप्ते एङ् पिररूपे इयं वृद्धिरारभ्यते, आङ् पिररूपे तु आ इतःउएतः, प्रेतः, परेत इत्यत्र प्राप्ते; उपैति, प्रैतीत्यत्र त्वप्राप्ते तस्मान्न बाधते। परिहारान्तरमाह--पुरस्तादिति। अनन्तरे बाध्ये ज्ञाते तद्बाधया वचनस्य चरितार्थत्वादुतरेण सह स्पर्द्धायां परत्वातदेव भवतीति भावः। अक्षौहिणीति। अक्षैरूहतेऽवश्यमिति आवश्यके णिनिः, साधनम् ठ्कृताऽ इति समासः। स्वैरमिति। ठीर गतौऽ, ईरणमीरः, भावे घञ्, स्वेनाभिप्रायेण ईरणं स्वैरम्, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, क्रियाविशेषणात्वाल्लोकाश्रयत्वाद्वा लिङ्गस्य नपुंसकत्वम्। स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी, ठ्सुप्यजातौऽ इति णिनिः। ईरिग्रहणमनर्थकम्, स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी, ठ्सुप्यजातौऽ इति णिनिः। ईरिग्रहणमनर्थकम्, ठ्पदास्वैरिबाह्यऽ इति निपातनात्सिद्धम्, पदास्वैरशब्दादिना मत्वर्थीयेन सिद्धम्, णिनिस्त्वनभिधानान्न भविष्यति। प्रादित्यादि। ऊढ, ऊढि, एष्य--इत्येतान्युतरपदानि। इष्यतेरिच्छतेरिष्णातेर्वा यदा ण्यत् तदा--प्रैष्यः, यदा घञ् तदा-प्रैषः, एङ् पिररूपापवादो वृद्धिः। ईष्यशब्दे तु प्रेष्य इति भवति। तथा आऔउढा ओढा प्रोढेअति ठोमाङेश्चऽ इति पररूपं भवति। पूर्वोपातस्य ऋणस्यापनयनाय यदृणमन्यदुपातं तद् ऋणार्णम्। दशार्णशब्दो नदीविशेषस्य, देशविशेषस्य च संज्ञा ॥
सिद्धान्तकौमुदी
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् (कौमुदी-78) इत्यस्यैव बाधिका न तु ओमाङोश्च (कौमुदी-80) इत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ॥ ।अक्षादूहिन्यामुपसङ्ख्यानम् (वार्तिकम्) ॥ अक्षौहिणी सेना ॥ ।स्वादीरेरिणोः (वार्तिकम्) ॥ स्वेनेरितुं शीलमस्येति स्वैरी । लिङ्विशिष्टपरिभाषया स्वैरिणी ॥ ।प्रादूहोढोढ्येषैष्येषु (वार्तिकम्) ॥ प्रौहः । प्रौढः । [(परिभाषा - ) अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्] । व्रश्चे (कौमुदी-294)ति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् ॥ तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये क्र्यादिः । एषां घञि ण्यति च एषः एष्यः इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥ऋते च तृतीयासमासे (वार्तिकम्) ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः ॥प्रवत्सतरकम्बलवसनार्णदशानामृणे (वार्तिकम्) ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥
एत्येधत्यूठ्सु - एत्येधत्यूठसु । एतिश्च एधतिश्च ऊठ्चेति विग्रहः । एतीति एधतीति चईक्श्तिपौ धातुनिर्देशे॑ इति श्तिपा निर्देशः । इण् गताविति, एध वृद्धाविति च धातू विवक्षितौ । एचीत्यनुवर्तते ।यस्मिन्विधि॑रिति तदादिग्रहणम् । एजादाविति लभ्यते । तच्च एत्येधत्योरेव विशेषणं, न तूठोऽसंभवात् ।एकः पूर्वपरयो॑रित्यधिकृतम् । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तदाह — अवर्णादित्यादिना । उपैतीति । इण्धातोर्लट् । तिप् शप् लुक् । "सार्वधातुक" इति इकारस्य गुण एकारः । उप-एतीति स्थितेऽनेन वृद्धिः । उपैधत इति । एधधातोर्लट् । आत्मनेपदं तादेशः । शप् ।टित आत्मनेपदाना॑मित्येत्वम् । उप एधते इति स्थितेऽनेन वृद्धिः । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् ।वहश्चे॑ति ण्विः । "वेरपृक्तस्ये" इति वलोपः । "अत उपधाया" इति वृद्धिः । ततः शसिवसोः सम्प्रसारण॑मित्यतः संप्रसारणमित्यनुवृत्तौ "वाह ऊठ्" इति संप्रसारण संज्ञकस्य ऊठःसम्प्रसारणाच्चे॑ति पूर्वरूपम् । प्रष्ठ ऊहिति स्थितेऽनेन वृद्धिरौकारः । नन्वत्र एत्येधतिग्रहणं व्यर्थम्, उपैति उपैधत इत्यत्र वृद्धिरैचीत्यनेनैव वृद्धिसंभवात् । ऊठग्रहणमपि व्यर्थं, वृद्धिरेचीत्य#एव सिद्धेः । वाह ऊठग्रहणानार्थक्यं, संप्रासरणेन कृतत्वात् । गुणस्तु प्रत्ययलक्षणत्वात् । एज्ग्रहणाद्वृद्धिः॑ इति वार्त्तिककृता तथैवोक्तत्वात् । ऊठ्ग्रहणं न कर्तव्यम् ।वाह॑इत्येव सूत्पमस्तु । भस्य वाहः संप्रसारणं स्यादिति संप्रसारणमेव विधीयतां, ततश्च वकारस्य उकारे संप्रसारणे पूर्वरूपे सति उहिति स्थिते प्रत्ययलक्षणमाश्रित्य ण्विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ठ-ओहिति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थः । तस्मादेत्येधत्यूठसु इति सूत्रं व्यर्थमित्यत आह — पररूपगुणापवाद इति । एत्येधत्योरेङि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमपवाद इत्यर्थः । यदि हि बाहः सम्प्रसारणमेव विधीयेत न तूठ्, तर्हि वस्य संप्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपधगुणो न भवति तस्मिन् कर्तव्ये बहिर्भूतशस्प्रत्ययापेक्षभसंज्ञापेक्षसंप्रसारणाश्रित पूर्वरूपस्य बहिरङ्गतयाऽत्राऽसिद्धत्वात् । तथाच गुणाऽभावे प्रष्ठ-उ-आहिति स्थिते पूर्वरूपे प्रष्ठ-उह् इति स्थिते "आद्गुण" इति गुणे ओकारे "प्रष्ठोह" इति स्यात् । संप्रसारणसंज्ञकस्य ऊठो विधौ तु प्रष्ठ ऊ आहिति स्थिते पूर्वरूपे लघूपधगुणस्याऽप्रसक्ततया ओकारस्याऽभावादूकारस्यैव सत्त्वाद्वृद्धिरेचीत्यस्याऽप्रसक्तेराद्गुण इति प्राप्ते एत्येधत्यूठ्स्विति वृद्धौ "प्रष्ठौह" इति सिध्यतीत्यूठ्ग्रहणमावश्यकमिति वाहौउठ सूत्रे समुदाह्मतवार्तिकं भाष्ये दूषितमित्यास्तां तावत् । उपेत इति । इण्धातोर्लट् तस् शप् लुक् ।सार्वधातुकमपि ॑दिति तसो ङित्त्वात्तास्मिन् परत इकारस्य न गुणः । अत्र इण्धातोरेजादित्वाऽभावात्तस्मिन्परतो न वृद्धिः । मा भवान्प्रेदिधदिति । एधधातोर्णिच् । लुङ् तिप् । "नित्यं ङितः" इति इकारलोपः । "णिश्रिद्रुरुआउभ्य" इति चङ् ।णौ चङ्युपधाया ह्यस्वः॑ ।चङी॑त्यजादेर्द्वितीयस्य धिशब्दस्य द्वित्वम् ।अभ्यासे चर्चे॑ति जश्त्वम् । "न माङ्योग" इत्याडभावः । भवच्छब्दयोहगात्प्रथमपुरुषः । तच्च तिङन्ताधिकारे स्पष्टीभविष्यति । प्र-इदिधदिति स्थिते एत्येधतीति न वृद्धिः, एधधातोरेजादित्वाऽभावात् । तत्र एजादित्वविशेषणाऽभावे तु इहापि वृद्धिः स्यात् । न च णौ चङीत्येकारस्य ह्यस्वेन इकारे सति नायमेधधातुरिति वाच्यम्, एकदेशविकृतस्यानन्यत्वात् । अत्र माङं विहाय प्रेदिधदिति न प्रत्युदाह्मतम् । तथा सति आडजादीनामित्याडागमे आटश्चेति वृद्धौ ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वाद्वृद्धिरिष्टैव । भवच्छब्दस्तु चिन्त्यप्रयोजनः । ननु आ इहि, आद्गुणः, एहि, अव-एहीति स्थिते एकादेशस्य गुणस्य एकारस्य अन्तादिवच्चेति परादिवद्भावेन,आद्यन्तवदेकस्मि॑न्निति व्यपदेशिवद्भावेन च , च इण्धातोरेजादित्वात्तस्मिन् परेएङिपररूप॑मिति पररूपं बाधित्वा एत्येधत्यत्यूठ्स्विति वृद्धौअवैही॑ति इष्टं न स्यात् । न च ओमाङोश्चेति पररूपेण तन्निर्वाहः शङ्क्यः । एत्येधतीति वृद्धिर्हि यथा एङि पररूपमित्यस्यापवादस्तथा ओमाङित्यस्याप्यपवादः;येन नाप्राप्तिन्यायसाम्यादित्यत आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायः । पूर्वपठिता अपवादा अव्यवहितानेवोत्तररान्विधीन्बाधन्ते न तु व्यवहितानित्यर्थः । प्रकृते च एत्येधत्यूठ्सु इत्युत्तरं कानिचित् सूत्राणि पठित्वाएङि पररूप॑मिति पठित्वा पुनः कतिपयसूत्राणि पठित्वा पुनः ओमाङोश्चेति पठितम् । ततश्चोक्तन्यायेनएत्येधती॑ति वृद्ध्याएङि पररूप॑मित्येव बाध्यते न त्वोमाङोश्चेति पररूपमपीति भावः । वस्तुतस्तु एत्येधतीति वृद्धिरोमाङोश्चात्यस्यापवाद एव न भवति, उपैतीत्यादावप्राप्तेऽपि तस्मिन्नेत्येधतीति वृद्धेरारम्भात् । अतः पुरस्तादपवादा॑ इति न्यायस्य नायं विषयः । ततस्च अव-एहीत्यत्र एत्येधतीति बाधित्वा परत्वादोमाङोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — नाप्राप्ते एङि पररूपे एत्येधतीति बाधित्वा परत्वादोमाहोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — ॒नाप्राप्ते एङि पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवादः । आङि पररूपे तु प्राप्ते चाऽप्राप्ते च आरभ्यमाणा वृद्धिर्नं तदपवाद॑ इति स्पष्टमेवोक्तम् । यत्तु भाष्ये पक्षान्तरमुक्तम् — ॒अथवा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्त इत्येवमेत्येधतीति वृद्धिरेङि पररूपमेव बाधते न त्वोमाङोश्चेति पररूपमपी॑ति । तत्तु एत्येधतीति वृद्धिरेङि पररूपमोमाङोश्चेति सूत्रद्वयापवादत्वाब्युपगमवादमात्रमाश्रित्य, बाध्यसामान्याचिन्तामाश्रित्य वेत्यलं बहुना । अक्षादूहिन्यामुपसंख्यानम् । आदिति अचीति वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति च ।ऊह वितर्के॑ । ऊहनमूहः, सोऽस्या अस्तीत्यूहिनी । अक्षशब्दादूहिनीशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । अक्षौहिणीति मत्वर्थीय इनिः । नान्तत्वान्ङीप् । अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षोहिणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । अक्ष — ऊहिनीति स्थिते गुण प्राप्तेऽनेन वार्तिकेन वृद्धिः ।स्वादीरेरिणोः । स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । स्वैर इति ईरगतौ । भावे घञ् । स्वेन च्छन्देन ईर इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः । स्व — ईर इति स्थिते गुणेप्राप्तेऽनेन वार्तिकेन वृद्धिः । स्वेनेरितुमिति । स्वेनच्छन्देन ईरितुं संचरितुं शीलमस्येत्यर्थेसुप्यजाता॑विति णिनिः । स्वच्छन्दचारीत्यर्थः । उपपदसमासः । स्व — ईरिन्निति स्थिते गुणे प्राप्तेऽनेन वृद्धिः ।प्रादूहोढोढएषेष्येषु । प्रेत्युपसर्गात् "ऊह" "ऊढ" "एष॒॑एष्य" एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रौह इति । ऊहवितर्के । भावे घञ् । गतिसमासः । प्र-ऊह इति स्थितेऽनेन वार्तिकेन वृद्धिः प्रौढ इति । बह प्रापणे । क्तः ।वचिस्वपी॑ति सम्प्रसारणम् । पूर्वरूपम् । "हो ढ" इति ढत्वम् । झषस्तथोरिति धत्वम् । ष्टुत्वम् । "ढो ढे लोपः" "ढ्रलोप" इति दीर्घः । प्र-ऊढ इत,#इ स्थिते गुणे प्राप्तेऽनेन वृद्धिः । ननु प्रोढवानित्यत्रापि वहधातोः क्तवतुप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु प्र-ऊढवदिति स्थिते प्रादूहोढेति वृद्धि स्यात्, तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह — अर्थवदिति । अर्थवतः शब्दस्य ग्रहणसम्भवेऽनर्थकस्य शब्दस्य ग्रहणं न भवतीत्यर्थः । इयं परिभाषा॒स्वं रूप॑ मित्यत्र रूपग्रहणात्सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम् । तेनेति । अर्थवत एव ग्रहणनियमेनेत्यर्थः । क्तान्तमेवेति । क्तप्रत्ययस्तावदर्थवान्, भावकर्मणोस्तद्विधानात् । क्तवतुप्रत्ययस्तु कर्तरि विहितः । अतस्तदेकदेशस्य क्तस्यानर्थकत्वात्प्रादूहोढेत्यत्र ऊढग्रहणेन ग्रहणं न भवति, अतस्तस्मिन्, परे वृद्धिर्न भवति, किन्त#उ गुण एवेत्यर्थः । प्रौढिरिति । वहधातोः क्तिन् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । प्र-ऊढिरिति स्थिते गुणं बाधित्वाऽनेन वृद्दिः । इष-इच्छायामित्यादि । गणत्रयेऽपि ह्यस्वोपधा एव एते धातवः । तेषामिति निर्धारणे षष्ठी । तेषां मद्येऽन्यतमाद्व्वञि ण्यति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एङि पररूपं बाधित्वाऽनेन वृद्धिः । #एतेन वृद्धिरेचीत्यनेन एवैषैष्यग्रहणयोर्गतार्थत्वं निरस्तम् । नन्वेवं सति प्रेष इति प्रेष्य इति च कथं प्रयोग इत्यत आह — यस्त्विति । तयोर्दीर्घोपधत्वेन लङूपधगुणाऽभावे ईष ईष्य इति च सिध्यति । तयोस्तु एतद्वार्तिके ग्रहणाऽभावात्तयोः परतो वृद्ध्यभावे "आद्गुण" इति गुणे प्रेषः प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थः । एषशब्दसाहचर्यादेष्यशब्दोऽपि कृदन्त एव गृह्रते । तेन तिङन्ते ल्यबन्ते च न वृद्धिः । अग्नये प्रेष्य दूतम्, प्रेष्य गतः ।ऋते च तृतीयासमासे । तृतीया समासेऽकारादृतशब्दे परे पूर्वपरयोरचोर्वृद्धिः स्यादित्यर्थः । सुखेन ऋत इति विग्रहप्रदर्शनम् । ऋ गतौ । गत्यर्थाकर्मकेति कर्तरि क्तः । प्रकृत्यादित्वात्तृतीया । सुप्सुपेति समासः । सुख-ऋत इति स्थिते गुणे प्राप्तेऽनेन वृद्धिराकारः । रपरत्वे सुखार्त इति रूपम् । समसग्रहणस्योदाह्मतविग्रहवाक्यमेव प्रत्युदाहरणं दर्शितप्रायमिति तृतीयेत्यंशस्य प्रयोजनं पृच्छति — तृतीयेति किमिति । परमर्त इति । परमश्चासौ ऋतश्चेति कर्मधारयः । आद्गुणः ।प्रवत्सतर पञ्चम्यर्थे षष्ठी ।प्र॒॑वत्सतर॒॑कम्बल॒॑वसन॒॑ऋण॑ "दश" एतेषामृणशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रार्णामिति । प्रगतमृणमिति विग्रहे,प्रादयो गताद्यर्थे प्रथमये॑ति गतिसमासः । प्र-ऋणिमिति स्थिते गुणं बाधित्वाऽनेन वार्तिकेन वृद्धिराकारः । रपरत्वम् । वत्सतरः=शिशुवत्सः, तस्य ऋणमिति विग्रहः । वत्सतरमधिकृत्य वा तद्ग्रहणार्थं वा यदृणं गृह्रते तद्वत्सतरार्णम् । एवमग्रेऽपि द्रष्टव्यम् । आदिशब्देन कम्बलार्णं वसनार्णं दशामृणार्णमिति च गृह्रते । सर्वत्र षष्ठीसमासः । ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह-ऋणस्येति । देशनदीविशेषयोः कथं दशार्णशब्दप्रवृत्तिरित्यत आह — ऋणशब्द इति । तथा च दश ऋणानि दुर्गभूमयो यस्मिन् देशे स दशार्णो देशविशेषः । दशविधानि ऋणानि जलानि यस्यां नद्यां सा दशार्णेति विग्रहः ।
एत्येधत्यूठ्सु - एत्येधत्यूठसु । अत्रएची॑त्यनुवर्तते । तच्च एत्येधत्योर्विशेषणं न तूठः, असंभवात् ।आद्गुणः॑ इत्यत आदित्यनुवर्तत एवाऽतो व्याचष्टे-अवर्णादेजाद्योरिति । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् ।वहश्चे॑ति ण्विः । ततः शसिवाह ऊठ् । गुणापवादतयाऽनेन वृद्धिः । प्रेदिधदिति । प्रपूर्वस्यैधतेण्र्यन्तस्य लुङि रूपम् ।न माङ्योगे॑ इत्याडागमाऽभावः । पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायेनेत्यर्थः । अक्षादिति ।आ॑दित्यनुवर्तते,अची॑ति च । तेन पूर्वपरयोर्वर्णयोरेव भवति । एवमन्यत्राप्यूह्रम् ।अक्षादूहिन्यामुपसङ्ख्यानम् । अक्षौहिणीति । ऊहः=समूहः, सोऽस्त्यस्याः सा ऊहिनी । अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षौहिणी ।पूर्वपदात्संज्ञायाम्-॑ इति णत्वम् ।अक्षणा॑मित्यस्यऊह॑-शब्देन समासे तत इनौ तुअक्षौहिणी॑त्येव भवति, न तु तत्र वृद्धिः, अन्तरङ्गेण गुणेन बाधात् । अपवादभूताया अपि वृद्धेरूहिनीशब्देन समासे चरितार्थत्वात् । यथोक्तं प्राक्यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गभ्यां बाध्यते॑ इति ।स्वादीरेरिणोः ।ईरेरिण्योः इति क्वाचित्कोऽपपाठः ।स्वैरी॑ति णिन्यन्तस्य अस्त्रियां वृध्द्यभावप्रसङ्गात् ।ईरि॑न्ग्रहणस्य फलमाह-स्वेनेरितुमिति । यदा त्वी(रणमी)र इति घञन्तेन स्वशब्दस्य समासेस्वादीरे॑ इति वृद्धौ कृतायां मत्वर्थीय इनिः, यदा वा मत्वर्थीयेनिप्रत्ययान्तेन ईरिञ्शब्देन स्वशब्दस्य समासस्तदापि तदेकदेश ईरशब्दोऽस्त्येवेति पृथगीरिन्ग्रहणं व्यर्थं स्यादिति भावः ।स्वैरीति ।सुप्यजातौ॑ इति णिनिः । उपपदसमासः । स्वैरिणीति । ङीपः प्राग्भागमीरिञ्शब्दमादाय वृद्धिः । केचित्तु लिङ्गविशिष्टपरिभाषयाऽत्र वृद्धिरित्याहुस्तन्निष्फलमिति । भावः । नानर्थकस्येति । उपस्थितस्याऽर्थस्य शब्दं प्रति विशेषणत्वसंभवे त्यागाऽयोगादिति भावः । प्रैष्य इति । एषसाहचर्यादेष्योऽप्यनव्ययं गृह्रते; तेन ण्यन्तादिषेः त्त्को ल्यपि पररूपमेव, न तु वृद्धिः । प्रेष्य गतः । लघूपधगुणमाशङ्क्याह-तयोर्दीर्घोपधत्वादिति । प्रवत्सतरेति । इह केचिद्वत्सशब्दं वत्सरशब्दं च प्रक्षिपन्ति, तद्भाष्यादावदृष्टत्वादुपेक्ष्यम् । वत्सतरार्णमिति । तकारमकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि । रेफात्परस्य तुअचो रहाभ्या॑मिति द्वित्वेयणो मयः॑ इति वचनान्तरेण पुनर्द्वित्वे एकणं द्विणं त्रिणमिति द्वादश ।खयः शरः॑ इति सकारद्वित्वे चतुर्विंशतिः(२४) । न चेहशरोऽची॑ति द्वित्वनिषेधः शङ्क्यः, तस्य सौत्रद्वित्वमात्रविषयत्वात् । अतएवखयः शरः॑ इति वार्तिकस्यवत्स्सरः॑अप्स्सराः॑ इत्युदाहरणं भाष्ये दत्तम् । न च वदेः सरप्रत्यये परतश्चर्त्वे कृते तस्याऽसिद्धत्वात्सस्य खयः परत्वं नेति शङ्क्यम् ;पूर्वत्रासिद्धीयमद्वित्वे॑ इत्युक्तेः । अतएव मनोरमायांषट् सन्तः॑ इत्यत्र टकारात्परस्य सस्य द्वित्वं स्वीकृतमिति दिक् ।
लघुसिद्धान्तकौमुदी
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम्? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम्? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥
महाभाष्यम्
एत्येधत्यूठ्सु (2526) (वृद्ध्यधिकरणम्) (एत्येधत्योर्विषये पक्षद्वयोपस्थापकं भाष्यम्) किमिदमेत्येधत्यो रूपग्रहणम्, आहोस्विद्धातुग्रहणम् ? किं चातः ? यदि रूपग्रहणम्, सिद्धम् ‐ - उपैति, प्रैति । उपैषि, उपैमि, प्रैमीति न सिद्ध्यति । अथ धातुग्रहणम्, सिद्धमेतद्भवति ।। किं तर्हीति ? (6160 धातुग्रहणपक्षे दोषवार्तिकम् ।। 9 ।।) - इणीकारादौ प्रतिषेधः - इणीकारादौ वृद्धेः प्रतिषेधो वक्तव्यः । उपेतः, प्रेतः ‐ - इति ।। (6161 दोषनिरासवार्तिकम् ।। 10 ।।) योगविभागात्सिद्धम् योगविभागः करिष्यते । वृद्धिरेचि (88) । ततः ‐ - एत्येधत्योः । एत्येधत्योश्चैचि वृद्धिर्भवति । ततः ‐ - उठि । उठि च वृद्धिर्भवतीति ।। (योगविभागे आक्षेपसमाधानविषयकं भाष्यम्) एवमपि आ इतः ‐ - एतः; उपेतः, प्रेतः ‐ - इत्यत्रापि प्राप्नोति । आङि पररूपमत्र बाधकं भविष्यति । न भविष्यति । नाप्राप्ते पररूप इयं वृद्धिरारभ्यते, सा यथैव एङि पररूपम् बाधते, एवमाङिपररूपं बाधेत । न बाधते । किं कारणम् ? येन नाप्राप्ते तस्य बाधनं भवति न चाप्राप्त एङि पररूप इयं वृद्धिरारभ्यते, आङि पररूपे पुनः प्राप्ते चाप्राप्ते च । अथ वा ‐ - पुरस्तादपवादा अनन्तरान् विधीन् बाधन्त इतीयं वृद्धिरेङि पररूपं बाधिष्यते, नाङि पररूपम् ।। (6162 उपसंख्यानवार्तिकम् ।। 11 ।।) - अक्षादूहिन्याम् - अक्षादूहिन्यां वृद्धिर्वक्तव्या । अक्षौहिणी ।। (6163 उपसंख्यानवार्तिकम् ।। 12 ।।) - प्रादूहोढोढ्येषैष्येषु - प्रात् ‐ - उह-ःढ़द्य;ढ-ःढ़द्य;ढि-एष-एष्य-इत्येतेषु वृद्धिर्वक्तव्या । प्रौहः, प्रौढः, प्रौढिः, प्रैषः, प्रैष्यः ।। (6164 उपसंख्यानवार्तिकम् ।। 13 ।।) - स्वादीरेरिणोः - स्वात् ‐ - इर्र ‐ - इर्रिन् ‐ - इत्येतयोर्वृद्धिर्वक्तव्या । स्वैरः, स्वैरी ।। (इर्रिन्ग्रहणप्रत्याख्यानभाष्यम्) इर्रिन्ग्रहणं शक्यमकर्तुम् । कथं स्वैरीति ? इनिनैतन्मत्वर्थीयेन सिद्धम् ‐ - स्वैरोऽस्यास्तीति स्वैरी ।। (6165 उपसंख्यानवार्तिकम् ।। 14 ।।) - ऋते च तृतीयासमासे - ऋते च तृतीयासमासे वृद्धिर्वक्तव्या । सुखार्तः, दुःखार्तः । ऋत इति किम् ? सुखेतः, दुःखेतः । तृतीयाग्रहणं किम् ? परमर्तः । समास इति किम् ? सुखेनर्तः ।। (6166 उपसंख्यानवार्तिकम् ।। 15 ।।) - प्रबत्सतरकम्बलवसनानां चर्णे - प्रवत्सतरकम्बलवसनानां च ऋणे वृद्धिर्वक्तव्या । प्रार्णम्, वत्सतरार्णम्, कम्बलार्णम्, वसनार्णम् ।। (6167 उपसंख्यावार्तिकम् ।। 16 ।।) - ऋणदशाभ्यां च - ऋणदशाभ्यां च वृद्धिर्वक्तव्या । ऋणार्णम्, दशार्णम् ।।