Page loading... Please wait.
6|1|88 - वृद्धिरेचि
॥ तस्मै पाणिनये नमः ॥
6|1|88
SK 72
वृद्धिरेचि  
सूत्रच्छेदः
वृद्धिः (प्रथमैकवचनम्) , एचि (सप्तम्येकवचनम्)
अनुवृत्तिः
आत्  6|1|87 (पञ्चम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|71 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
आत् एचि पूर्वपरयोः एकः वृद्धि
सूत्रार्थः
अवर्णात् परस्य एच्-वर्णे परे पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
अकारात् / आकारात् यदि एकार/ओकार/ऐकार/औकारः आगच्छति तर्हि उभयोः एकः वृद्धि-आदेशः भवति ।

वृद्धिरादैच् 1|1|1 इत्यनेन अ-ऐ-औ-वर्णानाम् वृद्धिसंज्ञा भवति । एतेषु स्थानेऽन्तरतमः 1|1|50 इत्यनेन स्थानसाधर्म्येण यः वर्णः सदृशतमः सः आदेशरूपेण आगच्छति ।

इदम् सूत्रम् आद्गुणः 6|1|87 इत्यस्य अपवादरूपेण आगच्छति । इत्युक्ते, अ/आ + ए/ओ/ऐ/औ इत्यत्र आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशे प्राप्ते येन नाप्राप्ते यः विधिः आरभ्यते, सः तस्य बाधकः भवति अनया परिभाषया गुणस्य अपवादरूपेण वर्तमानसूत्रेण वृद्धि-एकादेशः भवति ।

1) अ/आ + ए/ऐ इत्यत्र उभयोः स्थाने स्थानसाधर्म्येण ऐकारः आगच्छति । अकारस्य उच्चारणस्थानम् = कण्ठः । एकार-ऐकारयोः उच्चारणस्थानम् कण्ठतालु ।]
यथा - एक + एक = एकैक । सा + एषा = सैषा । न + ऐच्छत् = नैच्छत् । सा + ऐच्छत् = सैच्छत् ।

2) अ/आ + ओ/औ इत्यत्र उभयोः स्थाने स्थानसाधर्म्येण औकारः आगच्छति । अकारस्य उच्चारणस्थानम् = कण्ठः । ओकार-औकारयोः उच्चारणस्थानम् कण्ठतालु ।]
यथा - एक + ओषधिः = एकौषधिः । गङ्गा + ओघः = गङ्गौघः । एक + औत्कण्ठ्यम् = एकौत्कण्ठ्यम् । कृष्णा + औत्कण्ठ्यम् = कृष्णौत्कण्ठ्यम् ।
One-line meaning in English
When an अवर्ण is followed by an एच् letter, both of them are replaced by a वृद्धि letter.
काशिकावृत्तिः
आतिति वर्तते। अवर्णात् परो य एच्, एचि च पूर्वो यः अवर्णः, तयोः पूर्वपरयोः अवर्णैचोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणस्य अपवादः। ब्रहमैडका। खट्वैडका। ब्रह्मैतिकायनः। खट्वैतिकायनः। ब्रह्मौदनः। खट्वौदनः। ब्रह्मौपगवः। खट्वौपगवः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥
वृद्धिरेचि - वृद्धिरेचि । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवत्र्तते । एकऋ पूर्वपरयोरित्यधिकृतम् । तदाह — आदेचीत्यादिना । गुणापवाद इति । आद्गुण इति प्राप्तावेतदारम्भादिति भावः । कृष्णैकत्वमिति । कृष्णस्य-एकत्वमिति षष्ठीसमासः ।पूरणगणे॑ति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते । कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमित्यन्ये । अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेशः । गङ्गा-ओघ इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकारः । एवं देवैआर्यं कृष्णौत्कण्ठमित्यत्रापि । वस्तुतस्तु सङ्ख्यादिशब्दा न गुणवचना इति त्रैव वक्ष्यामः ।
वृद्धिरेचि - वृद्धिरेचि । पूर्वसूत्रादादित्यनुवर्तते । तदाह-आदेचीति ।कृष्णे॑ति संबोधने पृथक् पदम् । एवंदेवे॑त्यपि । इत्थं चात्र षष्ठीसमासत्वमभ्युपेत्यपूरणगुणे॑ति निषेधमाशङ्क्यसंज्ञाप्रमाणत्वा॑दित्यादिनिर्देशेनगुणेन निषेधोऽनित्यः॑ इति केषाचिद्व्याख्यानं नात्यन्तावश्यकमिति बोध्यम् ।
लघुसिद्धान्तकौमुदी
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.