Page loading... Please wait.
6|1|87 - आद्गुणः
॥ तस्मै पाणिनये नमः ॥
6|1|87
SK 69
आद्गुणः  
सूत्रच्छेदः
आत् (पञ्चम्येकवचनम्) , गुणः (प्रथमैकवचनम्)
अनुवृत्तिः
अचि  6|1|77 (सप्तम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|71 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
आद् अचि पूर्वपरयोः एकः गुणः
सूत्रार्थः
अवर्णात् परस्य अच्-वर्णे परे पूर्वपरयोः एकः गुणः आदेशः भवति ।
अकारात् / आकारात् यदि स्वरः आगच्छति तर्हि उभयोः एकः गुणादेशः भवति ।

अदेङ् गुणः 1|1|2 इत्यनेन अ-ए-ओ-वर्णानाम् गुणसंज्ञा भवति । एतेषु स्थानेऽन्तरतमः 1|1|50 इत्यनेन स्थानसाधर्म्येण यः वर्णः सदृशतमः सः आदेशरूपेण आगच्छति ।

यद्यपि अस्मिन् सूत्रे अकारात् / आकारात् परः कोऽपि स्वरः अस्ति चेत् गुणादेशः दीयते, तथापि -
1) अकार/आकारात् अकार/आकारे परे अकः सवर्णे दीर्घः 6|1|101 इत्यनेन पूर्वपरयोः एकः सवर्णदीर्घः विधीयते, न हि गुणः ।
2) अकार/आकारात् एच्-वर्णे परे वृद्धिरेचि 6|1|88 इत्यनेन वृद्धि-आदेशः भवति ।

अतः अस्य सूत्रस्य प्रसक्तिः केवलं अवर्णात् परे इक्-वर्णः आगच्छति चेदेव भवति । क्रमेण पश्यामः -

1) अ/आ + इ/ई - इत्यत्र उभयोः स्थाने स्थानसाधर्म्येण एकारः आगच्छति । (अकारस्य उच्चारणस्थानम् = कण्ठः । इकारस्य उच्चारणस्थानम् तालु । एकारस्य उच्चारणस्थानम् कण्ठतालु । )
यथा - देव + इन्द्रः = देवेन्द्रः । महा + इन्द्रः = महेन्द्रः । देव + ईशः = देवेशः । महा + ईशः = महेशः ।

2) अ/आ + उ/ऊ - इत्यत्र उभयोः स्थाने स्थानसाधर्म्येण ओकारः आगच्छति । (अकारस्य उच्चारणस्थानम् = कण्ठः । उकारस्य उच्चारणस्थानम् ओष्ठौ । एकारस्य उच्चारणस्थानम् कण्ठोष्ठम् । )
यथा - देव + उदकम् = देवोदकम् । महा + उदकम् = महोदकम् । देव + ऊर्जा = देवोर्जा । महा + ऊर्जा = महोर्जा ।
ऊर्जा

3) अ/आ + ऋ/ॠ - इत्यत्र अकारस्य उच्चारणस्थानम् = कण्ठः । ऋकारस्य उच्चारणस्थानम् मूर्धा । अत्र यद्यपि अकार-एकार-ओकारेभ्यः कस्यापि वर्णस्य उच्चारणम् कण्ठ-मूर्धा नास्ति, तथापि उरण् रपरः 1|1|51 इत्यनेन एतत् ज्ञायते यत् ऋकारस्य स्थाने प्रवर्तमानः अकार/इकार/उकारः सर्वदा रेफेण सह एव आगच्छति । अतः अ/आ + ऋ/ॠ इत्यत्र केवलं "अ" इति गुणादेशः न भवति, अपितु "अर्" इति रपरः अकारः एव गुणादेशरूपेण आगच्छति । अर्-इत्यस्य उच्चारणस्थानम् "कण्ठ + मूर्धा" यत् स्थानसाधर्म्येण अकार-ऋकारयोः उच्चारणस्थानवदेव अस्ति । अतः अ/आ + ऋ/ॠ इत्यत्र उभयोः स्थाने स्थानसाधर्म्येण अर्-आदेशः भवति ।
यथा - ब्रह्म + ऋषि = ब्रह्मर्षि । महा + ऋषि = महर्षि ।

4) अ/आ + ऌ - इत्यत्रापि उरण् रपरः 1|1|51 इत्यनेन अकारः सदा "अल्" इति लपरः आगच्छति । अल्-इत्यस्य उच्चारणस्थानम् कण्ठदन्ता, यत् स्थानसाधर्म्येण अकार-ऌकारयोः उच्चारणस्थानवदेव अस्ति । अतः अ/आ + ऌ इत्यत्र उभयोः स्थाने स्थानसाधर्म्येण अल्-आदेशः भवति ।
यथा - तव + ऌकारः = तवल्कारः ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः "आत्" अयं शब्दः अकारस्य पञ्चम्येकवचनम् अस्ति । अत्र तपरकरणम् नास्ति, यतः आकारस्य तपरकरणम् भवितुं न अर्हति ।
One-line meaning in English
When an अवर्ण is followed by an अच् letter, both of them are replaced by a गुण letter.
काशिकावृत्तिः
अचि इत्यनुवर्तते। अवर्नात् परो यो ऽच् च पूर्वो यो ऽवर्णः तयोः पूर्वपरयोः अवर्णाचोः स्थाने एको गुण आदेशो भवति। तवेदम्। खट्वेन्द्रः। मालेन्द्रः। तवेहते। खट्वेहते। तवोदकम्। खट्वोदकम्। तवर्श्यः। खट्वर्श्यः। तवल्कारः। खट्वल्कारः। लृकारस्य स्थाने यो ऽने यो ऽण् तस्य लप्रत्वम् इष्यते।
`तवल्कारः; खट्वल्कारः` इति। कथं पुनरत्र लपरत्वम्? इत्याह--`लृकारस्य स्थाने` इत्यादि। एतच्च `लृकारऋकारयोः सवर्णसज्ञा वक्तव्या` (वा।3) इत्युपसंख्यानात्? `उरण्? रपरः` 1|1|50 इत्यत्र रप्रत्याहारग्रहणाल्लभ्यते। उक्तं ह्रक्षरसमम्नाये--`हकारादिषु वर्णोष्वकार उच्चारणार्थः, लकारे त्वनुनासिक इत्संज्ञकः प्रतिज्ञायते` इति। तत्र रेफादारभ्य लणकारेण प्रत्याहारे सति लृकारस्य ऋकारग्रहणेन गृहीतस्य स्थानेऽण्? विधीयमानो लपरः सम्पद्यते॥
गुणग्रहणं किम्, यावताऽचीति वर्तते, ठेकः पूर्वपरयोऽ इति च, तत्रान्तर्यतः कण्ठतालव्ययोरकारेकारयोः स्थाने तादृश एवैकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति; चैकारौकारयोरपि प्रसङ्गः, वृद्दिरेचीति नियमात् ? तदिदानीं नियमार्थम्, ऐचोरनेनैव सिद्धत्वात्, एच्येव वृद्धिभर्वति। उभयथा नियमश्च व्याख्यास्यते, वृद्धिरेवैचीति। इर तर्हि खट्वर्श्यः मालार्श्य इति प्रमाणतोऽन्तरतमो मूर्द्धन्त ऋकारः प्राप्नाति ? माण एव रपरो भवतीति स्थानत् उभरोरन्तरतमः। आकारस्तर्हि प्राप्नोति ? ठिपसर्गादृति धातौऽ इत्येतन्न्यमार्थं भविष्यति---ऋति धातावेवाकारो नान्यत्रेति। प्रुतस्तर्हि प्राप्नोति ----खट्वेन्द्रः, ठ्प्लुतश्च विषये स्मृतःऽ, प्लुतविदाने हि सति यस्मिन्विषे ब्लुतो विहितस्तस्मिन्नप्यनैनैव भाव्यम् ? अस्मिन्कर्तव्ये आष्टमिकस्य प्लुतस्यासिद्धत्वात्, ततश्च पक्षेऽनुवाददोषपसङ्गत् प्लुगो न भवतीति। इह तर्हि शट्वा ईषा खट्वेषा,शट्वा ऊढा खट्वेढा, आन्तर्यतश्चतुर्मात्र आदेशः प्राप्नोति, गुणग्रहणे तु क्रियमाणे गुणसंज्ञायान्परकरणं सर्वार्थमिति त्रिमात्रचतुर्मात्राणामगुणत्वादप्रसङ्गः। तस्माद् गुणग्रहणम्। श्लेकौ चात्र भवत---- आदेशश्चेद् गुणः केन स्थानेऽन्तरतमो हि साः। ऐदौतौ नैचि तावुक्तावृकारो नोभयन्तरः ॥ आकारो नर्तिधातौ स प्लतश्च विषये स्मृत। आन्तर्यात्रिचतुर्मात्रो गुणश्च तपरः समृतः ॥ इह वृक्षशब्दान्ङ्ः, वृक्षि अ इ अ इन्द्रमिति स्थिते अकारेकायोर्गुणश्च प्राप्नोतीकारयोः सवर्णदीर्घश्च, तत्र शब्दपरविप्रतिषेधाद्दीर्घप्रसङ्गः, तथा तच्छपब्दान् ठ्जश्शसोः शिःऽ, न इ इन्द्रम्, पचेरुतमैकवचनमिट् शप् पच इ चन्द्रम् ? नैष दोषः एकपदातरङ्गो गुणे भविष्यते प्रगेव पदान्तरसन्निदानात् । लृकारस्य स्तानत इतै। यथा चैतल्लभ्यते तथा। ठ्लण्ऽ इत्यत्र व्याख्यातम् ॥
सिद्धान्तकौमुदी
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥
आद्गुणः - आद्गुणः । आदिति पञ्चमी नतु तपरकरणम् । एकः पूर्वपरयोरित्यधिकृतम् । तदाह-अवर्णादचीत्यादिना । उपेन्द्र इति । उप-इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोस्तथाविध एको गुण एकारः, आन्तरतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाह-रमेश इति । रमा-ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकारः । गङ्गोदकमिति । गङ्गा-उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्टस्थानकयोस्तथाविध एको गुण ओकारः । कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र अकार ऋकारश्चेति द्वौ स्थानिनौ । तयोरकार एकार ओकारश्चेति त्रयोऽपि गुणः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याऽविशेषात् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥
महाभाष्यम्
आद्गुणः (2524) (गुणाधिकरणम्) (पदकृत्यभाष्यम्) गुणग्रहणं किमर्थम्, न आदेको भवतीत्युच्येत ? (गुणपदाभावे आक्षेपश्लोकभाष्यम्) आदेकश्चेद्गुणः केन आदेकश्चेत्, गुणः केनेदानीं भविष्यति ‐ - खट्वेन्द्रः, मालेन्द्रः । खट्वोदकम्, मालोदकम् । (समाधानश्लोकभाष्यम्) स्थानेऽन्तरतमो हि सः । स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति ।। ऐदौतावपि तर्हि प्राप्नुतः । (समाधानश्लोकभाष्यम्) ऐदौतौ नैचि तावुक्तौ ऐदौतौ न भविष्यतः । किं कारणम् ? एचि ह्यैदौतावुच्येते ।। इह तर्हि ‐ - खर्ट्वश्यः, मार्लश्यः ‐ - ऋकारस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) ऋकारो नोभयान्तरः ।। 1 ।। उभयोर्योऽन्तरतमस्तेन भवितव्यम्, न च ऋकार उभयोरन्तरतमः ।। आकारस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) आकारो नर्तिधातौ सः आकारो न भविष्यति । किं कारणम् ? ऋतिधातावाकार उच्यते तन्नियमार्थं भविष्यति ‐ - ऋकारादौ धातावेव, नान्यत्रेति ।। प्लुतस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) प्लुतश्च विषये स्मृतः । विषये प्लुत इत्युच्यते । यदा च स विषयः, भवितव्यमेव तदा प्लुतेन ।। (गुणपदप्रयोजनश्लोकभाष्यम्) आन्तर्यात् त्रिचतुर्मात्राः इदं तर्हि प्रयोजनम् ‐ - आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा ‐ - इन्द्रः ‐ - खट्वेन्द्रः । खट्वा ‐ - उदकं ‐ - खट्वोदकम् । खट्वा ‐ - इर्षा ‐ - खट्वेषा । खट्वा ‐ - उढा ‐ - खट्वोढा । खट्वा ‐ - एलका ‐ - खट्वैलका । खट्वा ‐ - ओदनः ‐ - खट्वौदनः । खट्वा ‐ - ऐतिकायनः ‐ - खट्वैतिकायनः । खट्वा ‐ - औपगवः ‐ - खट्वौपगवः ।। (आक्षेपभाष्यम्) अथ क्रियमाणेऽपि गुणग्रहणे कस्मादेवात्र त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति ? (समाधानश्लोकभाष्यम्) तपरत्वान्न ते स्मृताः ।। 2 ।। तपरे च गुणवृद्धी ।। (तपरपदार्थबोधकभाष्यम्) ननु च तः परो यस्मात्सोऽयं तपरः । नेत्याह । तादपि परस्तपरः । यदि तादपि परस्तपरः, ऋदोरप् 3|3|57 इहैव स्यात् ‐ - यवः, स्तवः । लवः, पवः ‐ - इत्यत्र न स्यात् । नैष तकारः । कस्तर्हि ? दकारः । किं दकारे प्रयोजनम् ? अथ किं तकारे ? असंदेहार्थस्तकारः । यद्यसंदेहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, दकारोऽपि ।। (6158 एकदेशिन उपसंख्यानवार्तिकम् ।। 7 ।।) - गुणे ङिशीटामुपसंख्यानं दीर्घत्वबाधनार्थम् - गुणे ङिशीटामुपसंख्यानं कर्तव्यम् । ङि ‐ - वृक्ष इन्द्रः, प्लक्ष इन्द्रः । शी ‐ - य इन्द्रम्, त इन्द्रम् । इट् ‐ - अपच इन्द्रम्, अयज इन्द्रम् । किं प्रयोजनम् ? दीर्घत्वबाधनार्थम् । सवर्णदीर्घत्वं मा भूदिति ।। (6159 प्रत्याख्यानवार्तिकम् ।। 8 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा कर्तव्यम् । किं कारणं ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणं सवर्णदीर्घत्वम्, अन्तरङ्गो गुणः । असिद्धं बहिरङ्गमन्तरङ्गे ।। आदेकश्चेद्गुणः केन स्थानेऽन्तरतमो हि सः । ऐदौतौ नैचि तावुक्तौ ऋकारो नोभयान्तरः ।। 1 ।। आकारो नर्तिधातौ सः प्लुतश्च विषये स्मृतः । आन्तर्यात् त्रिचतुर्मात्रास् तपरत्वान्न ते स्मृताः ।। 2 ।।