Page loading... Please wait.
6|1|86 - षत्वतुकोरसिद्धः
॥ तस्मै पाणिनये नमः ॥
6|1|86
SK 3333
षत्वतुकोरसिद्धः   🔊
सूत्रच्छेदः
षत्व-तुकोः (सप्तमीद्विवचनम्) , असिद्धः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
एकः पूर्वपरयोः षत्वतुकोः असिद्धः
सूत्रार्थः
"एकः पूर्वपरयोः" अस्मिन् अधिकारे निर्दिष्टः एकादेशः षत्वार्थम् , तुक्-आगमार्थम् च असिद्धः अस्ति ।
"एकः पूर्वपरयोः" अस्मिन् अधिकारे यः एकादेशः उच्यते, सः षत्वं कर्तुम् तथा तुगागमं कर्तुम् असिद्धः अस्ति (इत्युक्ते, न दृश्यते) ।

यथा -

1) "कोऽस्य" इत्यत्र एङः पदान्तादति 6|1|109 इत्यनेन ओकार-अकारयोः एकः ओकारादेशः भवति । अन्तादिवच्च 6|1|85 इत्यनेन अयम् ओकारादेशः परशब्दस्य आदौ आगच्छति । अतः परशब्दस्वरूपम् "ओस्य" इति जायते । अत्र "स्य" इति प्रत्ययस्य सकारः पदान्ते नास्ति, इण्-वर्णात् परः अस्ति । अतः आदेशप्रत्यययोः 8|3|59 इत्यनेन "स्य" इति प्रत्ययस्य सकारस्य षत्वम् विधीयते । परन्तु वर्तमानसूत्रेण एङः पदान्तादति 6|1|109 इत्यनेन निर्दिष्टः ओकारादेशः षत्वं प्रति असिद्धः जायते । अतः अयम् उकारः षत्वविधायकैः सूत्रैः न दृश्यते । अतः अत्र षत्वम् न भवति ।

2) अधि + इण् [गतौ] अस्य ल्यप् प्रत्यये कृते ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन तुगागमं कृत्वा "अधीत्य" इति रूपं सिद्ध्यति । वस्तुतः "अधि + इण्" एतयोः अकः सवर्णे दीर्घः 6|1|101 इत्यनेन पूर्वपरयोः एकः दीर्घ-ईकारादेशः भवति । (अन्तरङ्गत्वात् सवर्णदीर्घकार्यम् प्रथमम् करणीयम् ।) दीर्घात् परः तुगागमः वस्तुतः न भवति - ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यत्र "ह्रस्वस्य" इति ग्रहणात् । परन्तु अयम् दीर्घ-एकादेशः वर्तमानसूत्रेण तुगागमे कृते असिद्धः अस्ति । अतः तुगागमार्थम् ह्रस्व-इकारः एव दृश्यते, अतः अत्र तुगागमः भवितुम् अर्हति ।

अत्र वार्त्तिकमेकं ज्ञातव्यम् - सम्प्रसारण-ङि-इट्सु प्रतिषेधो वक्तव्यः । इत्युक्ते, सम्प्रसारणस्य विषये, सप्तम्यैकवचनस्य ङि-प्रत्ययस्य विषये, तथा आत्मनेपदस्य उत्तमपुरुषस्य एकवचनस्य "इट्" प्रत्ययस्य विषये यः एकादेशः क्रियते, सः षत्वविधौ तुगागमे असिद्धः नास्ति । अतः षत्वकार्यम् तुगागमविधिः च एतेभ्यः अनन्तरम् आवश्यकं चेत् भवितुम् अर्हति । यथा -
1) ह्वेञ् (स्पर्धायां शब्दे च) अयं भ्वादिगणस्य धातुः । अस्य क्विप् प्रत्यये परे "हू" इति प्रातिपदिकम् सिद्ध्यति । तस्य प्रक्रिया इयम् -
ह्वे + क्विप्
→ ह् व् ए + क्विप्
→ ह् उ ए [क्विप्-प्रत्ययस्य वेरपृक्तस्य 6|1|67 इति लोपः । वचिस्वपियजादिनां किति 6|1|15 इत्यनेन वकारस्य सम्प्रसारणं उकारः]
→ ह् उ [सम्प्रसारणाच्च 6|1|108 इति पूर्वरूपम् । एतत् सूत्रम् एकः पूर्वपरयोः 6|1|84 अस्मिन् अधिकारे अस्ति ।]
→ ह् ऊ [हलः 6|4|2 इति अङ्गस्य दीर्घः]
→ हू ।

अस्य सप्तमीबहुवचनस्य रूपम् "हूषु" इत्यत्र प्रत्ययस्य सकारस्य आदेशप्रत्यययोः 8|3|59 इति षत्वम् भवितुं अर्हति , यतः सम्प्रसारणनिर्मितः ऊकारः अस्य वार्तिकस्य कारणात् षत्वप्रक्रियार्थम् सिद्धः अस्ति ।

2) "वृक्षे + छाया" इत्यत्र "वृक्षे" अस्य एकारः आद्गुणः 6|1|87 इत्यनेन निर्मितः अस्ति । यद्यपि अयम् एकादेशः एकः पूर्वपरयोः 6|1|84 अस्मिन् अधिकारे अस्ति, तथापि अनेन ङि-प्रत्ययस्य विषये अनेन वार्तिकेन अयम् एकादेशः तुगागमस्य प्रक्रियार्थम् सिद्धः अस्ति । अतः अत्र पदान्तात् वा 6|1|76 इत्यनेन विकल्पेन तुगागमः भवति, तथा "वृक्षेच्छाया", "वृक्षेछाया" - एते द्वे रूपे सिद्ध्यतः । यदि अयम् एकादेशः तुगागमप्रक्रियार्थम् असिद्धः अभविष्यत्, तर्हि छे च 6|1|73 इत्यनेन अयं तुगागमः संहितायाम् सत्याम् नित्यम् अभविष्यत्, विकल्पेन न ।

3) "अपचे छत्रम्" इत्यत्र पच्-धातोः लङ्लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धौ "अट् + पच् + शप् + इट्" इति स्थिते आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशः भवति । अयमेकादेशः तुगागमार्थम् अनेन वार्तिकेन सिद्धः अस्ति, अतः "अपचे छत्रम्" इत्यत्रापि पदान्तात् वा 6|1|76 इत्यनेन विकल्पेन तुगागमः कृत्वा "अपचे छत्रम्", "अपचेच्छत्रम्" एते द्वे रूपे सिद्ध्यतः ।


विशेषः - एकः पूर्वपरयोः 6|1|87 अस्मिन् अधिकारे पाठितः एकादेशः तदा एव तुग्विध्यर्थम् असिद्धः अस्ति यदा सः द्वयोः पदयोः मध्ये भवति । एकस्मिन् एव पदे जायमानः एकादेशः तुग्विधौ नित्यं सिद्धः एव अस्ति । अयं बिन्दुः यद्यपि अस्मि्न सूत्रे नोच्यते, तथापि भाष्यकारेण ई च खनः 3|1|111 इत्यस्मिन् सूत्रे अस्य निर्देशः कॄतः अस्ति ।
One-line meaning in English
The एकादेश mentioned under the एकः पूर्वपरयोः अधिकार is not seen while doing षत्वम् or a तुक् आगम.
काशिकावृत्तिः
षत्वे तुकि च कर्तव्ये एकदेशो ऽसिद्धो भवति, सिद्धकार्यं न करोति इत्यर्थः। असिद्धवचनम् आदेशलक्षणप्रतिषेधर्थम्, उत्सर्गलक्षणभावार्थं च। को ऽसिचतित्यत्र एङः पदान्तादति 6|1|109 इति एकादेशस्य परं प्रत्यादिवद्भावातपदादेरिण उत्तरस्य आदेशस्य सकारस्य षत्वं प्राप्नोति, तदसिद्धत्वान् न भवति। को ऽस्य, यो ऽस्य, को ऽस्मै, यो ऽस्मै इत्येकादेशस्य असिद्धत्वातिणः इति षत्वं न भवति। तुग्विधौ अधीत्य, प्रेत इत्यत्र एकादेशस्य असिद्धत्वात् ह्रस्वस्य पिति कृति तुक् 6|1|71 इति तुग् भवति। सम्प्रसारनङीट्सु प्रतिषेधो वक्तव्यः। सम्प्रसारणे ब्रह्महूषु। सम्प्रसारणपूर्वत्वस्य असिद्धत्वात् षत्वं न प्राप्नोति। ङौ वृक्षे च्छत्रम्, वृक्षे छत्रम्। इटि अपचे च्छत्रम्, अपचे छत्रम्। आद्गुणस्य असिद्धत्वाद् ह्रस्वलक्षणो नित्यो ऽत्र तुक् प्राप्नोति, दीर्घात्, पदान्ताद् वा 6|1|76 इति तुग्निकल्प इष्यते।
इहासिद्धवचनेनकादेशस्याभावो वा क्रियते? तत्कार्यसामथ्र्य वा प्रतिपाद्यते? सिद्धमपि हि वस्तु सिद्धकार्यं कर्तुमसामथ्र्यादसिद्धमित्युच्यते, यथा--पुत्रकार्यकरणेऽसामथ्र्यात्? पुत्रोऽप्यपुत्र इति। तत्र यद्यनेनैकादेशस्याभावः क्रियते तदाधीत्येत्यत्र तुग्न स्यात्, न हीह ह्यस्वोऽस्ति; एकादेशेन निवर्त्तितत्त्वात्। न चासिद्धवचनेनैकादेशे निवर्त्तिते ह्यस्वस्य प्रादुर्बावो भवति, न हि देवदत्तस्य हन्तरि हते पुनर्देवदत्तस्य प्रादुर्भावो भवतीतिममाद्ये पक्षे दोषं दृष्ट्वा कार्यसामथ्र्यमेकादेशस्यासिद्धत्वश्रुत्या प्रत्याय्यत इति दर्शयन्नाह--`सिद्धकार्यं न करोतीत्यर्थः` इति। सिद्धस्य निष्पन्नस्य यत्? कार्यं तदेकादेशः सिद्धो निष्पन्नोऽपि न करोतीत्ययमस्य वचनस्यार्थः। `असिद्धवचनम्` इत्यादिना सूत्रस्य प्रयोजनमाचष्टे। आदेशे च कृते यत्कार्यं तद्धेतुकं प्राप्नोति तदादेशलक्षणम्, आदेशो लक्षणं निमित्तमस्येति कृत्वा। तस्य प्रतिषेधो यथा स्यादित्येवमर्थमसिद्धवचनम्। उतसृज्यते निवर्त्त्यत इत्युत्सर्गः, स्थान्यभिधीयते। उत्सर्गो लक्षणं यस्य तदुत्सर्गलक्षणम्, तद्भावो यथा स्यादित्येवमर्थञ्चासिद्धवचनम्। `कोऽसिचत्` इति। सिचेर्लुहि च्लिः, `लिपिसिचिह्वश्च` 3|1|53 इति च्लेरङ्, किंशब्दात्? परस्य सकारस्य रुत्वम्? `अतो रोरप्लुतादप्लुते` 6|1|109 इत्युत्त्वम्, `आद्गुणः` 6|1|84 इति गुणः, `एङः पदान्तादति` 6|1|105 इति परपूर्वत्वम्, `परं प्रत्यादिवद्भावात्` इत्यादि। असिचदित्यत्र योऽकारस्तं प्रत्येकादेशस्य `अन्तादिवच्च` 6|1|82 इत्यनेनादिवद्भावः। अयञ्चापदादित्वे हेतुः। `असिद्धत्त्वान्न भवति` इति। असिद्धत्त्वे हि सति सकारोऽत्रादिरेव पदस्य भवति, तेन `सात्पदद्योः` 8|3|111 इति षत्वप्रतिषेधो भवति। `कोऽस्य` इति। इदमः षष्ठएकवचनम्, `त्यदादीनामः` 7|2|102 इत्यत्वम्, `टाङसिङ्सामिनात्स्याः` 7|1|12 इति स्यभावः `हलि लोपः` 7|2|113 इतीद्रूपस्य लोपः। शेषं पूर्ववत्। एतदादेशलक्षणप्रतिषेधस्योदाहरणम्। उत्सर्गलक्षणभावस्य तु `अधीत्य, प्रेत्य` इति। ननु च बहिरङ्ग एकादेशो द्विपदाश्रयत्वात्; अन्तरङ्गादेव षत्वतुकौ, एकपदाश्रयत्वात्, तत्र `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यनया परिभाषयैवात्रासिद्धत्वं भविष्यतीति निरर्थकमिदं वचनम्? एवं तर्हि सैव परिभाषाऽत्र प्रकरणे षत्वतुकोनियम्यते। तेनाक्षद्यूरित्यत्र बहिरङ्गलक्षणोऽप्यूडादेशोऽन्तरङ्गयणादेशे कत्र्तव्ये नासिद्धो भवति। `सम्प्रसारण` इत्यादि। सम्प्रसारणे ङौ इटि च य एकादेशस्तस्यासिद्धत्वपरतिषेदो वक्तव्यः। `ब्राहृहूषु` इति। ब्राहृआणं ह्वयतीति क्विप्, यजादित्वात्? सम्प्रसारणम्, `सम्प्रसारणाच्च` 6|1|192 ति परपूर्वत्वम्, `हलः` 6|4|2 इति दीर्घः। सप्तमीबहुवचनम्। `परिवीषु` इति वेञः परिपूर्वसय पूर्ववत्? क्विदादिषु कृतेषु रूपम्। `अपचेच्छत्रम्` इति। पचेर्लङ्युत्तमपुरुषैकवचनमिट्, `कत्र्तरि शप्` 3|1|68 इति शप; `आदगुणः` 6|1|84 इति गुणः॥
षत्वे तुकि चेति। षत्वशास्त्रे, तुक्शास्त्रे चेत्यर्थः। एकादेश इति। एकादेशशास्त्रम् ठाद्गुणःऽ इत्यादीत्यर्थः। असिद्धो भवतीति। सिद्धःउनिष्पन्नः, ततोऽन्योऽसिद्धः। तत्र शास्त्रस्वरूपं तावन्निष्पन्नमिति परत्र परशब्दप्रयोगादिवार्थोऽवगम्यते, तत्कार्यकरणाच्च सादृश्यम्, तदाह--सिद्धकार्याणि न करोतीत्यर्थ इति। षत्वतुक्शास्त्रसन्निधावेकादेशशास्त्रं स्वकार्यमेकादेशाख्यं कार्यं न करोतिउन प्रवर्तयति, न प्रतिपादयतीत्यर्थः। सूत्रस्य प्रयोजनमाहृ--असिद्धवचनमिति। आदेशे कृते यत्कार्यं तद्धेतुकं प्राप्नोति तदादेशलक्षणम्, आदेसो लक्षणं निमितमस्येति कृत्वा; तस्य प्रतिषेधार्थमसिद्धवचनम्। उत्सर्गःउस्थानी, सामान्योत्सृष्टत्वात् स लक्षणं यस्य तदुत्सर्गलक्षणम्, तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम्। कोऽसिचदिति। ठ्लिपिसिचिह्वश्चऽ इति च्लेरङ्, कशब्दात्सोरुत्वम्, ठतो रोरप्लुतादलुतेऽ इत्युत्वम्, गुणः। एङः पदान्तादतीति। परम्प्रत्यादिवद्भावादिति। आदिवद्भावे हि ओसिचदित्येतदन्तं पदम्, ततः सकारः पदादिर्न भवतीति ठ्सात्पदाद्योःऽ इति निषेधाभावादेकादेशमोकारमिणमाश्रित्य षत्वं प्राप्नोति, तदसिद्धत्वान्न भवति। असिद्धत्वे हि षत्वशास्त्रं प्रत्येकादेशशास्त्रस्याप्रतिपादकत्वात् को असिचदित्येवमवस्थितं पदरूपं भवति, तत्राकारेण व्यवधानात्षत्वाभावः। कोऽस्येति। इदमः षष्ट।लेकवचनम्, त्यदाद्यत्वम्, ठ्टाङसिङसामिनात्स्याःऽ इति स्यादेशः, हलि लोपः, शेषं पूर्ववत्। एवमादेशलक्षणप्रतिषेधस्योदाहरणानि दर्शितानि। इतरस्य दर्शयति--अधीत्य, प्रेत्येति। एकादेशस्यासिद्धत्वादित्यादि। असिद्धत्वे हितुक्शास्त्रसन्निधावधि अ इ अ इयेत्येव स्थितं पदरूपं भवति, ततश्च ह्रस्वाश्रयस्तुक् प्रवर्तते। यदि तु मुख्यस्यैकादेशस्यैव कार्यस्यासिद्धत्वमुच्यते, तदा षत्वे नास्ति दोषः, कथम्? ओकारस्तावत्स्वकार्यं षत्वं न करोति, यौ तु ततः पूर्वौ ककारयकारौ तदाश्रयमपि षत्वं न भवति, तेनैवौकारेण व्यवधानात्। तुकि नेष्टसिद्धिः। कथम् ? एकादेशेन ह्रस्वस्य निवतितत्वात्, न चैकादेशः स्वकार्यं न करोति। अनेन स्थानिनः प्रत्यावृत्तिः शक्या, तस्मातिः शक्या, तस्मातुकि शास्त्रासिद्धत्वामेवाश्रयणीयम्। आह च--स्थानिवद्वचनानर्थक्यं च शास्त्रासिद्धत्वादिति। सम्प्रसारणङीट्स्विति। सम्प्रसारणे ङै इटि च य एकादेशस्तस्यासिद्धत्वप्रतिषेधो वक्तव्यः। शकहूष्विति। शकान् ह्वयतीति यज्ञादित्वात्सम्प्रसारणं पूर्वत्वम्, क्विप्, ठ्हलःऽ इति दीर्घः। परिवीष्विति। व्येञः परिपूर्वात् क्विबादि पूर्ववत्। असिद्धत्वात्षत्वं न प्राप्नोतीति। पूर्वरूपस्यासिद्धत्वे हि शकहुआअ इत्येवमवस्थितं पदरूपं भवति। वृक्षेच्छत्रमिति, अपचेच्छत्रमिति। पचेर्लङ्, उतमैकवचनमिट् शप्। आद्गुणस्यासिद्धत्वादिति। असिद्धत्वे हि तस्य वृक्ष इ च्छत्रम्, अपच इ च्छत्रमित्येवमवस्थितं पदरूपं भवति। अत्र सम्प्रसारणे तावत्प्रतिषेधो न वक्त्व्यः, एकादेशोऽसिद्ध इत्युच्यते, न चात्रैकादेशं पश्यामः; दीर्घेण निवर्तितत्वात्। न चदीर्घस्य स्थानिवद्भावादेकादेशग्रहणेन ग्रहणम्; अल्विधित्वात्। ङ्टोस्तु प्रितिषेधो वक्तव्य एव। अथ वा--लाघवार्थं पदस्येति वक्तव्यम्। अन्तादिग्रहणं च पूर्वसूत्रादनुवर्तनीयम्, तेन पदान्तस्य पदादेश्च य एकादेशः सोऽसिद्ध इत्येषोऽर्थो भवति। यद्येवम्, सुपिप्पला ओषधीस्कृधीत्यत्रौषधिशब्दाद् द्वितोयाबहुवचनम्, ठौषधेश्चविभक्तावप्रथमायाम्ऽ इति दीर्घः, ततः प्रथमयोः पूर्वसवर्णदीर्घः, रुत्वविसर्जनीयौ। अत्रैदानीम् ठ्कःकरत्करतिकृतिऽ इति विसर्जनायस्य सत्वमिष्यते, तन्न प्राप्नोति;ठ्पदान्तपदाद्योःऽ इति वचनात्। एकादेशस्यासिद्धत्वाभावाद् इण उतरो विसर्जनीय इति ठिणः षःऽ इति षत्वं प्राप्नोति, अविशेषेणासिद्धत्वे ओषधी अ अस् कृधीत्येवमवस्थानादिण उतरत्वाभावात्षत्वाप्रसङ्गात्सत्वं सिध्यति ? ज्ञापकात्सिद्धम्; यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति, तज्ज्ञापयति--नैकादेशात्परस्य विसर्जनीयस्य षत्वं भवतीति। यदि स्याद्, भ्रातृशब्दान्ङसि ठृत उद्ऽ इत्युत्वे एकादेशे रपरे च कृते ठ्रात्सस्यऽ इति सकारलोपे कृते षष्ठीसमासे ठृतो विद्यायोनिसम्बन्धेभ्यःऽ इत्यलुकि रेफस्य विसर्जनीये ठृत उद्ऽ इत्युकारस्यैकादेशस्य सिद्धत्वात् ठिदुदुपधस्य चऽ इत्येव षत्वे सिद्धे कस्कादिषु तन्न पठेत्, पठति च, ततो ज्ञायते--नैकादेशात्परस्य षत्वमिति। शकहूष्वित्यत्रापि तर्हि न प्राप्नोति ? नैष दोषः; तुल्यजातीयस्य ज्ञापकं भवति। कश्च तुल्यजातीयः ? यः कुप्वोरनन्तरः। इह चट वेञः क्विपि सम्प्रसारणे पूर्वत्वे च ठ्ह्रस्वस्य पिति कृतिऽ इति तुकि प्राप्ते पूर्वत्वस्य सूत्रेणासिद्धत्वे प्राप्ते ठ्पदान्तपदाद्योःऽ इति वचनादसिद्धत्वाभावादुदिति तुग्भवत्येव। न हि उआअ इत्येकादेशात्प्रागवस्तायामाकारः पदान्तः। नाप्यकारः पदादिः; विभक्तेरभावात्। न चैकादेशात्प्रागेव कृदन्तत्वाद्विभक्तयुत्पत्तिः; एकादेशस्यान्तरङ्गत्वात्। अथापि प्रागेव विभक्त्युत्पत्तिः; एवमपि उआअसु इति स्थिते उकारः पदादिः सकारः पदान्तः, सुबन्तं हि पदम्, न तु ततः पूर्वम्। अथापि भ्याम्प्रभृतौ उआअभ्यमिति स्थिते ठ्स्वादिषुऽइति पदसंज्ञायां पदान्तपदाद्योरेकादेशः ? तथापि न दोसः; ठ्पूर्वपरयोःऽ इति वर्तते, अन्तादिग्रहणञ्च; तत्र यथासंक्यसम्बन्धात्पूर्वपदस्य योऽन्तः परस्य चादिस्तयोरेकादेशोऽसिद्ध इत्यर्थः सम्पद्यते। आकारश्चात्र पदादिर्न भवति, नाप्युकारः पदान्त इत्यसिद्धत्वातुग् भवत्येव। किमर्थं पुनः षत्वतुकोरेकादेशस्यासितद्धत्वादुच्यते, यावता द्विपदाश्रयत्वाद् बहिरङ्गस्यैकादेशस्यैकपदाश्रयत्वेनान्तरङ्गयोः षत्वतुकोः ठसिद्धं बहिरङ्गमन्तरङ्गेऽ इत्येवासिद्धत्वं सिद्धम्? ज्ञापनार्थं तु, एतज्ज्ञापयति--ठ्यत्र बहिरङ्गस्यान्तरङ्गस्य वाऽचोरानन्तय निमितत्वेनाश्रितं तत्र बहिरङ्गपरिभाषा न प्रवर्ततेऽ इति। तेनाक्षद्यौउरित्यत्र बहिरङ्गस्याप्यूठोऽसिद्ध्तवाभावाद्यणादेशः सिद्धो भवति। अयमेवार्थः परिभाषारूपेण पठ।ल्ते ठ्नाजानन्तर्यं बहिष्ट्वप्रक्लृप्तिःऽ इति ॥
सिद्धान्तकौमुदी
षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् । इह षत्वं न । अधीत्य । प्रेत्य । ह्रस्वस्य-(कौमुदी-2858) इति तुक् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
षत्वतुकोरसिद्धः - षत्वतुकोः । प्रासङ्गिकषत्वविषयमुदाहरति — कोऽसिचदिति । को — असिचदिति स्थितेएङः पदान्तादती॑ति पूर्वरूपमेकादेशः । तस्यअन्तादिवच्चे॑ति परादिवत्त्वेनसात्पदाद्यो॑रिति निषेधाऽभावादिणः परत्वेन षत्वं प्राप्तमेकादेशस्याऽसिद्धत्वे सति अकारेण व्यवधानादिणः परत्वाऽभावान्न भवति । प्रकृतं ल्यपि कार्यमुदाहरति — अधीत्येति । विधायेति । दधातेहिर्न ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
षत्वतुकोरसिद्धः (2523) (वार्तिकावतरणभाष्यम्) किमर्थमिदमुच्यते ? (6152 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।) - षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च - षत्वतुकोरसिद्धत्वमुच्यते, आदेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च । आदेशलक्षणप्रतिषेधार्थं तावत् ‐ - कोऽसिञ्चत्, सोऽसिञ्चत् । एकादेशे कृते इण इति षत्वं प्राप्नोति, असिद्धत्वान्न भवति । उत्सर्गलक्षणभावार्थं च ‐ - अधीत्य, प्रेत्य । एकादेशे कृते ह्रस्वस्य ‐ - इति तुग्न प्राप्नोति, असिद्धत्वाद्भवति ।। अस्ति प्रयोजनमेतत् । किं तर्हीति ? (6153 सूत्राक्षेपवार्तिकम् ।। 2 ।।) - तत्रोत्सर्गलक्षणाप्रसिद्धिरुत्सर्गाभावात् - तत्रोत्सर्गलक्षणस्य कार्यस्याप्रसिद्धिः । अधीत्य, प्रेत्य । किं कारणम् ? उत्सर्गाभावात् । ह्रस्वस्येति । उच्यते, न चात्र ह्रस्वं पश्यामः ।। ननु चात्राप्यसिद्धवचनात्सिद्धम् ।। (6154 आक्षेपसमर्थकवार्तिकम् ।। 3 ।।) - असिद्धवचनात्सिद्धमिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः - असिद्धवचनात्सिद्धमिति चेत्, तन्न । किं कारणम् ? नान्यस्यासिद्धवचनादन्यस्य भावः । न ह्यन्यस्यासिद्धवचनादन्यस्य प्रादुर्भावो भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावो भवति ।। (6155 एकदेशिन उपसंख्यानवार्तिकम् ।। 4 ।।) - तस्मात्स्थानिवद्वचनमसिद्धत्वं च - तस्मात्स्थानिवद्भावो वक्तव्यः, असिद्धत्वं च । अधीत्ये, प्रेत्येति स्थानिवद्भावः । कोऽसिञ्चत्, सोऽसिञ्चदित्यत्रासिद्धत्वम् ।। (6156 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 5 ।।) - स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वात् - स्थानिवद्वचनमनर्थकम् । किं कारणम् ? शास्त्रासिद्धत्वात् । नानेन कार्यस्यासिद्धत्वं क्रियते । किं तर्हि ? शास्त्रासिद्धत्वमनेन क्रियते । एकादेशशास्त्रं तुक्शास्त्रेऽसिद्धं भवतीति ।। (वार्तिकावतरणे ‐ - उपसंख्यानभाष्यम्) संप्रसारणङीट्सु सिद्धः । संप्रसारणङीट्सु सिद्ध एकादेश इति वक्तव्यम् । शकहूषु, परिवीषु । संप्रसारण । ङि ‐ - वृक्षे छत्रं, वृक्षे च्छत्रं, प्लक्षे छत्रं, प्लक्षे च्छत्रम् । ङि । इट् ‐ - अपचे छत्रम्, अपचे च्छत्रम्, अयजे छत्रम्, अयजे च्छत्रम् ।। (6157 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 6 ।।) - संप्रसारणङीट्सु सिद्धः पदान्तपदाद्योरेकादेशस्यासिद्धवचनात् - संप्रसारणङीट्सु सिद्ध एकादेशः । कुतः ? पदान्तपदाद्योरेकादेशस्यासिद्धवचनात् । पदान्तपदाद्योरेकादेशोऽसिद्धो भवतीत्युच्यते, न चैष पदान्तपदाद्योरेकादेशः ।। यदि पदान्तपदाद्योरेकादेशोऽसिद्धः ‐ - सुसस्या ओषधीस्कृधि, सुपिप्पला ओषधीस्कृधि ‐ - अत्र षत्वं प्राप्नोति । तुग्विधिं प्रति पदान्तपदाद्योरेकादेशोऽसिद्धः, षत्वं प्रत्येकादेशमात्रमसिद्धं भवति ।। यदि षत्वं प्रत्येकमात्रदेशामसिद्धम् ‐ - शकहूषु, परिवीषु ‐ - अत्र षत्वं न प्राप्नोति ।। अस्तु तर्ह्यविशेषेण । कथं ‐ - सुसस्या ओषधीस्कृधि, सुपिप्पला ओषधीस्कृधि ? नैष दोषः । भ्रातुष्पुत्रग्रहणं ज्ञापकम् ‐ - एकादेशनिमित्तात् षत्वप्रतिषेधस्य । यदयं कस्कादिषु भ्रातुष्पुत्रग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ - नैकादेशनिमित्तात्षत्वं भवतीति । यद्येतज्ज्ञाप्यते, शकहूषु, परिवीषु ‐ - अत्र षत्वं न प्राप्नोति । तुल्यजातीयस्य ज्ञापकम् । किं च तुल्यजातीयम् ? यः कुप्वोः ।। यद्येवं, वेञ्ञोऽप्रत्यये परत उरिति प्राप्नोति, उदिति चेष्यते । यथा लक्षणमप्रयुक्ते । अथवा ‐ - नैवं विज्ञायते ‐ - पूर्वस्य च पदादेः परस्य च पदान्तस्येति । कथं तर्हि ? परस्य च पदादेः पूर्वस्य पदान्तस्येति ।।