Page loading... Please wait.
6|1|85 - अन्तादिवच्च
॥ तस्मै पाणिनये नमः ॥
6|1|85
SK 75
अन्तादिवच्च  
सूत्रच्छेदः
अन्त-आदिवत् (अव्ययम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|71 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
पूर्वपरयोः एकादेशः अन्त-आदिवत् |
सूत्रार्थः
"एकः पूर्वपरयोः" अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् कार्यं करोति ।
"एकः पूर्वपरयोः" अस्मिन् अधिकारे पूर्व-पर-शब्दयोः एकत्ररूपेण एकादेशः विधीयते । अयम् आदेशः "पूर्वशब्दस्य अवयवरूपेण स्वीकरणीयः उत् परशब्दस्य?" अस्य प्रश्नस्य अत्र उत्तरम् दत्तम् अस्ति । अयम् आदेशः पूर्वशब्दस्य अन्तिमवर्णरूपेण अपि कार्यं करोति, तथा परशब्दस्य आदिवर्णरूपेण अपि कार्यम् करोति ।

यथा - "ब्रह्म + ऋषि" इत्यत्र आद् गुणः 6|1|87 इत्यनेन पूर्वपरयोः गुण-एकादेशः अकारः उरण् रपरः 1|1|51 इत्यनेन रपरः जायते । अतः "ब्रह्म् + अर् + षि" इत्यत्र "अर्" अयमादेशः "ब्रह्मर्" इति पूर्वपदस्य अन्तिमवर्णरूपेण अपि कार्यं करोति, तथा "अर्षि" इति परपदस्य आदिवर्णरूपेण अपि कार्यं करोति । अतएव "अर्" इत्यस्य खरवसानयोर्विसर्जनीयः 8|3|15 इत्यनेन विसर्गनिर्माणम् न भवति । यदि "अर्" इति केवलं पूर्वपदस्य अन्तिमवर्णरूपेण कार्यम् अकरिष्यत् तर्हि अयम् अर् "पदान्ते" अस्ति इति मत्वा षकारे तस्य विसर्गः अभविष्यत् । परन्तु अयं अर्-वर्णः पर-वर्णस्य आदिरूपेण अपि कार्यं करोति, इत्युक्ते परवर्णस्य आदौ षकारः न दृश्यते - अकारः दृश्यते । अतः अत्र विसर्गनिर्माणम् न भवति, केवलं वर्णमेलनं कृत्वा "ब्रह्मर्षि" इति रूपं सिद्ध्यति ।
One-line meaning in English
The एकादेश told in the एकः पूर्वपरयोः अधिकार acts like the last letter of the पूर्वशब्द as well as the first letter of the परशब्द.
काशिकावृत्तिः
एकः इति वर्तते, पूर्वपरयोः इति च। एकः पूर्वपरयोः 6|1|84 इति यो ऽयम् एकादेशो विधीयते स पूर्वस्य अन्तवद् भवति, परस्यादिवद् भवति। यथा तस्यान्तः आदिर् वा तदन्तर्भूतः तद्ग्रहणेन गृह्यते, तद्वदेकादेशो ऽपि तद्ग्रहणेन ग्र्ह्यते इत्येषो ऽतिदेशार्थः। ब्रह्मबन्धूः इत्यत्र ब्रह्मबन्धु इति प्रातिपदिकम्, ऊङिति अप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर् यः एकादेशः स प्रातिपदिकस्य अन्तवद् भवति, यथा शक्यते कर्तुं ङ्याप् प्रातिपदिकात् 4|1|1 इति स्वादिविधिः। वृक्षौ इत्यत्र सुबौकारः असुबकारः, तयोः सुबसुपोरेकादेशः सुपः आदिवद् भवति, यथा शक्यते वक्तुं सुबन्तं पदम् इति। वर्णाश्रयविधौ अयम् अनतादिवद्भावो निस्यते। तथा हि खट्वाभिः इत्यत्र अन्तवद्भावाभावाततो भिस ऐस् 7|1|9 इति न भवति। ह्वयतेः जुहाव इति सम्प्रसारणपूर्वत्वस्य आदिवद्भावाहावातात औ णलः 7|1|34 इति न भर्वात। अस्यै अश्वः, अस्या अश्वः इति वृद्धिरेचि 6|1|88 इति वृद्धिः, एङः पदान्तादति 6|1|109 इत्यत्र विधौ आदिवन् न भवति। पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्तयते। तत्र अवयवयोरानुमानिकं स्थानित्वम् इति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्तम् इत्यन्तादिवद्भावो विधीयते।
अन्तादिवदित्युक्ते न ज्ञायते--कोऽस्यातिदेशस्यार्थ इत्यतस्तत्परिज्ञानायाह--`यथा` इत्यादि। `इत्येषोऽतिदेशस्यार्थः` इति। इतिशब्द्वोऽतिक्रान्तप्रत्यवमर्शी-अतिदिश्येऽनेनेत्यतिदेशः, स पुनः `अन्तदिवच्च` इत्येष एव योग इत्येषोऽनन्तरोक्तोऽस्यातिदेशस्यार्थ इत्यर्थः। `वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते` इति। कथमेतज्ज्ञायते? इत्याह--`तथाहि` इत्यादि। `ओभिस ऐस्? 7|1|9 इत्यकारवर्णाश्रयो विधिः; तत्र कत्र्तव्ये खट्वाभिरित्यत्र सवर्णदीर्घत्वं पूर्वस्यानतवन्न भवति। `आत औ णलः` 7|1|34 इत्याकारवर्णाश्रयोऽयं विधिः। तत्र कत्र्तव्ये वर्णाश्रये जुहावेत्यत्र `अभ्यस्तस्य च` 6|1|33 इति ह्वयतेः सम्प्रसारणे कृते यत्? पूर्वरूपत्वमाकारस्य तन्नादिवद्भवकति। एङः पदान्तादति` 6|1|105 इत्येष विधिरेङ्वर्णाश्रयः। तत्र कत्र्तव्ये--अस्यै अआ इत्यत्र `आटश्च` 6|1|87 इति वृद्धिः परस्यादिवन्न भवति, तदभावादायादेशः, `लोपः शाकल्यस्य` 8|3|19 इति यकारलोपः, तत्? किमेतद्वक्तव्यम्--वर्णाश्रये नान्तादिवदिति? न वक्तवयम्। कथम्? अताद्रूप्यातिदेशात्। नेह ताद्रूप्यमतिदिश्यते, रूपाश्रयाश्चैते विषयः, तेनाताद्रूप्यान्न भविष्यन्ति। किमर्थं पुनरयमन्तादिवद्भावो विधीयते, यावता पूर्वपरावुक्तावेकादेशस्य स्थानिनौ, अत्र स्थानिवद्भावादेव तदाश्रयं कार्यं भविष्यति? इत्यत आह--`पूर्वपरसमुदाय एकादेशस्य स्थानी` इति। कथं ज्ञायते? इत्याह--`स हि` इत्यादि। येन हि यो निवर्त्त्यत आदेशेन स तस्य स्थानीति, तद्यथा--`अस्तेर्भूः` 2|4|52 इति। अत्र भूवोऽस्तिः, समुदायश्चेहैकादेशेन निर्वर्त्त्यत इति स एव तस्य स्थानी, न पूर्वपरौ समुदायिनौ। स्यादेतत्--अवयवस्य समुदायाभ्यान्तरत्वात्? समुदाय आदेशेन निवर्त्त्यमानेऽवयवावपि निवर्त्त्येते, तस्मात्? तयोरपि स्थानित्वम्? इत्यत आह--`तत्र` इत्यादि। इतिकरणौ द्वावपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्? स्थानित्वं तदानुमानिकम्, समुदाय एकादेशस्य आदेशेन निवर्त्त्यमाने तयोरपि निवत्र्तनं नान्तरीयकमिति कृत्वा। न हि विनावयवनिवत्र्तनेन समुदायः शक्यते निवर्तयितुम्, तस्य तदात्मकत्वात्। समुदायस्य तु प्रत्यक्षंस्थानित्वम्। `पूर्वपरयोः` इति स्थानषष्ठन्तस्य साक्षाच्? श्रवणात्? `श्रुतानुमितयोः श्रौतः सम्बन्धो गरीयान्` (चां।प।पा।49) इति `स्थानिवदादेशोऽनल्विधौ` 1|1|56 इत्यनेन यस्य प्रत्यक्षं साक्षात्? श्रुतम्, स्थानित्वं तदाश्रयमेव कार्यमादेशे विधीयते। अवयवयोश्चानुमानिकं स्थानित्वं न प्रत्यक्षम्, अतस्तदाश्रयं कार्यं नातिदिश्यते। तेन तदाश्रयं कार्यं स्थानिवद्भावादेशे न प्राप्नोति, इष्यते च। तदर्थमयमन्ताविवद्बावो विधीयते॥
अन्तादिशब्दयोरवयवविशेषवाचित्वादवयविशेषापेक्षायां पवपरयोरित्यनुवृतेस्तस्य च वक्ष्यमाणगुणाद्यादेशविशेषणत्वादेकादेस इति लभ्यते, तदिदमुक्तम्--एकः पूर्वपरयोरिति वर्तत इत्यादि। कः पुनरत्रातिदेशार्थः, किं यावेकादेशस्य स्थानिनौ पूर्वपरौ तयोरन्तादिवद्भवति? किं वा--अकृत एकादेशे तमेवैकादेशमपेक्ष्य यौ पूर्वपरौ समुदायौ तयोरन्तादिवद्भवतीति ? यदि वा--एकादेशस्य स्थानिनौ पूर्वपरौ वर्णै, तयोः समुदाययोरन्तादी, यतोरेकादेशोऽप्यन्तादिवद्भवतीति ? तत्राद्यपक्षस्तावन्न सम्भवति, एकादेशेन पूपरयोस्तत्स्थानिनोर्निवर्तितत्वात्! कथमसतोः पूर्व परयोरन्तादिवत्स्यात्! द्वितीये पक्षे वृक्षावित्यत्र वृक्षाऔ इति स्थिते सुबसुपोरेकादेशः सुबपेक्षस्य कस्यचित्परस्याभावात्परादिवन्न स्यात् ? अतः तृतीयः पक्ष अश्रीयते। नन्वयमपि पक्षो न सम्भवत्येव। तथा हि--ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धुऔउ इति स्थिते पूर्वो वर्ण उकारो यस्यान्तो ब्रह्मबन्धुशब्दस्य स एकादेशे नास्त्येव, उकारस्य निवर्तितत्वात्; यश्चास्ति धकारान्तो न तस्यान्त एकादेशस्य स्थानी उकारः, अनारम्भकत्वात्? एवं तर्हि यद्व्यपदेशयुक्तस्य स्थानिनौ पूर्वपरावन्तादी तद्व्यपदेशयुक्तस्यैकादेशोऽप्यन्तादिवदित्यर्थः। एददुक्तं भवति--एकादेशात्प्राक् पूर्वपरयोः पृथगवस्थितयोस्ताभ्यां सह यो व्यपदेशः पूर्वपरसमुदायविषयो दृष्टः--प्रातिपदिकमिति वा, सुबन्तमिति वा, स व्यपदेश एकादेशे कृतेऽपि भवतीति। तदिदमुक्तम्--यथा तस्यान्त आदिर्वा तदन्तर्भूत इत्यादि। तस्येत्यनेन एकादेशात्प्रागवस्थितः पूर्वः परश्च समुदायो निर्द्दिश्यते, अन्तादिशब्दाभायां च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणीन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारम्भायन्तरं च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणेन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारभ्यानन्तरं यदुक्तमस्माभिस्तद्दर्शितम्। एषोऽतिदेशार्थ इति। अतिदिश्यत इत्यतिदेशः, अतिदेशश्चासावर्थश्चेत्यतिदेसार्थः कर्मधारयोऽयमर्थोऽत्रातिदिश्यत इत्यर्थः। वर्णाश्रयविदावित्यादि। वर्णस्वरूपमाश्रित्य यद्विधीयते न तदन्तादिवद्भावेनातिदिश्यत इत्यर्थः। तत्कथम्? नात्र ताद्रूप्यनिबन्धनं कार्यमतिदिश्यते, योऽयमान्त आदिर्वा प्रागेकादेशादवस्थितः पूर्वः परश्च तद्वदयमेकादेशो भवति। तत्प्रयुक्तं कार्यं लभत इति। एवं च तद्वच्चेत्येव वक्त्व्य स्तात्, तच्छब्देन पूर्वापरौ परामृश्यते। एवं हि सिद्धेऽन्तादिवदिति वचनादन्तादित्वप्रयुक्तं कार्यमेकादेशस्य भवतु, पूर्वपरस्वरूपप्रयुक्तं तु कार्यं केन भवेत् ! लिङ्गं चात्र भवति तुक्यसिद्धवचनम्; अन्यथा अधीत्येत्यादावेकादेशस्यादिवद्भावादेव तुकः सिद्धत्वादनर्थकं तत्स्यात्। खट्वाभिरिति। तपरकरणं तु यत्रैकादेशो नास्ति तदर्थं स्यात्--शुभंयाभिरिति। जुहावेति। ठभ्यस्तस्य चऽ इति ह्वयतेः सम्प्रसारणे कृते जुहुआअ इति यत्पूर्वरूपत्वमाकारस्य तन्नादिवद्भावति, योऽयमादिराकारस्तद्वन्न भवति, तेन ठात औ णलःऽ इति न भवति। अस्यै अश्व इति। स्याटो विभक्त्येकारस्य योऽयं ठ्वृद्धिरेचिऽ इति वृद्धिरेकादेशः स परस्यादिवन्न भवति, तेन ठेङः पदान्तादतिऽ इति न भवति। यत्र च युगपदुभयमाश्रीयते--अन्तश्चादिश्च, तत्राप्यन्तादिवद्भावो न भवति, यथा ठेतेलिङ्ऽ ईति ह्रस्वत्वमुपसर्गात्परस्येणो विधीयमानम्-अभीयात्परीयादित्यादौ न भवति। यदि ह्ययमेकादेशः पूर्वं प्रत्यन्तवद् बुद्ध्या गृह्यएत, स तदानीमेव कथं परं प्रत्यादिवत्स्यात्! एवं परं प्रत्यादिवत्वे तदानीमेव पूर्वं प्रत्यन्तवद्बावोऽप्यनुपपन्नः; एकस्योभयापेक्षया युगपत्पारतन्त्र्यस्य विरोधात् । पूर्वापरेति। यो येन निवर्त्यते स तस्य स्तानी, यथा--भुवोऽस्तिः। समुदायश्चात्र निवर्त्यते, ततश्च तत्प्रयुक्तमेव कार्थं स्थानिवद्बावात्स्याद् यदि किञ्चिदस्ति, न तु प्रत्येकं पूर्वपरयुक्त्म्। स्यादेतद्--अवययोरपि निवर्त्यमानत्वातयोरपि स्थानित्वम्? इत्यत आह--तत्रेति। इतिकरणद्वयमपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्स्थानित्वं तदानुमानिकमवयवनिवृत्तिमन्तरेणावयविनो निवर्तयितुमशक्यत्वादवयवयोर्निवृत्तिः, न त्वादिष्टत्वादित्यर्थः। ततश्च तदाश्रयं कार्यं स्थानिवद्भावान्न प्राप्नोति; साक्षाच्छ्4%अतस्यैव च स्थानिनस्तत्राश्रयणात्। इष्यते च तदर्थमन्तादिवद्भावो विधीयते। ननु विपरीतमिदम्--अवयवयोरानुमानिकं स्थानित्वमिति ? ठ्पूर्वपरयोःऽ इति द्विर्वचननिर्द्देशात् तयोरेव स्थानित्वं श्रुतं न समुदायस्य शब्दोऽस्ति, द्वयोस्तु निवर्तमानयोरर्थात्समुदायो निवर्तत इत्येतावत्। तथा च पूर्वसूत्रे ठ्स्थानिबेदाद्भिन्नादिषु नत्ववत्ऽ इत्युक्तम्। तच्चान्यत्रापि उक्तम्--यो ह्युभयस्थाने भवति लभते सोऽन्यतरव्यपदेशम्, तेन खट्वर्श्य इत्यत्र पररत्वं भवत्यृकारस्यापि स्थानिवद्भावः, कथम? ठ्स्थानिवदादेशःऽ इत्यत्र स्थानिशब्दस्य सम्बन्धिशब्दत्वादेवादेशपरिग्रहे सिद्धे आदेशग्रहणमानुमानिकस्याप्यादेशस्य स्थानिवद्भावार्थम्, ततश्च स्थान्यप्यानुमानिक आश्रितः, यथा ठेरुःऽ पचत्वित्यत्र । अत्र हि इकारेणेकारान्तः स्तान्यनुमीयते, उकारेणाप्युकारान्त आदेशः, तस्य स्थानिवद्भावात् ठ्तिङ्न्तं पदम्ऽ इति पदसंज्ञा भवति। एवमप्यत्रावयवयोरानुमानिके स्थानित्वे सिद्धः स्थानिवद्भावः ? एवं तर्ह्यनल्विधौ स्थानिवद्बाव उक्तः अल्विध्यर्थमिदम्, यथा--क्षीरपेण, सुरापेणोतरपदविभक्त्योरेकादेशस्यान्तवद्भावात् ठेकाजुतरपदे णःऽ इति णत्वमल्विधिरपि भवति। ननु च ठनल्विधौऽ इति प्रतिषेधः स्थान्यलाश्रयेष्वेव कार्येषु, असय त्वेकादेशस्योतरपदं प्रत्यवयवत्वमेव स्थानिवत्वेन प्रार्थनीयम्; अच्त्वं तु स्वत एव सिद्दम्, ततश्च यथा--अरुदितामित्यत्र स्वाश्रयं वलादित्वं स्थानिवद्बावकृतं च सार्वदातुकत्वमाश्रित्य ठ्रुदादिभ्यः सार्वधातुकेऽइतीङ् भवति, तद्वदिहापि स्थानिवद्धावकृतमुतरपदावलयवत्वं स्वाश्रयं चाच्त्वमाश्रित्य णत्वं भवति। ततु स्थान्यल्खरूपनिबन्धनम्, तत्रेष्यत एव, यथा खट्वाभिरित्यादावैस्भावादि। तस्मात् चिन्त्यभस्य प्रयोजनम् ॥
सिद्धान्तकौमुदी
योऽयमेकादेशः पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥
अन्तादिवच्च - अथ तस्य रेफस्य पदान्ते विहितं विसर्गमाशङ्कितुं तस्य पदान्तत्वसाधनायाह-अन्तादिवच्च । एकः पूर्वपरयोरिति सूत्रमनुवर्तते । यथासंख्यपरिभाषया अन्तादिवदित्यस्य क्रमेणान्वयः । ततश्च पूर्वपरयोर्भवन्नेक आदेशः पूर्वस्यान्तवत्परस्यादिवदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णौ स्थानिनौ-पूर्वः परश्च, तयोश्च वर्णयोः प्रत्येकमेकत्वादखण्डत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्त्वकथनमसङ्गतम्, तथापि पूर्वपरवर्णयोर्भवन्नेकादेशः प्रथमस्थानिघटितसमुदायस्य पूर्वस्य योऽन्तः । प्रथमस्थानी तत्कार्यकारी भवति । द्वितीयस्थानिघटितसमुदायस्य उत्तरस्य य आदिर्द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षितः । तत्र पूर्वान्तवत्त्वे यताक्षीरपेण । क्षीरप-इनेति स्थिते "आद्गुण" इत्येकादेश एकारः । तत्र पूर्वान्तवत्त्वेन पे इत्युत्तरपदस्य एकाच्त्वादेकाजुत्तरपदेण इति णत्वं भवति । अत्र एकादेशे स्थानिवत्सूत्रं तु न प्रवर्तते, एकदेशस्थानीभूतं पकारादकारमालम्ब्य पे इत्यस्य एकाजुत्तरपदत्वाश्रयेम प्रवर्तमानस्य णत्वस्य स्थान्यलाश्रयत्वात् । यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन णत्वविधिराश्रयति, पकारादकारं स्थान्यलं तु तद्विशेषणीभूताऽच्वेनाश्रयति, तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव, यथाकथञ्चित्स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यता प्रतिदीव्येत्यत्र क्त्वादेशं ल्यपं स्थानिगतवलाद्यर्थधातुकत्वेनाश्रित्येडागमेकर्तव्येऽनल्विधाविति निषेधानुपपत्तिः, तत्र वलः प्राधान्येनाश्रयणाऽभावात् । एतेन स्थानिवत्सूत्रेण गतार्थमिदं सूत्रमिति निरस्तम् । परादिवत्त्वे यथा-खट्वा । अत्र खट्वाशब्दादजाद्यतष्टाप् । सवर्णदीर्घः आकारः । तस्य परादिवत्त्वेन टाप्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः । इदमपि स्तानिवद्भावेन अनिर्वाह्रम् । हल्ङ्यादिलोपस्यात्र स्थान्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । नचैवं सति यजेर्लङि उत्तमपुरुषैकवचने इटि शपि आद्गुणे अडागमे अयजे इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्त्वेन इकारत्वात्तत्रेकारे परे सवर्णदीर्घः स्यादिति वाच्यम, इह हि अल्समुदायधर्मास एव प्रातिपदिकत्व-सुबन्तत्व-प्रत्ययत्वादयोऽतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्वह्यस्वत्वादयः । उक्तञ्च भाष्ये-॒न वा अताद्रूप्यातिदेशा॑दिति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवंजातीयकेषु सवर्णदीर्घादिकं न भवतीत्यर्थ इत्यलमतिविस्तरेण ।
अन्तादिवच्च - अन्तादिवच्च । इहएकः पूर्वपरयोः॑ इत्यनुवर्तते, यथासङ्ख्यं चाश्रीयत इत्यभिप्रेत्याह-पूर्वस्यान्तवदिति । स्थानिवत्सूत्रेणैव गतार्थमिदम् । न चाल्विध्यर्थमिदमस्त्विति शङ्क्यम् ; अस्याऽप्यल्विधावनिष्टत्वात् । अन्यथाअयजे इन्द्र॑मित्यत्र सवर्णदीर्घापत्तेः ।
लघुसिद्धान्तकौमुदी
योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥
महाभाष्यम्
अन्तादिवच्च (2522) (अतिदेशाधिकरणम्) (वार्तिकावतरणभाष्यम्) किमर्थमिदमुच्यते ? (6126 प्रयोजनवार्तिकम् ।। 1 ।।) - अन्तादिवद्वचनमामिश्रस्यादेशवचनात् - अन्तादिवद्वचनं क्रियते, आमिश्रस्यादेशवचनात् । आमिश्रस्यायमादेश उच्यते स नैव पूर्वग्रहणेन गृह्यते, नापि परग्रहणेन । तद्यथा ‐ - क्षीरोदके संपृक्ते आमिश्रत्वान्नैव क्षीरग्रहणेन गृह्येते नाप्युदकग्रहणेन, इष्यते च ग्रहणं स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीत्यन्तादिवद्वचनम् । एवमर्थमिदमुच्यते ।। (वार्तिकावतरणभाष्यम्) अस्ति प्रयोजनमेतत् । किं तर्हीति ? (6127 पूर्वपक्षिवार्तिकम् ।। 2 ।।) - तत्र यस्यान्तादिवत्तन्निर्देशः - तत्र यस्यान्तादिवद्भाव इष्यते तन्निर्देशः कर्तव्यः । अस्यान्तवद्भवति, अस्यादिवद्भवतीति वक्तव्यम् ।। (6128 समाधानवार्तिकम् ।। 3 ।।) - सिद्धं तु पूर्वपराधिकारात् - सिद्धमेतत् । कथम् ? पूर्वपराधिकारात् । पूर्वपरयोरिति वर्तते । पूर्वस्य कार्यं प्रत्यन्तवद्भवति । परस्य कार्यं प्रत्यादिवद्भवति ।। (सूत्रस्याप्रवृत्तिस्थलबोधकभाष्यम्) अथ यत्रोभयमाश्रीयते, किं तत्र पूर्वस्यान्तवद्भवति ‐ - आहोस्वित्परस्यादिवद्भवति ? उभयत आश्रये नान्तादिवत् । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? लौकिकोऽयं दृष्टान्तः । तद्यथा ‐ - लोके द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, स तयोः पर्यायेण कार्यं करोति । यदा तु तमुभौ युगपत् प्रेषयतः, नानादिक्षु च कार्ये भवतः, तत्र यद्यसावविरोधार्थी भवति उभयोर्न करोति । किं पुनः कारणमुभयोर्न करोति ? यौगपद्यासंभवात् । नास्ति यौगपद्येन संभवः ।। (वार्तिकावतरणभाष्यम्) अथान्तवत्त्वे कानि प्रयोजनानि ? (6129 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 4 ।।) - अन्तवत्त्वे प्रयोजनं बह्वच्पूर्वपदाट्ठज्विधाने - अन्तवत्त्वे बह्वच्पूर्वपदाट्ठज्विधाने प्रयोजनम् । द्वादशान्यिकः । पूर्वपदोत्तरपदयोरेकादेशः पूर्वस्यान्तवद्भवति, यथा शक्यते कर्तुं ‐ - बह्वच्पूर्वपदाट्ठज्भवतीति । क्व तर्हि स्यात् ? यत्र कृतेऽप्येकादेशे बह्वच्पूर्वपदं भवति ‐ - त्रयोदशान्यिकः ।। (6130 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 5 ।।) - प्रत्ययैकादेशः पूर्वविधौ - प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् । मधु पिबन्ति । शिदशितोरेकादेशः शितोऽन्तवद्भवति, यथा शक्येत कर्तुं ‐ - शितीति पिबादेशः । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति ‐ - पिबति ।। (6131 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 6 ।।) - वैभक्तस्य णत्वे - वैभक्तस्य णत्वे प्रयोजनम् । क्षीरपेण, सुरापेण । उत्तरपदविभक्त्योरेकादेश उत्तरपदस्यान्तवद्भवति, यथा शक्येत कर्तुम् ‐ - एकाजुत्तरपदे णो भवतीति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति ‐ - क्षीरपाणाम्, सुरापाणाम् ।। (6132 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 7 ।।) - अदस इर्त्वोत्वे - अदस इर्त्वोत्वे प्रयोजनम् । अमी अत्र, अमी आसते । अमू अत्र, अमू आसाते । अदस्विभक्त्योरेकादेशोऽदसोऽन्तवद्भवति, यथा शक्येत कर्तुं ‐ - अदसोसेर्दादुदोमः एत इर्द्बहुवचने (8-2-80;81) इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति ‐ - अमीभिः, अमूभ्याम् ।। (वार्तिकावतरणे प्रयोजनभाष्यम्) स्वरितत्वे प्रयोजनम् ‐ - कार्या, हार्या । तिदतितोरेकादेशस्तितोऽन्तवद्भवति, यथा शक्येत कर्तुं ‐ - तित्स्वरितम् 6|1|185 इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति ‐ - कार्यः, हार्यः ।। (6133 भाष्योक्तप्रयोजनखण्डनवार्तिकम् ।। 8 ।।) - स्वरितत्वं विप्रतिषेधात् - स्वरितत्वं क्रियताम् ‐ - एकादेश इति, किमत्र कर्तव्यम् ? परत्वात्स्वरितत्वं भविष्यति विप्रतिषेधेन ।। (विप्रतिषेधाक्षेपनिरासभाष्यम्) नैष युक्तो विप्रतिषेधः, नित्य एकादेशः, कृतेऽपि स्वरितत्वे प्राप्नोत्यकृतेऽपि । अनित्य एकादेशः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति, अन्यथास्वरस्याकृते स्वरितत्वे प्राप्नोति । स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति ।। अन्तरङ्गस्तर्ह्येकादेशः । काऽन्तरङ्गता ? वर्णावाश्रित्यैकादेशः, पदस्य स्वरितत्वम् । स्वरितत्वमप्यन्तरङ्गम् । कथम् ? उक्तमेतत् ‐ - पदग्रहणं परिमाणार्थमिति । उभयोरन्तरङ्गयोः परत्वात्स्वरितत्वम्, स्वरितत्वे कृते आर्न्तय्यतः स्वरितानुदात्तयोरेकादेशः स्वरितो भविष्यति ।। (6134 खण्डनोपष्टम्भकवार्तिकम् ।। 9 ।।) - लिङ्गविशिष्टग्रहणाद्वा - अथवा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येवमत्र स्वरितत्वं भविष्यति ।। (वार्तिकावतरणे प्रयोजनभाष्यम्) पूर्वपदान्तोदात्तत्वं च प्रयोजनम् ‐ - गुडोदकम्, मथितोदकम् । पूर्वपदोत्तरपदयोरेकादेशः पूर्वपदस्यान्तवद्भवति, यथा शक्येत कर्तुम् ‐ - उदकेऽकेवले पूर्वपदस्यान्त उदात्तो भवतीति । क्व तर्हि स्यात् ? यत्रैकादेशो नास्ति ‐ - उदश्विदुदकम् ।। (6135 अवतरणोक्तप्रयोजनखण्डनवार्तिकम् ।। 10 ।।) - पूर्वपदान्तोदात्तत्वं च - पूर्वपदान्तोदात्तत्वं च विप्रतिषेधात् । पूर्वपदान्तोदात्तत्वं क्रियतामेकादेश इति, किमत्र कर्तव्यम् ? परत्वात्पूर्वपदान्तोदात्तत्वम् । पूर्वपदान्तोदात्तस्यावकाशः ‐ - उदश्विदुदकम् । एकादेशस्यावकाशः ‐ - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति ‐ - मथितोदकम्, गुडोदकम् । पूर्वपदान्तोदात्तत्वं भवति विप्रतिषेधेन ।। स चावश्यं विप्रतिषेध आश्रयितव्यः । (6136 विप्रतिषेधप्रयोजनवार्तिकम् ।। 11 ।।) - एकादेशे हि स्वरिताप्रसिद्धिः - एकादेशे हि स्वरितस्याप्रसिद्धिः स्यात् । यो हि मन्यते ‐ - अस्त्वत्रैकादेशः, एकादेशे कृते पूर्वपदान्तोदात्तत्वं भविष्यति ‐ - इति, स्वरितत्वं तस्य न सिध्यति ‐ - स्वरितो वाऽनुदात्ते पदादौ 8|2|6 इति । गुडोदकम्, मथितोदकम् ।। (वार्तिकावतरणेऽन्तवत्त्वप्रयोजनभाष्यम्) कृदन्तप्रकृतिस्वरत्वं च प्रयोजनम् । प्राटिता प्राशिता । कृद्गत्योरेकादेशो गतेरन्तवद्भवति । यथा शक्यते कर्तुम् ‐ - गतिकारकोपपदात्कृदन्तमुत्तरपदं प्रकृतिस्वरं भवति ‐ - इति । क्व तर्हि स्यात् ? यत्र नैकादेशः ‐ - प्रकारकः, प्रकरणम् ।। (6137 भाष्योक्तप्रयोजनान्यथासिद्धिवार्तिकम् ।। 12 ।।) - कृदन्तप्रकृतिस्वरत्वं च - कृदन्तप्रकृतिस्वरत्वं विप्रतिषेधात् । कृदन्तप्रकृतिस्वरत्वं क्रियतामेकादेश इति, किमत्र कर्तव्यम् ? कृदन्तप्रकृतिस्वरस्यावकाशः ‐ - प्रकारकः, प्रकरणम् । एकादेशस्यावकाशः ‐ - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति ‐ - प्राटिता, प्राशिता । कृदन्तप्रकृतिस्वरत्वं भवति विप्रतिषेधेन ।। स चावश्यं विप्रतिषेध आश्रयितव्यः । (6138 अन्तवत्त्वेनासिद्धिबोधकवार्तिकम् ।। 13 ।।) - एकादेशे ह्यप्रसिद्धिरुत्तरपदस्यापरत्वात् - यो हि मन्यते ‐ - अस्त्वत्रैकादेशः, एकादेशे कृते कृदन्तप्रकृतिस्वरत्वं भविष्यतीति, कृदन्तप्रकृतिस्वरत्वं तस्य न सिध्यति । किं कारणम् ? उत्तरपदस्यापरत्वात् । न हीदानीमेकादेशे कृत उत्तरपदं परं भवति । ननु चान्तादिवद्भावेन परम् । उभयत आश्रये नान्तादिवत् ।। (6139 विप्रतिषेधबोधकवार्तिकम् ।। 14 ।।) - उत्तरपदवृद्धिश्चैकादेशात् - उत्तरपदवृद्धःथ्द्य;श्चैकादेशाद्भवति विप्रतिषेधेन । उत्तरपदवृद्धेरवकाशः ‐ - पूर्वत्रैगर्तकः, अपरत्रैगर्तकः । एकादेशस्यावकाशः ‐ - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति ‐ - पूर्वैषुकामशमः, अपरैषुकामशमः । उत्तरपदवृद्धिर्भवति विप्रतिषेधेन ।। (6140 एकादेशस्यान्तरङ्गत्वबोधकवार्तिकम् ।। 15 ।।) - एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात् - एकादेशस्तु प्राप्नोति । किं कारणम् ? अन्तरङ्गबलीयस्त्वात् । अन्तरङ्गं बलीयो भवति । तत्र को दोषः ? (6141 एकादेशस्यान्तरङ्गत्वे दोषवार्तिकम् ।। 16 ।।) - तत्र वृद्धिविधानम् - तत्र वृद्धिर्विधेया ।। (एकादेशसाधकभाष्यम्) नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति ‐ - पूर्वोत्तरपदयोस्तावत्कार्यं भवति, नैकादेशः ‐ - इति, यदयम् नेन्द्रस्य परस्य 7|3|22 इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? इन्द्रे द्वावचौ । तत्रैकः यस्य ‐ - इति लोपेन ह्रियते, अपर एकादेशेन । अनच्क इन्द्रः संपन्नः । तत्र को वृद्धेः प्रसङ्गः ? पश्यति त्वाचार्यः ‐ - पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेश इति, ततो नेन्द्रस्य परस्य इति प्रतिषेधं शास्ति ।। (वार्तिकावतरणभाष्यम्) अथादिवत्त्वे कानि प्रयोजनानि ? (6142 आदिवत्त्वे प्रयोजनवार्तिकम् ।। 17 ।।) - आदिवत्त्वे प्रयोजनं प्रगृह्यसंज्ञायाम् - आदिवत्त्वे प्रगृह्यसंज्ञायां प्रयोजनम् । अग्नी इति, वायू इति । द्विवचनाद्विवचनयोरेकादेशो द्विवचनस्यादिवद्भवति । यथा शक्येत कर्तुम् ‐ - इर्दूदेदि्द्ववचनं प्रगृह्यम् 1|1|11 इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति ‐ - त्रपुणी इति, जतुनी इति ।। (6143 आदिवत्वे प्रयोजनवार्तिकम् ।। 18 ।।) - सुप्तिङाब्विधिषु - सुप्तिङाब्विधिषु प्रयोजनम् । सुप् ‐ - वृक्षे तिष्ठति, प्लक्षे तिष्ठति । सुब्सुपोरेकादेशः सुप आदिवद्भवति । यथा शक्यते कर्तुम्-सुबन्तं पदम् ‐ - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति ‐ - वृक्षस्तिष्ठति, प्लक्षस्तिष्ठति । सुप् ।। तिङ् ‐ - पचे, यजे ‐ - इति । तिङतिङोरेकादेशस्तिङ आदिवद्भवति । यथा शक्यते कर्तुम् ‐ - तिङन्तं पदम् ‐ - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति ‐ - पचति, यजति । तिङ् ।। आप् ‐ - खट्वा, माला । आबनापोरेकादेश आप आदिवद्भवति । यथा शक्यते कर्तुम् ‐ - आबन्तात्सोर्लोपो भवति ‐ - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न ‐ - कुञ्ञ्चा, उष्णिहा, देवविशा ।। (6144 आदिवत्त्वे प्रयोजनवार्तिकम् ।। 19 ।।) आङ्ग्रहणे पदविधौ प्रयोजनम् । अद्याहते, कदाहते । आङनाङोरेकादेश आङ आदिवद्भवति । यथा शक्येत कर्तुम् ‐ - आङो यमहनः 1|3|28 इत्यात्मनेपदं भवति ‐ - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न ‐ - आहते ।। (6145 आदिवत्वे प्रयोजनवार्तिकम् ।। 20 ।।) - आटश्च वृद्धिविधौ - आटश्च वृद्धिविधौ प्रयोजनम् । अद्यैहिष्ट, कदैहिष्ट । आटोऽद्यशब्दस्य चैकादेश आट आदिवद्भवति । यथा शक्येत कर्तुम् ‐ - आटश्च अचि वृद्धिर्भवति ‐ - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न ‐ - ऐहिष्ट, ऐक्षिष्ट ।। (6146 आदिवत्त्वे प्रयोजनवार्तिकम् ।। 21 ।।) - कृदन्तप्रातिपदिकत्वे च - कृदन्तप्रातिपदिकत्वे च प्रयोजनम् । धारयः, पारयः । कृदकृतोरेकादेशः कृत आदिवद्भवति । यथा शक्येत कर्तुम् ‐ - कृदन्तं प्रातिपदिकमिति । क्व तर्हि स्यात् ? यत्रैकादेशो न ‐ - कारकः, हारकः ।। (6147 अन्तादिवद्भावनिषेधवार्तिकम् ।। 22 ।।) - नाभ्यासादीनां ह्रस्वत्वे - अभ्यासादीनां ह्रस्वत्वे नान्तादिवद्भवतीति वक्तव्यम् । के पुनरभ्यासादयः ? अभ्यासोहाम्बार्थनदीनपुंसकोपर्जनह्रस्वत्वानि । अभ्यासह्रस्वत्वम् ‐ - उपेयाज, उपोवाप । उहेर्ह्रस्वत्वम् ‐ - उपोह्यते, प्रोह्यते, परोह्यते । अम्बार्थ ‐ - नदी ‐ - नपुंसक ‐ - उपसर्जनह्रस्वत्वानि ‐ - अम्बात्र, अक्कात्र । कुमारीदम्, किशोरीदम् । आराशस्त्रीदम्, धानाशष्कुलीदम् । निष्कौशाम्बीदम्, निर्वाराणसीदम् । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणाद्ह्रस्वत्वं प्राप्नोति ।। (6148 निषेधानर्थक्यबोधकवार्तिकम् ।। 23 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा एतद्वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । अन्तरङ्गं ह्रस्वत्वम्, बहिरङ्गा एते विधयः । असिद्धं बहिरङ्गमन्तरङ्गे ।। (6149 अन्तादिवद्भावनिषेधवार्तिकम् ।। 24 ।।) - वर्णाश्रयविधौ च - वर्णाश्रयविधौ च नान्तादिवद्भवतीति वक्तव्यम् । किं प्रयोजनम् ? (6150 अन्तादिवद्भावनिषेधप्रयोजनवार्तिकम् ।। 25 ।।) - प्रयोजनं खट्वाभिर्जुहावास्या अश्व इति - इह ‐ - खट्वाभिः, मालाभिः ‐ - अतो भिस ऐस्भवतीत्यैस्भावः प्राप्नोति । नैष दोषः । तपरकरणसार्मथ्यान्न भविष्यति । अस्त्यन्यत् तपरकरणे प्रयोजनम् । किम् ? कीलालपाभिः, शुभंयाभिः ।। जुहाव ‐ - आत औ णलः 7|1|34 इत्यौत्वं प्राप्नोति ।। अस्या अश्व इति ‐ - एङः पदान्तादति 6|1|109 इति पूर्वत्वं प्राप्नोति ।। (6151 निषेधप्रत्याख्यानवार्तिकम् ।। 26 ।।) - न वाऽताद्रूप्यातिदेशात् - न वा वक्तव्यम् । किं कारणम् ? अताद्रूप्यातिदेशात् । न हि ताद्रूप्यमतिदिश्यते । रूपाश्रया वा एते विधयः, अताद्रूप्यान्न भविष्यन्ति ।।