Page loading... Please wait.
6|1|78 - एचोऽयवायावः
॥ तस्मै पाणिनये नमः ॥
6|1|78
SK 61
एचोऽयवायावः   🔊
सूत्रच्छेदः
एचः (षष्ठ्येकवचनम्) , अय्-अव्-आय्-आवः (प्रथमाबहुवचनम्)
अनुवृत्तिः
अचि  6|1|77 (सप्तम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
एचः अचि अय्-अव्-आय्-आवः
सूत्रार्थः
एच्-वर्णानाम् स्थाने संहितायाम् स्वरे परे (क्रमेण) अय्-अव्-आय्-आव्- एते आदेशाः भवन्ति ।
एच्-प्रत्याहारे चत्वारः वर्णाः आगच्छन्ति - ए, ओ, ऐ, औ ।
स्वरे परे एतेषां स्थाने यथासङ्ख्यमनुदेशः समानाम् 1|3|10 इत्यनेन क्रमेण अय्, अव्, आय्, आव् - एते आदेशाः भवन्ति ।

यथा -
1) एकारस्य स्थाने अय्-आदेशः - मते + इति = मत् अय् + इति = मतयिति ।
2) ओकारस्य स्थाने अव्-आदेशः - धेनो + इति = धेन् अव् + इति = धेनविति ।
3) ऐकारस्य स्थाने आय्-आदेशः - वन्दै + इति = वन्द् आय् + इति = वन्दायिति ।
4) औकारस्य स्थाने आव्-आदेशः - बालौ + इति = बाल् आव् + इति = बालाविति ।

ज्ञातव्यम् - एतेषु सर्वेषु आदेषेषु अन्तिमवर्णस्य इत्संज्ञा उच्चारणसामर्थ्यात् न भवति ।
One-line meaning in English
When followed by a स्वर, the letters of the एच् प्रत्याहार are respectively converted to अय्, अव्, आय् and आव्.
काशिकावृत्तिः
एचः स्थाने अचि परतः अयवायावित्येते आदेशाः यथासङ्ख्यम् भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि।
`कयेते, ययेते` इति। के+एते, ये+एत इति स्थितेऽयादेशः। `वायाववरुणद्धि` इति। वायौ+अवरुणद्धीति स्थित आवादेशः॥
कस्य पुनरयं वान्तादेशः ? एच इति वर्तते। यद्येवमेदैतोरपि प्राप्नोति--चेयम्, जेयम्, रैयतीति? एवं तर्हि वान्तग्रहणं न करिष्यते, ठेचोऽयवायावःऽ इत्येव। इहापे तर्ह्यादेशः प्राप्नोति--चेयम्, जेयमिति? ठ्क्षय्यजय्यौ शक्यार्थेऽ, र्ठ्क्य्यस्तदर्थेऽ इत्येतन्नियमार्थं भविष्यति--एचौ यदि भवति क्षिज्योरेवेति। एवमपि रैयतीत्यत्रायादेशः प्राप्नोति? रैशब्दश्छान्दसः, ठ्दृश्टानुविधिश्च्छन्दसिऽ। भाषायां तु रैशब्दप्रयोगो भाष्यविरोधादसाधुः। यद्वैवं नियम आश्रयिष्यते--अनौष्ठस्य यदि भवति क्षिज्योरेवेति; ततः ठ्शक्यार्थेऽ इति द्वितीयो योगः, क्षिज्योरपि शक्यार्थ एवेति ? सिध्यति; सूत्रस्य तु को निर्वहः ? उच्यते; वान्तशब्दोऽयं सन्निहिते वान्ते वर्तते, न यत्र कुत्रचित्; सन्निहितश्चौदौत्स्थानिकः पूर्वत्र, यथासंख्यासम्बन्धात्। तत्र यथा यः कश्चन वान्तादेशो न भवति, तथान्यस्थानिको न भविष्यति; विशिष्टस्यैव सन्निधानात्। तदिदमुक्तम्--योऽयमेचः स्थाने इति। बाभ्रव्य इति। ठ्मधुबभ्रवोर्ब्राह्मणकौशिकयोःऽ इति यञ्। मण्कडुशब्दो गर्गादि। शङ्कुपिचुशब्दाभ्याम् ठ्तदर्थं विकृतेः प्रकृतौऽ इत्यत्रार्थे ठुगवादिभ्यो यत्ऽ । नावा तार्यं नाव्यम्, नौवयोधर्मऽ इत्यादिना यत्। अध्वपरिमाणे चेति। भाषार्थमिदम्। गव्यूतिःउक्रोशयुगम् ॥ धातौस्तन्निमितस्यैव॥ धातोरिति किमिति। न तावदविशेषेण नियमप्रसङ्गः-- यि प्रत्यये यदि भवति तन्निमितस्यैवेति; एवं हि ठ्वान्तो यि प्रत्यये तन्निमितस्यऽ इति विशिष्टविधिराश्रयणीयः, योगविभाग एवकारो नियम इति सर्वमेतदनर्थकमापद्येत। तस्मादसत्यपि धातुग्रहणे विशिष्टविषयो नियमो भविष्यतीति प्रश्नः। स तु विशिष्टो विषयः प्रातिपदकमपि सम्भाव्येतेत्युतरम्। वाभ्रव्य इत्यत्रैव स्यादिति। एचस्तन्निमितत्वात्। अत्र न स्यादिति। विपर्ययात्। उपोयत इति। वेञःकर्मणि लट, आत्मनेपदम्, यक्, यज्ञादित्वात्संप्रसारणम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः, ठाद्गुणःऽ, तस्य परं प्रत्यादिवद्भावाद्धातुग्रहणेन ग्रहणम्। ओयते इति। कर्मण्येव लङ्। लौयमानिरिति। ठत इञ्ऽ आदिवृद्धिः। ननु चात्र गुणः पदद्वयापेक्षत्वाद्बहिरङ्गः, वृद्धिरपि बाह्यतद्धितापेक्षत्वाद्बहिरङ्गैव ? सत्यम्; औयतेत्यत्रैतदुभयं नास्ति, तदर्थमवश्यं योग आरब्धव्यः, आरब्धेनैव सिद्धत्वादुपोयते इत्यादिकं प्रत्युदाहृतम्। एवकारकरणं किमिति। सिद्धे सत्यारम्भो नियमार्थत्वे हेतुः, न त्वेवकारकरणमपीति प्रश्नः। इष्टतोऽवधारणार्थ इत्युतरम् ॥
सिद्धान्तकौमुदी
एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥
एचोऽयवायावः - एचोऽयवायावः । अय्च अव्च आय्च आव्चेति विग्रहः । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासंख्यपरिभाषया एकारस्य अय्, ओकारस्य-अव्, ऐकारस्य-आय्, औकारस्य-आविति लभ्यते । तदाह — एचः क्रमादिति । यथासंख्यसूत्रभाष्यरीत्या त्वन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह "इचोऽचि यणयवायाव" इत्येव सूत्रयितुमुचितम् ।
एचोऽयवायावः - एचः क्रमादिति । नन्वत्रैव यथासङ्ख्यसूत्रं वक्तुमुचितम् । प्रत्याहारग्रहणेषुतद्वाच्यवाच्ये निरूढलक्षाभ्युपगमेऽपि लक्ष्यार्थबोधात्पूर्वभाविशक्यार्थज्ञानमादाय यथासङ्खयत्वस्यावश्यं वक्तव्यत्वात् । अन्यथा एचां क्रमेणायवायावो न सिध्येरन् । मैवम् । अन्तरतमत्वेनापि तत्सिद्धेः । तथाहि एचः सन्ध्यक्षराणि । ततश्च संवृताकारतालव्यस्य एकारस्य संवृताकारतालव्योऽय्, संवृताकारोष्ठस्य ओकारस्य तादृश एव अव्, ऐचश्चोत्तरभूयस्त्वादैकारे इकारोऽध्यर्थमात्रः, अकारस्त्वर्धमात्र एव । एवमोकारेऽप्युकारोऽध्यद्र्धमात्रः, अकारस्त्वर्धमात्रः । एवंच विवृताकारतालव्यस्य ऐकारस्य विवृताकारतालव्य आय् । विवृताकारौष्ठ आव्॥
लघुसिद्धान्तकौमुदी
एचः क्रमादय् अव् आय् आव् एते स्युरचि॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.