Page loading... Please wait.
6|1|77 - इको यणचि
॥ तस्मै पाणिनये नमः ॥
6|1|77
SK 47
इको यणचि  
सूत्रच्छेदः
इकः (षष्ठ्येकवचनम्) , यण् (प्रथमैकवचनम्) , अचि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|71
सम्पूर्णसूत्रम्
इकः यण् अचि संहितायाम्
सूत्रार्थः
इक्-वर्णस्य स्थाने स्वरे परे संहितायाम् यण्-वर्णादेशः भवति ।
इक् प्रत्याहारे चत्वारः वर्णाः समाविश्यन्ते - इ, उ, ऋ, ऌ ।
यण् प्रत्याहारे अपि चत्वारः वर्णाः समाविश्यन्ते - य्, व्, र्, ल् ।
इक्-वर्णानाम् स्थाने स्वरे परे यथासङ्ख्यमनुदेशः समानाम् 1|3|10 इत्यनेन क्रमेण यण्-वर्णादेशाः भवन्ति ।

यथा -
1. इकारस्य स्थाने यकारः - पाणि + अत्र → पाण् य् + अत्र → पाण्यत्र ।
2. ईकारस्य स्थाने यकारः - नदी + अत्र → नद् य् + अत्र → नद्यत्र ।
3. उकारस्य स्थाने वकारः - मधु + इति → मध् व् + इति → मध्विति ।
4. ऊकारस्य स्थाने वकारः - वधू + आदेश = वध् व् + आदेश → वध्वादेश ।
5. ऋकारस्य स्थाने रेफः - पितृ + इच्छा = पित् र् + इच्छा = पित्रिच्छा ।
6. ऌकारस्य स्थाने लकारः - ऌ + आकृति = ल् आकृति = लाकृति ।

ज्ञातव्यम् -
1. इक्-वर्णात् परस्य सवर्णे इक्-वर्णे परे परत्वेन अपवादत्वेन च अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घम् भवति ।
2. अत्र इक्-वर्णेन सर्वेषाम् सवर्णानाम् ग्रहणम् भवति, परन्तु यण्-वर्णेन सवर्णग्रहणं न भवति, यतः यण्-वर्णः अत्र "विधीयमानः" अस्ति । अस्मिन् विषये अणुदित्सवर्णस्य चाप्रत्ययः 1|1|69 इत्यत्र विस्तारेण उक्तम् अस्ति ।
One-line meaning in English
An इक् letter which is followed by a स्वर is converted to a corresponding यण् letter.
काशिकावृत्तिः
अचि परतः इको यणादेशो भवति। दध्यत्र। मध्वत्र। कर्त्रर्थम्। लाकृतिः। इकः प्लुतपूर्वस्य सवर्नदीर्घबाधनार्थं यणादेशो वक्तव्यः। भो3इ इन्द्रम्। भो3यिन्द्रम्। अचि इति च अयम् अधिकारः संप्रसारणाच् च 6|1|108 इति यावत्।
`इको यणादेशो भवति` इति। इकां यणां च साम्यात्? यथासंख्यं भवतीति वेदितव्यम्। यश्च सवर्णोऽच्? तत्र दीर्घविधानसामथ्र्यात्? असवर्णेऽचि यणादेशो विज्ञायत इति। इक इति किम्? वागत्रेत्यत्र कुत्वादेव सिद्धत्वाद्यणादेशो मा भूदिति। अचीति किम्? दधि करोति। `प्लुतपूर्वस्य` इति। प्लुतः पूर्वो यस्मात्? स प्लुतपूर्वः। वक्तव्यः=व्याख्येयः। तत्रेदं व्याख्यानम्--`इको यणचि` इत्यत्र तन्त्रेण द्वौ योगावृच्चारितौ; तत्रैको यणादेशार्थः, अपरस्त्विकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थो भविष्यतीति। भो यिदम्--भो+इ+इदमिति स्थिते `गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम्` 8|2|86 इत्यनेन दूराद्धूतेऽर्थे भोशब्दस्य प्लुतः कृतः, ततः सवर्णदीर्घत्वे प्राप्ते यणादेशः॥
इको यणादेशो भवतीति। इकां यणां च साम्याद्यथासंख्यं भवति, आन्तर्यतो वा व्यवस्था। इक इति किम्? व्यञ्जनस्य मा भूत्--वाग्रत्र। कुत्वजश्तवयोरसिद्धत्वाच्छकारस्य यकारः प्राप्नोति। यत्र च कुत्वादेरप्रसङ्गोऽपदान्ते पचतीति, तत्रापि प्रसङ्गः? नैष दोषः; ठ्दीर्घात्ऽ इति वर्तेते, तच्च तत्रैव पञ्चमीनिर्द्देशेऽपि स्थानिबूतमिहापि तथैवानुवर्तते। यदि दीर्घस्य यण् भवति, कथं दध्यत्र मध्वत्रेति, ठ्ह्रस्वस्यऽ इत्येतदप्यनुवर्तते, तदेवं ह्रस्वदीर्घयोर्यण्विधानान्न व्यञ्जनस्य प्रसङ्ग ? प्लुतस्य च प्रकृतिभावेन भवितव्यम्, चयनम्, चायक इत्यादावेचामयादयोऽपवादाः, नाप्राप्ते तस्मिंस्तदारम्भात् ? देवेन्द्रः, खट्वौदनमित्यादौ गुणवृद्धी बाधिके भविष्यतः, यथा--सत्यपीग्ग्रहणे दधीन्द्रादौ सवर्ण दीर्घत्वम्, अतो नार्थ हग्ग्रहणेन ? इदं तर्हि प्रयोजनम्--इको यणेवाचि यथा स्याद्, यद्यदन्यत्प्राप्नोति तन्मा भूदिति। किञ्चान्यत् प्राप्नोति ? शाकल्म्। न च तस्याप्यत्यन्तबाधः; आरम्भसामर्थ्यात्। एवं सति सिन्नित्यसमासयोः शाकलप्रतिषेध इति यत्पूर्वाचार्यैः स्मर्यते तदनेनेग्ग्रहणेन सम्पाद्यते। इकः प्लुतपूर्वस्येति। प्लुतः पूर्वो यस्मात्स तथोक्तः, प्लुतात्परस्येत्यर्थः। भो 3 इ इन्द्रेति। भो अ इ अ इन्द्र इति स्थिते भोशब्दस्य गीतिवशात् प्लुतः, इकारः स्वरादिपाठान्निपात प्रगृह्यसंज्ञकः, तस्य प्रकृतिभावे प्राप्ते यण्विधीयते, सवर्णदीर्घबाधनार्थमित्येतत्वाद्यप्राप्त्यभिप्रायेणोक्तम्। प्लुतपूर्वस्येति। प्लुतग्रहणमपि मात्रिकद्विमात्रिकव्यतिरिक्ताच्परिग्रहार्थम्, तेन चतुर्मात्रादावपि भवति, तथा च च्छन्दोगा गायन्ति, सामन्येव चायमिष्यते, भोयिन्द्रं गायतीत्येतदपि सामगस्यानुकरणम्। एवं तावद्भाष्ये स्थितम्, वृतावप्येवमेव द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
॥ अथ अच्सन्धिप्रकरणम्‌ ॥

इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते ॥
इको यणचि - इको यणचि । "इक" इति षष्ठी । अतःषष्ठी स्थानेयोगे॑ति परिभाषया स्थान इति लभ्यते । स्थानं प्रसङ्ग इत्युक्तम् । वर्णानां वर्णान्तराधिकरणत्वाऽसम्भवात्, अचीति सतिसप्तमी ।तस्मिन्निति निर्दिष्टे पूर्वस्ये॑ति परिभाषाया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवं चाऽचि परत इत्यर्थलभ्यम् । संहितायामित्यधिकृतम् । ततश्चार्धमात्राधिककालव्यवधानाऽभावो लभ्यते । एवं च फलितमाह-इकः स्थान इत्यादिना । इदं च सूत्राक्षरानुसारिप्राचीनमतानसारेण ।संहिताया॑मिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरणे अचीति सप्तमीं तस्मिन्नित्यनेनाश्रित्य संहिताधिकारः प्रत्याख्यातः । इत्थं हि तत्र भाष्यम् -अयं योगः शक्योऽवक्तुम् । कथम् । अधिकरणं नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात् । इको यणचि अच्युपश्लिष्टस्येति । तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यती॑ति । उप=समीपे श्लेषः=संबन्धः-उपश्लेषः, तत्कृतमधिकरणमौवश्लेषिकं सामीपिकमिति यावत् । एवं चाऽच्समीपवर्तिन इक इति फलति । सामीप्यं च कालतो वर्णतश्च व्यवधानाऽभावः । एवं चाऽसंहितायामुक्तसामीप्याऽभावादेव यणभावसिद्धेः संहिताधिकारो न कर्तव्य इति भाष्यार्थः । एवं च तुस्यन्यायात्तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकरणे सप्तमी । ततश्चाऽचीत्यादिसप्तम्यन्तार्थेऽकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः । फलति । नत्वव्यवहितोच्चारिते इत्यव्यवहितत्वविशेषणमुच्चारिते देयम्, सामीपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधानाऽभावात्मकत्वात् । एवं च तत्र नैरन्तर्यार्थं निग्र्रहणं न कर्तव्यम् । इदं चस्नुक्रमो॑रिति सूत्रे, "तत्र च दीयते" इति सूत्रे च कैयटे सपष्टम् । अधिकरणत्रैविध्यं तु कारकाधिकारेआधारोऽधिकरण॑मित्यत्र स्पष्टीकरिष्यते । सुधी इति । ध्यै चिन्तायामिति धातोध्र्यायतेः सम्प्रसारणं चेति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे हलश्चेति दीर्घे च धीशब्दः । सुष्ठु ध्यायन्तीति सुधियः । सु=शोभना धीर्येषामिति वा सुधियः । सुधीभि रूपास्य इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः ।सुपो धातुप्रातिपदिकयो॑रिति भिसो लुक् ।सुधी उपास्य इति स्थिते ईकारस्य यकार इत्यन्वयः । प्रत्याह#आरेषु तद्वाच्यवाच्येषु लक्षणा नाज्झलाविति सूत्रे प्रपञ्चिता । तत्स्फोरणाय ईकार उदाह्मतः । ननु ईकारस्य वरलाः कुतो न स्युः, यण्त्वाऽविशेषांदित्यत आह-स्थानत आन्तर्यादिति । तालुस्थानकत्वसाम्यादीकारस्य स्थाने स्थानेऽन्तरतम इति यकार एव भवति; न तु वरलाः, भिन्नस्थानकत्वादित्यर्थः । अत एवयथासंख्यमनुदेशः समाना॑मिति सूत्रे भाष्यं-किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्ध॑मिति । "स्थानेऽन्तरतम" इति सूत्रभाष्ये तुकिमिहोदाहरणम् । इको यणचि । दध्यत्र नैतदस्ति । संख्यातानुदेशेनाप्येतत्सिद्ध॑मित्युक्तम् । यथासंख्यसूत्रेणेत्यर्थः । नन्विह यण्शब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्रन्ते, यणो भाव्यमानतया तेन सवर्णानां ग्रहणाऽभावात् । गुणानामभेदकत्वेऽपि यवलाः षट् रेफश्चेति सप्त गृह्रन्ते । इक्शब्देन तु षट्षष्टिर्गृह्रत इति विषमसंख्याकत्वात्कथमिह यथासंख्यसूत्रप्रवृत्तिरिति चेन्न, इक्त्वयण्त्वादिनाऽनुगतीकृतानां समत्वात् । ननु ऋलवर्णाभ्यां प्रत्येकं तिंरशदुपस्थितौ लृवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्ग इति न यथासंख्यसूत्रेण निर्वाह इति चेत्, श्रृणु-ऋत्वावच्छिन्नस्य रेफो भवति, लृत्त्वावच्छिन्नस्य लकारो भवतीति यथासंख्यसूत्राल्लभ्यते । ऋत्वजातिश्च न लृवर्णेषु । लृत्वजातिश्च न ऋवर्णेषु । ऋलृवर्णयोः सावण्र्यविधिबलात्तु ऋत्वम् लृकारे, लृत्वमृकारे च आरोप्यते कार्यार्थम् । एवं च वास्तवमृत्वं लृत्वं च आदायात्र यथासंख्यप्रवृत्तिर्निर्बाधेत्यास्तां तावत् ।
इको यणचि - इकोयणचि । प्रत्याहारग्रहणेषु तद्वाच्यवाच्ये निरूढा लक्षणा,यूस्त्र्याख्यौ॑ल्वादिभ्यः॑ इति च निर्देशात् । तेन इक्शब्देन षट्षष्टिर्गृह्रन्ते, यण्शब्देन चत्वारः, भाव्यमानस्याऽणः सवर्णाग्राहकत्वात् । एवं चेह यणि तद्वाच्यवाच्ये लक्षणा तु न शङ्क्यैव, भाव्यमानस्याऽणः सवर्णग्राहकत्वाऽभावेन यण्वाच्ययकारादिवाच्यानामभावात् । अतो नास्ति यथासङ्ख्यम् । न च लक्ष्यार्थबोधात्पूर्वभाविनं शक्यार्थज्ञानमादाय यथासङ्ख्यमस्त्विति वाच्यम्; एवमपि तृतीयचतुर्थाभ्युमृकारलृकाराभ्यां प्रत्येकं तिंरशदुपस्थितौ लृवर्णानां रेफादेशस्य, ॠवर्णानां लादेशस्य च प्रसङ्गात् । तस्मादिहस्थानेऽन्तरतमः॑ इति सूत्रेणैवेष्टसिद्धिरित्यनुपदं वक्ष्यति-॒स्थानत आन्तर्या॑दिति । अचीति ।कस्मादचि परे॑ इत्याकाङ्क्षायामर्थादिक इति संबध्यते । संहितायां विषय इति ।दध्यत्रे॑-त्यादौ कार्यिनिमित्तयोर्यदाऽतिशयितसंनिधिर्विवक्ष्यते तदैव यण्भवतीति भावः ।
लघुसिद्धान्तकौमुदी
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥
महाभाष्यम्
इको यणचि (2514) (यणोऽधिकरणम्) (पदकृत्यभाष्यम्) इग्ग्रहणं किमर्थम् ? इह मा भूत् ‐ - अग्निचिदत्र, सोमसुदत्र । नैतदस्ति प्रयोजनम् । जश्त्वमत्र बाधकं भविष्यति ।। (प्रत्याक्षेपकश्लोकभाष्यम्) जश्त्वं न सिद्धं यणमत्र पश्य असिद्धमत्र जश्त्वं तस्यासिद्धत्वाद्यणादेशः प्राप्नोति ।। (अतिव्याप्तिदर्शकश्लोकभाष्यम्) यश्चापदान्तो हलचश्च पूर्वः । यश्चापदान्तो हल् अचश्च पूर्वस्तस्य प्राप्नोति । पचतीति ।। एवं तर्हि ‐ - (अतिव्याप्तिवारकश्लोकभाष्यम्) दीर्घस्य यण् दीर्घस्य यणादेशं वक्ष्यामि । तद्दीर्घग्रहणं कर्तव्यम् । न कर्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम् ? दीर्घात् ‐ - पदान्ताद्वा (75;76) इति । तद्वै पञ्चमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । अचीत्येषा सप्तमी दीर्घादिति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य 1|1|66 इति ।। भवेत्सिद्धम् ‐ - कुमार्यत्र, ब्रह्मबन्ध्वर्थमिति । इदं तु न सिध्यति ‐ - दध्यत्र, मध्वत्रेति ।। (अतिव्याप्तिवारकश्लोकभाष्यम्) ह्रस्व इति प्रवृत्तं ह्रस्वग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? ह्रस्वस्य पिति कृति (71) इति । यदि तदनुवर्तते दीर्घात्पदान्ताद्वा ह्रस्वस्य ‐ - इति ह्रस्वादपि पदान्ताद्विकल्पेन प्राप्नोति ।। (दोषवारकश्लोकभाष्यम्) संबन्धवृत्त्या संबन्धमनुवर्तिष्यते ‐ - ह्रस्वस्य पिति कृति तुक् (71) । संहितायाम् (72) ह्रस्वस्य पिति कृति तुक् । छे च (73) ह्रस्वस्य पिति कृति तुक् । आङ्माङोश्च (74) ह्रस्वस्य पिति कृति तुक् । दीर्घात्पदान्ताद्वा (75-76) ह्रस्वस्य पिति कृति तुक् । ततः इको यणचि ह्रस्वस्येति वर्तते, पिति कृति तुगिति निवृत्तम् ।। इह तर्हि प्राप्नोति ‐ - चयनम्, चायकः, लवनम्, लावकः । अयादयोऽत्र बाधका भविष्यन्ति ।। इह तर्हि प्राप्नोति ‐ - खट्वेन्द्रः, मालेन्द्रः, खट्वैलका, मालैलका । (अतिव्याप्तिवारकश्लोकभाष्यम्) गुणवृद्धिबाध्यम् ।। गुणवृद्धी अत्र बाधिके भविष्यतः । इदं तर्हि प्रयोजनम् ‐ - इकोऽचि यणेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति । किं चान्यत्प्राप्नोति ? शाकलम् । सिन्नित्यसमासयोः शाकलप्रतिषेधं चोदयिष्यति स न वक्तव्यो भवति ।। (6107 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।) - यणादेशः प्लुतपूर्वस्य च - यणादेशः प्लुतपूर्वस्य चेति वक्तव्यम् । अग्ना3इ इन्द्रम् ‐ - अग्ना3यिन्द्रम् । पटा3उ उदकम् ‐ पटा3वुदकम् । अग्ना3इ आशा ‐ अग्ना3याशा । पटा3उ आशा ‐ - पटा3वाशा ।। किं पुनः कारणं न सिध्यति ? असिद्धः प्लुतः, प्लुतविकाराविमौ ।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते ? यदयं प्लुतप्रगृह्या अचि ‐ - 6|1|125 इति प्लुतस्य प्रकृतिभावं शास्ति तज्ज्ञापयत्याचार्यः ‐ - सिद्धः प्लुतः स्वरसन्धिष्विति । कथं कृत्वा ज्ञापकम् ? सतो हि कार्यिणः कार्येण भवितव्यम् ।। इदं तर्हि प्रयोजनम् ‐ - (6108 उपसंख्यानप्रयोजनवार्तिकम् ।। 2 ।।) - दीर्घशाकलप्रतिषेधार्थम् - दीर्घत्वं शाकलं च मा भूदिति ।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) एतदपि नास्ति प्रयोजनम् । आरभ्यते प्लुतपूर्वस्य यणादेशः ‐ - तयोर्य्वावचि संहितायाम् 8|2|108 इति, तदेव दीर्घशाकलप्रतिषेधार्थं भविष्यति ।। तन्न वक्तव्यं भवति ।। ननु च च तस्मिन्नप्युच्यमाने इदं न वक्तव्यं भवति । अवश्यमिदं वक्तव्यं यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थम् । भो3 इ इन्द्रम् ‐ - भो3 यिन्द्रम् । भो3 इ इह ‐ - भो3 यिहेति ।। यदि तर्ह्यस्य निबन्धनमस्ति, इदमेव वक्तव्यम् । तन्न वक्तव्यम् । तदप्यवश्यं स्वरार्थं वक्तव्यम् । अनेन हि सति उदात्तस्वरितयोर्यणः ‐ - 8|2|4 इत्येष स्वरः प्रसज्येत । ते पुनः सत्यसिद्धत्वान्न भविष्यति ।। यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यम्, इदं न वक्तव्यम् । ननु चोक्तम् ‐ - इदमप्यवश्यं वक्तव्यम्, यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थम् ‐ - भो3 यिन्द्रम्, भो3 यिहेति । छान्दसमेतत् । दृष्टानुविधिश्छन्दसि भवति । यत्तर्हि न छान्दसम् ‐ - भो3यिन्द्र भो3यिहेति साम गायति । एषोऽपि छन्दसि दृष्टस्यानुप्रयोगः क्रियते ।। जश्त्वं न सिद्धं यणमत्र पश्य यश्चापदान्तो हलचश्च पूर्वः । दीर्घस्य यण् ह्रस्व इति प्रवृत्तं संबन्धवृत्त्या गुणवृद्धिबाध्यम्।। 1 ।। नित्ये च यः शाकलभाक्समासे तदर्थमेतद्भगवांश्चकार । सार्मथ्ययोगान्नहि किंचिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात् ।। 2 ।।