Page loading... Please wait.
6|1|73 - छे च
॥ तस्मै पाणिनये नमः ॥
6|1|73
SK 146
छे च   🔊
सूत्रच्छेदः
छे (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
तुक्  6|1|71 (प्रथमैकवचनम्) , ह्रस्वस्य  6|1|71 (षष्ठ्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
ह्रस्वस्य छे तुक् संहितायाम्
सूत्रार्थः
ह्रस्वस्वरस्य संहितायाम् छकारे परे तुक्-आगमः भवति ।
ह्रस्वस्वरात् परः छकारः आगच्छति चेत् ह्रस्वस्वरस्य तुक्-आगमः भवति । आद्यन्तौ टकितौ 1|1|46 इत्यनेन अयम् आगमः स्थानिनः अनन्तरम् आगच्छति ।

यथा - स्व + छाया
→ स्वत् + छाया [छे च 6|1|73 इति तुगागमः]
→ स्वद् + छाया [झलां जशोऽन्ते 8|2|39 इति जश्त्वम्]
→ स्वज् + छाया [स्तोः श्चुना श्चुः 8|4|40 इति श्चुत्वम् ]
→ स्वच् + छाया [खरि च 8|4|55 इति चर्त्वम् ]
→ स्वच्छाया

अस्याम् प्रक्रियायाम् स्वज् + छाया इत्यत्र अनचि च 8|4|47 इत्यनेन विकल्पेन द्वित्वं कृत्वा "स्वज्ज्छाया" इति प्राप्ते, अग्रे खरि च 8|4|55 इति चर्त्वम् कृत्वा "स्वच्च्छाया" इत्यपि सिद्ध्यति । ततः झरो झरि सवर्णे 8|4|65 इत्यनेन चकारस्य विकल्पेन लोपे कृते पुनः "स्वच्छाया" इति अपि रूपं सिद्ध्यति ।

ज्ञातव्यम् - अनेन सूत्रेण निर्दिष्टः तुगागमः नित्यं भवति, विकल्पेन न । अतः स्व + छाया" इत्यस्य समस्तपदम् "स्वच्छाया" इत्येव भवति, "स्वछाया" इति न ।

अत्र वार्तिकमेकं ज्ञातव्यम् - विश्वजनादीनां छन्दसि वा तुगागमो भवति इति वक्तव्यम्। । "विश्वजन" शब्दस्य विषये वेदेषु अयं तुगागमः विकल्पेन भवति । यथा - "विश्वजनछत्रम्" अयं प्रयोगः अपि दृश्यते ।
One-line meaning in English
A ह्रस्व स्वर gets a तुक्-आगमः when followed by a छकार when संहिता is present.
काशिकावृत्तिः
ह्रस्वस्य तुकिति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति। इच्छति। यच्छति। ह्रस्व एव अत्र आगमी, न तु तदन्तः। तेन चिच्छदतुः, चिच्छिदुः इत्यत्र तुकभ्यासस्य ग्रहणेन न गृह्यते इति हलदिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवति इति।
`छे` इति यद्यप्यकारवतश्छकारादेषा सप्तमी तथापि च्छकार एव केवलस्तुको निमित्तम्, अकारस्तूच्चारणार्थः। एतच्च `इजादेश्च गुरुमतोऽनृच्छः` 3|1|36 इत्याम्प्रतिषेधादवसीयते। यदि ह्रकारसहितश्छकारस्तुको निमित्तं स्यात्, तदा ऋच्छेस्तुगभावादसति गुरुमत्वं आमः प्रसङ्गो नास्तीति प्रतिषेधं न कुर्यात्। `इच्छति` इति। `इषुगमियमां छः` 7|3|77 तुक्? चुत्वम्। पूर्वस्मस्तुग्विधौ ह्यस्वान्त आगमी, अतः स एवात्रागमीति कस्य चिद्? भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`ह्यस्व एव` इत्यादि। एवं मन्यते--ह्यस्वानुकर्षणार्थश्चकारोऽत्र क्रियते--ह्यसव एवागमी यथा स्यात्, तदन्तो मा भूदित्येवमर्थम्`; अन्यथा स्वरितत्वादनन्तरत्त्वाच्च पूर्वसूत्रे य आगमी, स एवेहापि विज्ञास्यत इत्यनर्थकश्चकारः स्यात्, ह्यस्व एवागमिनि सति किमिष्टं सिध्यति, यतस्तदर्तोऽयं यत्नः क्रियते? इत्याह--`तेन` इत्यादि। यदि ह्यस्वान्तस्य तुक्? स्यात्? तदा चिच्छिदतुरित्यादौ तस्याभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। ह्यस्वे त्वागमिनि नायमभ्यासस्य हलिति न भवत्येव दोषः। कथं पुनह्र्यस्व आगमिनि तुगब्यासग्रहणेन गृह्रते? इत्याह--`नावयवावयवः` इत्यादि। इतिकरणो हेतौ। यस्मादवयवस्य योऽवयवः स समुदायस्यावयवो न भवति। तस्मात्? ह्यस्व एवागमिनि तुकोऽभ्यासग्रहणेन न ग्रहणं भवति। नावयवावयवः समुदायस्यावयवो भवतीत्यत्र चैतत्? सूत्रविहितस्तुगित्याभिप्रायो वेदितव्यः। यदि ह्रविशेषेणावयवावयवः समुदायावयवो न स्यात्, एवं सति `शेरते` इत्यत्र रुङागमः सावैधातुकस्याव्यवस्य झादेशस्यातोऽवय इति सोऽपि समुदायस्य सार्वधातुकस्यावयवो न स्यात्। ततः `शीङः सार्वधातुके गुणः` 7|4|21 इति गुणो न स्यात्; रुटा सार्वधातुकस्य व्यवहितत्वात्? स ह्रवयव उक्तस्तमेव व्यवदध्यात्, स समुदायं तु न व्यवदधात्येव। तस्मात्? पूर्वोक्त एवाभिप्रायो वृत्तिकारस्य वेदितव्यः। कस्मात्? पुनरेतत्? सत्रविहितोऽवयवावयवः समुदायस्यावयवो न भवति? ह्यस्वानुकर्षणार्थचकारकरण सामथ्र्यात्। स हि चकारो ह्यस्वानुकर्षणार्थ एवमर्थः क्रियते--ह्यस्वमात्र आगमिनि तुकोऽभ्यासग्रहणेनाग्रहणाद्धलादिशेषेण निवृत्तिर्मा भूदिति। यदि चैतत्सूत्रविहितोऽप्यवयवायवः समुदायावयवः स्यात्, तदा ह्यस्वेऽप्यागमिनि तुकस्तु तदवयवयस्याप्यभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्त्या भवितव्यमिति चकारो ह्यस्वानुकर्षणार्थो निष्फलः स्यात्। तस्मादयमेव तुगवयवावयवः समुदायावयवो न भवति, अन्यस्तु भवत्येव। युक्तं चैतत्। तथा हि बाहोर्योऽवयवो हस्तः स देवदत्तस्याप्यवयवो भवत्येव, अन्यथा हस्तावन्? देवदत्त इति प्रयोगो न स्यात्।
च्छकारेकार उच्चारणार्थः, ठ्विदिभिदिच्छिदेःऽ, ठ्शाच्छाएरन्यतरस्याम्ऽ इत्यादिर्निर्द्देशात्। अधिकारे द्वौ पक्षौ--अर्ताधिकारः, शब्दाधिकार इति। तत्राद्ये पक्षे पूर्वसूत्रे कृताक्षिप्तस्य धातेर्ह्रस्वेन विशेषणातदन्तं ह्रस्वशब्देन प्रत्यायितमिति इहापि तदन्तस्यैव ग्रहणं स्यात्। शब्दाधिकारे तु ह्रस्वशब्द एवात्रानुवर्तते, न पूर्वः प्रकृतोऽर्थः, न चेह किञ्चिद्विशेष्यमस्तीति तदन्तविध्यभावाद् ह्रस्व एवागमी भवति। तत्रेह द्वितीयः पक्ष आश्रित इत्याह--ह्रस्व एवात्रागमीति। किमेवं सति सिद्धं भवति? तत्राह--तेनेति। यदि तु ह्रस्वान्तस्य तुक् स्यात्, तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। ह्रस्वमात्रे त्वागमिनि नायमभ्यासस्यावयवो हलिति न भवत्येष प्रसङ्गः। कथं पुनर्ह्रस्व अगमिनि गुगभ्यासग्रहणेन न गृह्यत इत्यत आह--नावयवावयव इति। इतिकरणो हेतौ। यद्यवयवावयवस्समुदायावयवो न भवति, एवं तर्हि शेरत इत्यत्र रूडागमः सार्वधातुकावयवस्यादादेशस्यावयव इति सोऽपि सार्वधातुकस्य समुदायस्यावयवो न स्यात्। तत्र को दोषः ? ठ्शीङ्ः सार्वधातुके गुणःऽ इति गुणो न स्यात्; रुटा व्यवधानात्। स ह्यवयवभक्तस्तमेव न व्यवदध्यात्, सार्वधातुकं तु व्यवदधात्येव। कुतश्चैष न्यायः--ठवयवावयवः समुदायावयवो न भवतिऽ इति ? लोके तावद्देवदतावयवस्य हस्तस्यावयवोऽङ्गुलिर्देअवदतस्याप्यवयवो भवत्येव--साङ्गुलिर्देअवदत इति। तस्मादयमत्राभिप्रायः--ठ्च्छ आह्भाङेश्चऽ इत्येक एव योगः कर्तव्यः, चकारादनन्तरस्य प्राक्कृतस्य च; एवं सिद्धे यद्योगविभागं चकारं च करोति, तस्यैत्प्रयोजनम्--प्रकृतस्य तदन्तस्य प्रहाणेन केवलं ह्रस्वमेवानुवर्तयिष्यामिति। यदि त्वागमस्तुक् समुदायस्यावयवः स्याद्, एष यत्नोऽनर्थकः स्यादिति ॥
सिद्धान्तकौमुदी
ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जशत्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । चुत्वस्यासिद्धत्वात् चोः कु (कौमुदी-378)रिति कुत्वं न । स्वच्छाया । शिवच्छाया ॥
दीर्घात् पदान्ताद्वा - तदाह — दीर्घादित्यादिना ।उभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति छकारस्य तुगन्तावयवः स्यात् । ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचर्त्वेगुणो यङ्लुको॑रिति अभ्यासगुणे, तङि, चे-छिद्यते इति स्थिते, छकारस्यान्त्यवयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारोत्तरद्विचकारकमेव रूपं स्यात्, छकारो न श्रूयेतेत्यत आह — दीर्घस्यायं तुगिति । ततश्च छकारात्प्राग्दीर्घस्योपरि तुकि, जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति । छकारस्य खर्परकत्वाभावाच्चर्त्वं न भवतीति चकाराच्छकारश्रवणं निर्बाधम् । ननु दीर्घस्यायं तुगिति कुत इत्यत आह — सेनेति । उत्तरसूत्रे पदान्तदीर्घाच्छे तुग्विकल्पविधानादिदं सूत्पमुपदान्तविषयमित्यभिप्रेत्य उदाहरति-चेच्छिद्यत इति । (१४७) पदान्ताद्वा.६.१.७६ ।पदान्ताद्वा । "तुक्" "छे" "दीर्घात्" इत्यनुवर्तते । तदाह — दीर्घात् पदान्तादित्यादिना । अयमपि तुग्दीर्घस्यैव नतु छस्य । उक्तज्ञापकात्॥इति बालमनोरमायां हल्सन्धिप्रकरणम् । अथ जुहोत्यादयः ।अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानाऽदनयोरिति । दाने अदने चेत्यर्थः । भाष्यमिति ।तृतीया च होश्छन्दसी॑ति सूत्रस्थ॑मिति शेषः । ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हिब्राआहृमाय गां ददाती॑त्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह — दानं चेह प्रक्षेप इति । नन्वेवमपि कूपे घटं प्रक्षिपति, आहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत आह — स चेति । सः = प्रक्षेपो, विधिबोधिते आधारे = आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः । कुत इत्यत आह — - स्वभावादिति । अनादिसिद्धलोकव्यवहारादित्यर्थः । तथाच विधिबोधिते आधारे विधिबोधितस्य देवतायै त्यज्यमानसय् हविषः हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीयेसर्वप्रदानं हविषस्तदर्थत्वा॑दित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः ।
दीर्घात् पदान्ताद्वा - पदान्ताद्वा । प्रकृतेन दीर्घेण पदविशेषणात्तदन्तविधिलाभेनेष्टसिद्धावप्यन्तग्रहणं पदान्तस्यैव तुग्यथा स्यात्पदस्य मा भूदित्येतदर्थम् । अन्यथा पदविधित्वात्समर्थपरिभाषोपस्थितौ समर्थेषुलक्ष्मीच्छाये॑त्यादिष्वेव स्यात्,तिष्ठतु कुमारी, छत्रं हर देवदत्ते॑त्यत्र न स्यात्, असामथ्र्यात् । एवंन पदान्ताट्टो॑रिति सूत्रेपदाट्टो॑रिति वक्तव्येऽन्तग्रहणंदुष्टाः षट्,सन्तस्त्रय॑ इत्यत्रापि ष्टुत्वनिषेधार्थमित्याहुः ।इति तत्त्वबोधिन्यां हल्सन्धिप्रकरणम् । — — — — — — — — — — — — — अथ जुहोत्यादयः॥अथ जुहोत्यादयः । हु दाना । यद्यपि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वाऽ‌ऽपादनमेव दानं, तथापि प्रयोगमनुसृत्य व्याचष्टे — प्रक्षेप इति । वैध इति । आहवनीयादौ । इविष इति । विधिबोधितद्रव्यस्येत्यर्थः । स्वभावादिति । तेन आहवनीये पुरोडाशे प्रक्षेप्तव्ये प्रमादेन कोपेन [कामेन] वा पाषाणः प्रक्षिप्तः, पुरोडाशो वा गर्तादौ, स तु प्रक्षेपो न होम इति ज्ञेयम् । परस्मपैदिन इति । तेनहोष्ये॑ इति केषांचित्प्रयोगोऽसाधुरेव ।स्मराग्नौ जुह्वानाः॑ इत्यानन्दलहरीप्रयोगस्तु साधुरेव, शानचोऽप्रवृत्तावपि चानशन्तत्वात् ।
लघुसिद्धान्तकौमुदी
ह्रस्वस्य छे तुक्। शिवच्छाया॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.