Page loading... Please wait.
6|1|71 - ह्रस्वस्य पिति कृति तुक्
॥ तस्मै पाणिनये नमः ॥
6|1|71
SK 2858
ह्रस्वस्य पिति कृति तुक्  
सूत्रच्छेदः
ह्रस्वस्य (षष्ठ्येकवचनम्) , पिति (सप्तम्येकवचनम्) , कृति (सप्तम्येकवचनम्) , तुक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
सम्पूर्णसूत्रम्
ह्रस्वस्य पिति कृति तुक्
सूत्रार्थः
ह्रस्वान्त-धातोः पिति कृत्-प्रत्यये परे तुगागमः भवति ।
यस्मिन् कृत्-प्रत्यये पकारः इत्संज्ञकः अस्ति, सः "पित्" कृत्-प्रत्ययः अस्ति इत्युच्यते । ह्रस्वान्तात् धातोः यदि एतादृशः प्रत्यय भवति, तर्हि तस्य धातोः तुक्-आगमः भवति । अयम् कित्-आगमः अतः आद्यन्तौ टकितौ 1|1|46 इत्यनेन स्थानिनः अन्ते आगच्छति । यथा -

1. "अग्नि" इत्यस्मात् परस्य स्वादिगणस्य "चि" धातो" अग्नौ चेः 3|2|91 इत्यनेन क्विप्-प्रत्ययः भवति । अस्य प्रक्रिया इयम् -
अग्नि + चि + क्विप्
→ अग्नि + चि + व् [ककार-इकार-पकाराणाम् इत्संज्ञा, लोपः ।]
→ अग्नि + चि [वकारस्य वेरपृक्तस्य 6|1|67 इति लोपः ]
→ अग्नि + चित् [ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन पित्-कृत्-प्रत्यये परे धातोः तुगागमः । अत्र यद्यपि प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन प्रत्ययविशिष्टम् अङ्गकार्यम् भवत्येव ]

2. "उप + कृ" धातोः ल्यप्-प्रत्यये परे इयम् प्रक्रिया भवति -
उप + कृ + क्त्वा [समानकर्तृकयोः पूर्वकाले 3|4|21 इति क्त्वा-प्रत्ययः]
→ उप + कृ + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7|1|27 इति क्त्वा-इत्यस्य ल्यप्-आदेशः]
→ उप + कृ + य [लकारपकारयोः इत्संज्ञा, लोपः]
→ उप + कृत् + य [ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन पित्-कृत्-प्रत्यये परे धातोः तुगागमः]
→ उपकृत्य

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "धातोः" इति निर्दिष्टं नास्ति । परन्तु, "कृत्-प्रत्ययः" केवलं धातुभ्यः एव विधीयन्ते, अतः सूत्रार्थे "धातोः" इति लिखितम् अस्ति ।
2. षत्वतुकोरसिद्धः 6|1|86 अनेन सूत्रेण एतत् उच्यते यत् एकः पूर्वपरयोः 6|1|84 अस्मिन् अधिकारे निर्दिष्टानि कार्याणि तुगागमार्थम् असिद्धानि सन्ति । अतः "अधीत्य", "अतीत्य" एतेषु शब्देषु दीर्घात् परः अपि तुगागमः भवितुमर्हति, यतः अत्र निर्मितः दीर्घ-स्वरः वर्तमानसूत्रार्थम् असिद्धः अस्ति । यथा -
अधि + इण् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3|4|21 इति क्त्वा-प्रत्ययः]
→ अधि + इ + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7|1|27 इति क्त्वा-इत्यस्य ल्यप्-आदेशः]
→ अधि + इ + य [इत्संज्ञालोपः]
→ अधी + य [ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन तुगागमे प्राप्ते अङ्गरङ्गत्वात् आदौ अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घः भवति ]
→ अधीत्य [सवर्णदीर्घे कृते वस्तुतः [ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यस्य प्रसक्तिः नास्ति । परन्तु, षत्वतुकोरसिद्धः 6|1|86 इत्यनेन सवर्णदीर्घः तुगागमस्य कृते असिद्धः अस्ति । अतः अत्र ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन ह्रस्वः इकारः एव दृश्यते । अतः अत्र अनेन सूत्रेण तुगागमः अपि भवति । ]
One-line meaning in English
When a ह्रस्वान्त धातु is followed by a कृत्-प्रत्यय that is पित्, the धातु gets a तुगागम.
काशिकावृत्तिः
पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति। अग्निचित्। सोमसुत्। प्रकृत्य। प्रहृत्य। उपस्तुत्य। ह्रस्वस्य इति किम्? आलूय। ग्रामणीः। पिति इति किम्? कृतम्। हृतम्। कृति इति किम्? पटुतरः। पटुतमः। ग्रामणि ब्राह्मणकुलम् इत्यत्र ह्रस्वस्य बहिरङ्गस्य असिद्धत्वात् तुग् न भवति।
कृतात्र प्रत्ययेन धातुरुपस्थाप्यते, ह्यस्वेन च स एव विशेष्यते, च तदन्तविधिर्भवतीत्यतो ह्यस्वान्तो धातुरागमी विज्ञायत इत्याह--`ह्यस्वान्तस्य धातोः` इत्यादि। `अग्निचित्` इति। `अग्नौ चेः` 3|2|91 इति क्विप्। `सोमसुत्` इति। `सोमे सुञः` 3|2|90 इत्युभयत्रोपपदसमासः। `प्रकृत्य`इत्यादौ प्रादिसमासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्` 7|1|37 इति ल्यप्। अथ ग्रामं नयतीति--ग्रामणि ब्राआहमणकुलमित्यत्र नपुंसकह्यस्वत्वे कृते ह्यस्वाश्रयस्तुक्? कस्मान्न भवति? इत्याह--`ग्रामणि ब्राआहृणकुलम्` इत्यादि। ह्यस्वत्वं हि नपुंसकार्थवृत्तिप्रातिपदिकमपेक्षत इति बहिरङ्गम्, अन्तरङ्गस्तु तुक्; वर्णमात्रापेक्षताव्त्। `आसिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति तुग्नात्र भवति॥
कृता धातुराक्षिप्यते, स च ह्रस्वेन विशेष्यते, तेन तदन्तविधिर्भवतीत्याह--ह्रस्वान्तस्य धातोरिति। अग्निचित्, सोमसुदिति। ठग्नौ चेःऽ, ठ्सोमे सुञःऽ इतिक क्विप्। ग्रामणिकुलमिति व्यस्तं चेन्नपुंसकह्रस्वत्वम्, षष्ठीसमासे तु ठिको ह्रस्वोऽङ्यो गालवस्यऽ, ठ्सोमे सुञःऽ इति क्विप्। यदि पुनरयं तुट् परादिः क्रियते? चनैवं शक्यम्; इहाग्निचित्सोमसुत्, ठ्वेरपृक्तस्यऽ इति वलोपो न प्राप्नोति। इह च परितनोतीति क्विप्, ठ्क्वौ च गमादीनाम्ऽ इत्यनुनासिकलोपः, ठ्नहिवृत्तिऽ इत्यादिना दीर्घः--परीतत्, तुट आर्द्धधातुकभक्तत्वादिट्प्रसङ्गः। इह चावच्छयाद् ठ्वाऽन्यस्य संयोगादेःऽ इत्येत्वं प्रसज्येत। अथाभक्तः स्याद्, मधुच्छादयतीति ठ्तिङ्ङतिङःऽ इति निघातो न प्राप्नोति; तकारेण व्यवधानात्। न च तकार एवातिङ्; अपदत्वात्। तस्मात्पूर्वान्त एव कर्तव्यः। यद्येवम्, नपुंसकह्रस्वत्वमुपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिद्ध्यति। नपुंसकह्रस्वत्वम्--आराशष्कुलिच्छत्रम्, धानाशष्कुलिच्छत्रम्। उपसर्जनह्रस्वत्वम्--निष्कौशाम्बिच्छत्रम्; द्विगुस्वरः--पञ्चारत्निच्छत्रम्, तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ? न वा बहिरङ्गलक्षणत्वात्। बहिरङ्गस्तुक्--च्छकारसन्निपातापेक्षत्वात्, अन्तरङ्गा एते विधयः प्रागेव तत्सन्निधा नाद्भविष्यन्ति ॥
सिद्धान्तकौमुदी
इत्यः । स्तुत्यः । शास इदङ्हलोः (कौमुदी-2486) । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ॥ ।शंसिदुहिगुहिभ्यो वेति काशिका (वार्तिकम्) ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः (कौमुदी-2009) ईडवन्दवृशंसदुहां ण्यतः (कौमुदी-3702)इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ॥ । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम्-- (कौमुदी-415) इति नलोपः । आज्यम् ॥
ह्रस्वस्य पिति कृति तुक् - ह्यस्वस्य । स्पष्टमिति न व्याख्याताम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तुईङो दैवादिकाद्यत् । वृञो ग्रहणमिति । वार्तिकमिदम् । न वृङ इति । "वृङ् संभक्तौ" इति ङितः क्रैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र "वृङ् संभक्तौ" इत्यस्माण्ण्यदित्यर्थः ।अवद्यपण्यवर्या॑दिति निपातनसिद्धो यत्तु न , अत्र निरोध्स्य नियमस्य विवक्षितत्वात् । ननुवदः सुपी॑त्यतोऽनुवृत्त्यैव सिद्धे क्यब्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यं, चकारस्य अस्वरितत्वेन "भुवो भावे" इत्याद्युत्तरसूत्रेष्वनुवृत्त्यभावादित्यत आह — परस्यापीति । "ओरावश्यके" इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वाण्ण्यत् । भाष्ये त्वेतन्न दृश्यते इति भावः । शस्यं शंस्यमिति । क्यप्पक्षेअनिदिता॑मिति नलोपः । दुह्रमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्रशंसिदुहिगुहिभ्यो वे॑त्यस्य भाष्येऽदर्शनेऽपि शंसेण्र्यत्क्यपौ प्रामाणिकावित्याह — प्रशस्यस्येति । "प्रशस्यस्य श्रः" इति निर्देशबलादच्छंसेः क्यप्सिद्धः ।ईडवन्दवृशंसदुहा ण्यतः॑ इत्याद्युदात्तत्वविधौ शंसेण्र्यदन्तत्वानुवादबलाण्ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसङ्ख्यानमिति । "क्यप" इति शेषः । आज्यमितिन चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः । पदकाराणामवग्रहाऽभावस्त्वप्रामाणिक एव, पदपाठस्याऽ‌ऽधुनिकत्वादिति भाष्ये स्पष्टम् । एवं चअस्मद्रियगित्यस्मद्रिय॑गित्यवग्रहोऽप्रामाणिक एव । अस्मद्रि - अक् इत्येवाऽवग्रहो युक्तः, अस्मच्छब्दस्य टेरद्रआदेशविधानादित्याद्यूह्रम् ।
ह्रस्वस्य पिति कृति तुक् - कथं तर्हि उपेयमिति । ईङ्गताविति दैवादिकाद्यत् । * वृ इति वृञो ग्रहणं । न वृङ इति ।ईडवन्दे॑ति ज्ञापकात् । तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ एव ग्रहणमिति भावः । परस्यापीति ।ओरावश्यके॑ इति प्राप्तस्य ण्यस्यावकाशोऽवश्यलाव्यमिति.आवश्यकाऽविवक्षायां स्तुत्य इत्यादौ क्यपोऽवकाशः । अवश्यस्तुत्य इत्यादावुभयप्राप्तौविप्रतिषेधे पर॑मिति ण्यत्स्यात्, तन्माभूदिति पुनः क्यबुक्तिरिति भावः । * आङ्पूर्वादञ्जेः संज्ञायामुपसङ्ख्यानम् । आङ्पूर्वाञ्जेरिति । ननु ण्यत्येव नलोपः कस्मान्नोक्कत इति चेन्न, कुत्वप्रसह्गातित्स्वप्रसङ्गाच्च । तस्मात्क्यबन्त एवाऽ‌ऽज्यशब्दः । नन्वेवमवग्रहः प्राप्नोति । नचेष्टापत्तिः ।आज्यं किमासी॑दित्यादौ॑ पदकारैस्तदकरणादितिचेत् । अत्र भाष्यम् — न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैस्तु लक्षममनुवर्त्त्यमिति । सत्यपि अवान्तरपदत्वेऋत्विजं॑,पूर्वेभिः॑ इत्यादाविव संप्रदायानुरोधेन क्वचिदवग्रहो न क्रियते इत्यादि तदाशयः ।
लघुसिद्धान्तकौमुदी
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥
महाभाष्यम्
ह्रस्वस्य पिति कृति तुक् (2508) (तुगधिकरणम्) (6098 तुकः पूर्वान्तत्वे दोषवार्तिकम् ।। 1 ।।) - तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च - तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिध्यति । आराशस्त्रिच्छत्रम् । धानाशष्कुलिच्छत्रम् । निष्कौशाम्बिच्छत्रम् । निर्वाराणसिच्छत्रम् । द्विगुस्वरः ‐ - पञ्ञ्चारत्निच्छत्रम्, दशारत्निच्छत्रम् । तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ।। (6099 पूर्वान्तत्वे दोषाभावोपपादकवार्तिकम् ।। 2 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा एष दोषः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणस्तुक्, अन्तरङ्गा एते विधयः । असिद्धं बहिरङ्गमन्तरङ्गे ।। इह तर्हि ‐ - ग्रामणिपुत्रः, सेनानिपुत्रः, ह्रस्वत्वे कृते तुक् प्राप्नोति ।। (6100 दोषाभावोपपादकवार्तिकम् ।। 3 ।।) - ग्रामणिपुत्रादिषु चाप्राप्तिः - ग्रामणिपुत्रादिषु चाप्राप्तिः । किं कारणम् ? बहिरङ्गलक्षणत्वादेव ।। अथवा परादिः करिष्यते । (6101 तुकः परादित्वे दोषवार्तिकम् ।। 4 ।।) - परादौ संयोगादेरित्यतिप्रसङ्गः - परादौ संयोगादेरित्यतिप्रसङ्गो भवति । अपच्छायात् । वाऽन्यस्य संयोगादेः6|4|68 इत्येत्वम्प्रसज्येत ।। (6102 दोषवार्तिकम् ।। 5 ।।) - विलोपवचनं च - वेश्च लोपो वक्तव्यः । अग्निचित्, सोमसुत् । अपृक्तस्य इति वेर्लोपो न प्राप्नोति । नैष दोषः । अपृक्तग्रहणं न करिष्यते । यदि न क्रियते, दर्विः ‐ - जागृविः अत्रापि प्राप्नोति । अनुनासिकपरस्य विशब्दस्य ग्रहणम्, शुद्धपरश्चात्र विशब्दः । एवमपि सतुक्कस्य लोपः प्राप्नोति । निर्दिश्यमानस्यादेशा भवन्तीत्येवं न भविष्यति ।। (6103 दोषवार्तिकम् ।। 6 ।।) - इट्प्रतिषेधश्च - इट्प्रतिषेधश्च वक्तव्यः । परीतत् । सतुक्कस्य वलादिलक्षण इट् प्रसज्येत ।। एवं तर्ह्यभक्तः करिष्यते ।। (6104 अभक्तत्वे दोषवार्तिकम् ।। 7 ।।) - अभक्ते स्वरः - यद्यभक्तस्तर्हि स्वरभेदो भवति ‐ - दधिच्छादयति, मधुच्छादयति तिङ्ङतिङः 8|1|28 इति निघातो न प्राप्नोति । ननु च तुगेवातिङ् । न तुकः परस्य निघातः प्राप्नोति । किं कारणम् ? नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्ते इवयुक्ते वाऽन्यस्मिन् तत्सदृशे कार्यं विज्ञायते, तथा ह्यर्थो गम्यते । तद्यथा ‐ - अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशमेवानयति, नासौ लोष्टमानीय कृती भवति । एवमिहापि अतिङ् इति प्रतिषेधादन्यस्मिंस्तिङ्सदृशे कार्यं विज्ञास्यते । किं चान्यदतिङ् ‐ - तिङ्सदृशम् ? पदम् ।।