Page loading... Please wait.
6|1|70 - शेश्छन्दसि बहुलम्
॥ तस्मै पाणिनये नमः ॥
6|1|70
SK 3516
शेश्छन्दसि बहुलम्   🔊
सूत्रच्छेदः
शेः (षष्ठ्येकवचनम्) , छन्दसि (सप्तम्येकवचनम्) , बहुलम् (प्रथमैकवचनम्)
अनुवृत्तिः
लोपः  6|1|66 (प्रथमैकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
शेः छन्दसि बहुलम् लोपः
सूत्रार्थः
वेदेषु - "शि" इत्यस्य बहुलम् लोपः कृतः दृश्यते ।
जश्शसोः शिः 7|1|20 इत्यनेन नपुँसकात् परस्य जस्/शस्-प्रत्यययोः "शि" आदेशः भवति । अस्य आदेशस्य वेदेषु बहुलम् (इत्युक्ते केषुचन स्थलेषु) लोपः कृतः दृश्यते । यथा - "त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत" (ऋग्वेदः 1.36.5) - अस्याम् ऋचि "विश्वा", "व्रता", "ध्रुवा" एतेषु त्रिषु स्थलेषु "शि" प्रत्ययस्य लोपः कृतः अस्ति । "विश्वा" इत्यत्र प्रक्रिया इयम् -
विश्व + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ विश्व + शि [जश्शसोः शिः 7|1|20 इति शि-आदेशः]
→ विश्व + न् + इ [नपुँसकस्य झलचः 7|1|72 इति नुमागमः]
→ विश्वा न् इ [सर्वनामस्थाने चासम्बुद्धौ [6।4।8]] इति उपधादीर्घः]
→ विश्वान् [ शेश्छन्दसि बहुलम् 6|1|70 इति शि-प्रत्ययस्य लोपः]
→ विश्वा [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]

अयम् लोपः केषुचन स्थलेषु एव दृश्यते, सर्वत्र न । अतः अस्मिन् सूत्रे "बहुलम्" इति उक्तम् अस्ति ।
One-line meaning in English
In वेदाः, "शि" is seen removed at some places.
काशिकावृत्तिः
शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। या वना। यानि क्षेत्राणि। यानि वनानि।
`जस्शसोः शिः` 7|1|20 इति यः शिरादेशस्तस्यायं लोपो विधीयते। `या क्षेत्रा, या वना` इति। शेर्लोपे कृते प्रत्यलक्षणेन `नपुंसकस्य झलचः` 7|1|72 इति नुम्, `सर्वनामस्थाने चासम्बुद्धौ` 6|4|8 इति दीर्घः, `नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नलोपः। वेति कत्र्तव्ये बहुलग्रहणं सर्वविधिव्यभिचारार्थम्। `तेन सर्वे विधयश्छन्दसि विक्ल्प्यन्ते` (पु।प।वृ।56), इत्युपपन्नं भवति॥
या क्षेत्रेति। शेर्लोपे कृते प्रत्ययलक्षणेन ठ्नपुंसकस्य झलचःऽ इति नुम्, ठ्सर्वनामस्थाने चऽ इति दीर्घः, नलोपः। अयं योगः सक्योऽवक्तुम्, कथम्? डादेशेन सिद्धत्वात्। कथमग्नेत्रीति? त्रिऐ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घत्वेनैव सिद्धम्। न सिद्ध्यति, नुमा व्यवहितत्वात्? च्छन्दसि नपुंसकस्य पुंवद्भावो पक्तव्यः, मधोर्गृह्णातीत्येवमाद्यर्थं पुंवद्भावेनैव नुमो निवृत्तिः। एवमपि ठ्जसि चऽ इति गुणः प्राप्नोति, वक्ष्यत्येतत्--ठुसादिषु च्छन्दसि वावचनं प्राङ् णौ चङ्युपधायाःऽ इति। अपि च या क्षेत्रा, ता ता पिण्डानामिति ताइ इति स्थिते ठ्सुपां सुलुक्ऽ इतीकारस्याकारे कृते ठ्प्रथमयोः पूर्वसवर्णःऽ इति दीर्घत्वेन सिद्धम् ॥
सिद्धान्तकौमुदी
लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) ॥ ।एमन्नादि तु छन्दसि वक्तव्यम् (वार्तिकम्) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥
संहितायाम् - संहितायाम् । इत्यधिकृत्येति ।छे चेत्यादि विधीयते॑ इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम् ।
संहितायाम् - संहितायाम् । इत्यधिकृत्येति । एतच्चइकोयणची॑त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शेश्छन्दसि बहुलम् (2507) (योगानुपयोगप्रख्यापनभाष्यम्) अयं योगः शक्योऽवक्तुम् । कथम् ‐ - अग्ने त्री ते वाजिना त्री षधस्था, ता ता पिण्डानाम् ‐ - इति ? पूर्वसवर्णेनाप्येतत्सिद्धम् ।। न सिध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णो न प्राप्नोति ।। छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः ‐ - मधोर्गृह्णाति, मधोस्तृप्ता इवासते, इत्येवमर्थम् । तत्र पुंवद्भावेन नुमो निवृत्तिः । नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् ।। भवेत्सिद्धम् ‐ - अग्ने त्री ते वाजिना त्री षधस्था । इदं तु न सिध्यति ‐ - ता ता पिण्डानामिति । इदमपि सिद्धम् । कथम् ? साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिको भविष्यति ।। एवमपि जसि गुणः प्राप्नोति । वक्ष्यत्येतत् ‐ - जसादिषु छन्दो वावचनं प्राङ् णौ चङ्युपधायाः ।।