Page loading... Please wait.
6|1|69 - एङ्ह्रस्वात्‌ सम्बुद्धेः
॥ तस्मै पाणिनये नमः ॥
6|1|69
SK 193
एङ्ह्रस्वात्‌ सम्बुद्धेः  
सूत्रच्छेदः
एङ्-ह्रस्वात् (पञ्चम्येकवचनम्) , सम्बुद्धेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
लोपः  6|1|66 (प्रथमैकवचनम्) , हल्  6|1|68 (प्रथमैकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
एङ्-ह्रस्वात् सम्बुद्धेः हल् लुप्यते |
सूत्रार्थः
एङ्-वर्णान्त-अङ्गात् परस्य ह्रस्वस्वरान्त-अङ्गात् वा परस्य सम्बुद्धिसंज्ञकस्य हल्-वर्णस्य लोपः भवति ।
एकारान्तात् अङ्गात् परस्य, ओकारान्तात् अङ्गात् परस्य, ह्रस्वान्तात् अङ्गात् वा परस्य सम्बुद्धि-एकवचनस्य यः हल्-वर्णः तस्य लोपः भवति । यथा -

1) राम + सुँ [सम्बोधनैकवचनस्य प्रत्ययः । एकवचनं सम्बुद्धिः 2|3|49 इति सम्बुद्धिसंज्ञा ।]
→ राम + स् [उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति इत्संज्ञकस्य लोपः]
→ राम [एङ्ह्रस्वात्‌ सम्बुद्धेः 6|1|69 इत्यनेन ह्रस्वात् परस्य सम्बुद्धेः हल्-वर्णस्य (स्-इत्यस्य) लोपः]

2) मुनि + सुँ [सम्बोधनैकवचनस्य प्रत्ययः । एकवचनं सम्बुद्धिः 2|3|49 इति सम्बुद्धिसंज्ञा ।]
मुनि + स् [उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति इत्संज्ञकस्य लोपः]
→ मुने + सुँ [ह्रस्वस्य गुणः 7|3|108 इति सम्बुद्धिसंज्ञके प्रत्यये परे अङ्गस्य गुणः ]
→ मुने [एङ्ह्रस्वात्‌ सम्बुद्धेः 6|1|69 इत्यनेन एकारात् परस्य सम्बुद्धेः हल्-वर्णस्य (स्-इत्यस्य) लोपः]

3) धेनु + सुँ [सम्बोधनैकवचनस्य प्रत्ययः । एकवचनं सम्बुद्धिः 2|3|49 इति सम्बुद्धिसंज्ञा ।]
धेनु + स् [उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति इत्संज्ञकस्य लोपः]
→ धेनो + सुँ [ह्रस्वस्य गुणः 7|3|108 इति सम्बुद्धिसंज्ञके प्रत्यये परे अङ्गस्य गुणः ]
→ धेनो [एङ्ह्रस्वात्‌ सम्बुद्धेः 6|1|69 इत्यनेन ओकारात् परस्य सम्बुद्धेः हल्-वर्णस्य (स्-इत्यस्य) लोपः]

ज्ञातव्यम् - यद्यपि एतत् सूत्रम् अङ्गाधिकारे नास्ति, तथापि यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेङ्गम् 1|4|13 इत्यनेन सम्बुद्धि-प्रत्यये परे प्रकृतेः अङ्गसंज्ञा भवत्येव । अतः अस्य सूत्रस्य अर्थं कर्तुम् कौमुद्याम् दीक्षितेन "अङ्गात्" इति शब्दस्य प्रयोगः कृतः अस्ति । "कतर" शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् अस्य शब्दस्य प्रयोजनम् स्पष्टरूपेण दृश्यते -
कतर + सुँ [सम्बोधनैकवचनस्य प्रत्ययः । एकवचनं सम्बुद्धिः 2|3|49 इति सम्बुद्धिसंज्ञा ।]
→ कतर + अदड् [अद्ड् डतरादिभ्यः पञ्चभ्यः 7|1|25 इति सुँ-प्रत्ययस्य अदड्-आदेशः ।
→ कतर + अद् [इत्संज्ञालोपः]
→ कतर् अद् [डित्वात् टेः 6|4|143 इति अकारलोपः ]
→ कतरद्
अत्र रेफात् परः ह्रस्वः अकारः अस्ति, तस्मात् परः सम्बुद्धेः हल्-वर्णः दकारः अस्ति । अत्र वर्तमानसूत्रेण दकारस्य लोपः मा भूत्, एतत् स्पष्टीकर्तुम् अत्र "अङ्ग"शब्दस्य ग्रहणं आवश्यकम् । अत्र अङ्गम् "कतर्" इति रेफान्तम् अस्ति, अकारान्तम् नास्ति, अतः अस्मिन् सूत्रे "अङ्ग"ग्रहणेन अत्र अस्य सूत्रस्य प्रसक्तिः न भवति, अतः दकारस्य लोपः अपि न विधीयते ।
One-line meaning in English
The सम्बुद्धिसंज्ञक हल् letter following an अङ्ग which ends in either an एङ् letter or a ह्रस्व स्वर is removed.
काशिकावृत्तिः
लोपः इति वर्तते, हलिति च। अपृक्तम् इति न अधिक्रियते, तथा च पूर्वसूत्रे पुनरपृक्तग्रहणं कृतम्। एङन्तात् प्रातिपदिकात् ह्रस्वन्ताच् च परो हल् लुप्यते स चेत् सम्बुद्धेर् भवति। एङन्तात् हे अग्ने। हे वायो। ह्रस्वान्तात् हे देवदत्त। हे नदि। हे वधु। हे कुण्ड। कुण्डशब्दाततो ऽम् 7|1|24 इति अम्। अमि पूर्वः 6|1|107 इति पूर्वत्वे क्र्ते लह्मात्रस्य मकारस्य लोपः। हे कतरतित्यत्र डिदयम् अद्डादेशः, तत्र टिलोपे सति ह्रस्वाभावान् न अस्ति सम्बुद्धिलोपः। एङ्ग्रहणम् क्रियते सम्बुद्धिगुणबलीयस्त्वात्।
`हलिति च` इति। वत्र्तत इत्यपेक्षते। यदि हलिति नानुवत्र्तेत, तदा हे कुण्ड+सु इति स्थिते लोपात्? परत्वादम्भावे कृते `आदेः परस्य` 1|1|53 इत्यकारलोपे `सुपि च` 7|3|102 इति दीर्घत्वे च हे कुण्डमित्यनिष्टं रूपं स्यादित्यभिप्रायः। `अपृक्तमिति नाधिक्रियते` इति। यदि ह्रपृक्तमिहानुवर्तेत, तर्हि हे कुण्डेत्यत्र लोपो न स्यात्; अपृक्तसंज्ञाया अभावादिति भावः। कथं पुनज्र्ञायते--अपुक्त इह नानुवत्र्तते? इत्याह--`तथा च` इत्यादि। तथा चेति हितौ। यस्मात् पूर्वसूत्रेऽपृक्तग्रहणं कृतमतोऽवसीयते--नात्र प्रकरणेऽपृक्तग्रहणस्यानुवृत्तिरस्तौति; अन्यथा हि `वेरपृक्तस्य` 6|1|65 इत्यत एवापृक्तग्रहणमनुवर्त्तिष्यत इति पुनरपृक्तग्रहणं पूर्वसूत्रे न क्रियेतेति। `स चेत्? सम्बुद्धेर्भवति` इति। यदि सम्बुद्धेः सम्बद्धो भवतीत्यर्थः। एतेन सम्बुद्धेरित्यस्यावयवषष्ठन्ततां दर्शयति। `हे अग्ने, हे वायो` इति। `ह्यस्वस्य गुणः` 7|3|108 । `हे नदि, हे वधु` इति। `अम्बार्थनद्योह्र्यस्वः` 7|3|107 इति ह्यस्वत्वम्। `हल्मात्रस्य मकारस्य लोपः` इति। हलित्यनुवृत्तेः। हे कतरदित्यत्रैकादेशे कृते ह्यस्वात्? सम्बुद्धेर्हल्? भवतीति तस्य लोपः कस्मान्न भवति? इत्याह--`हे कतरत्` इत्यादि। `अद्ड्डतरादिभ्यः` 7|1|25 इत्यत्र द्विडकारनिर्देशात्? डिच्छब्द आदेशो भवतीति डित्वाट्? टिलोपे ह्यसवो नास्तीति न भवति लोपः। अथैङ्ग्रहणं किमर्थम्, यावता हे अग्ने इत्यादावपि प्रागेव सम्बुद्धिगुणाद्? ह्यस्वादित्येवं लोपे न भवितव्यम्? इत्यत आह--`एङ्ग्रहणम्` इत्यादि। नित्यत्वात्? परत्वाच्च सम्बुद्धिगुमो बलीयानिति तनैव तावत्? भवितव्यम्, तत्र कृते ह्यस्वात्? परः सम्बुद्धेर्हल्? न सम्भवतीति लोपो न प्राप्नोति, अत एङ्ग्रहणं क्रियते। ननु च विहितविशेषणं विज्ञास्यते--ह्यस्वाद्विहितायाः सम्बुद्धेरिति? नैतदस्ति; एका हीयं पञ्चमी, तत्र यदि ह्यस्वाद्विहिति विशेषणं विज्ञायते तदैङन्तादपि विज्ञायेत। तथा च --हे गौरित्यत्रापि स्यात्। तस्मादेङ्ग्रहणं कत्र्तव्यम्॥
अत्र यदि हल्ग्रहणं नानुवर्तेत, तत एङ्ह्रस्वाभ्यां सम्बुद्धिरेव विशेषणीया--एङ्न्ताद् ह्रस्वान्ताच्च परस्याः सम्बुद्धेर्लोप इति, ततश्च हे कुण्डेत्यत्र न स्यात्। कथम्? कुण्डासु इति स्थिते लोपश्च प्राप्नोत्यम्भावश्च, तत्र लोपः शब्दान्तरप्राप्त्याऽनित्याः, स हि कृतेऽम्भावे ठादेः परस्यऽ इत्यमोऽकारस्य प्राप्नोति, अकृते तु सकारस्य अम्भावस्तु लोपे कृतेऽत्यन्ताप्राप्त्याऽनित्यः- इत्युभयोरनित्ययोः परत्वादम्भावे कृतेऽमि पूर्वस्य प्राप्नोति लोपश्च। तत्रामि पूर्वत्वे कृते व्यपवर्गाभावादुभयत् आश्रणणेऽन्तादिवद्भावाभावाच्च लोपो न प्राप्नोति, लोपे च कृतेऽमोऽभावादमिपूर्वत्वं न प्राप्नोतीत्युभयोरनित्ययोः परत्वादमि पूर्वत्वे कृते लोपो न स्यात्, तस्मादनुवर्त्यं हल्ग्रहणम्। तदाह-हलिति चेति। ठ्वर्ततेऽ इत्यपेक्षते। अपृक्तमिति नाधिक्रियत इति। यद्यधिक्रियेत, हे कुण्कडेत्यत्र न स्यात्; अपृक्तसंज्ञाया अभावात्। कथं पुनर्ज्ञायते--नायमधिक्रियत इति? तत्राऽऽह--तथा चेति। अनुवर्तमानेऽपि हल्ग्रहणे यद्येङ्ह्रस्वाभ्यां सम्बुद्धिर्विशेष्येत, तया हल् विशेष्येत--एङ्न्ताद् ह्रस्वान्ताच्च परा या सम्बुद्धिस्तस्या हल्लुप्यते इति, ततः हे कुण्डेत्यत्र न स्यात् पूर्वोक्तादेव हेतोः। अत एङ्ह्रस्वाभ्यां सम्बुद्ध्या च हलेव विशेषणीय इति मत्वाऽऽह--एङ्न्तात्प्रातिपदिकादित्यादि। सम्बुद्ध्याक्षिप्तप्रतिपदिकमेङ्ह्रस्वाभ्यां विशेष्यत इति तदन्तविधिलाभः। अत्र पक्षे कुण्डेत्यत्रामि पूर्वत्वस्य पूर्वं प्रत्यन्तवद्भावाद् ह्रस्वान्तात्परो हल्भवति। वस्तुतश्च सम्बुद्धेरिति लोपः सिद्धयति। अच्छब्द इति। एतच्च तत्रैव व्याख्यास्यते। ह्रस्वाभावादिति। ननु चादडेवाकारो ह्रस्वः, ततः परो हल् भवति, सम्बुद्धेश्च सम्बन्धीति लोपः स्यादेव, सम्बुद्धौतु विशेष्यमाणायां प्रकृत्यकारस्य लोपे ह्रस्वात्प्रा सम्बुद्धिर्न भवतीति लोपाप्रसङ्गः? उच्यते; ठ्सम्बुद्ध्याक्षिप्तं प्रातिपदिकमेङ्ह्रस्वाभ्यां विशेष्यतेऽ इत्युक्तम्, तेन कुण्कडेत्यत्र न भविष्यति; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् प्रकृतिग्रहणेन ग्रहणात्। हे कतरदित्यत्र च न भविष्यति; टिलोपे कृते प्रकृतेरह्रस्वान्तत्वात्। सम्बुद्धिगुणबलीयस्त्वादिति। अन्यथा अग्निअसु इति स्थिते सम्बुद्धिगुणश्च प्राप्नोति, ह्रस्वादिति लोपश्च; तत्र नित्यात्वात्परत्वाच्च सम्बुद्धिगुणे कृतेऽह्रस्वान्तत्वान्न भवेत्। ननु च विहितविशेषणं विज्ञास्यते--ह्रस्वान्ताद्विहिता या सम्बुद्धिरिति? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति ? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति? एवमपि हे नदि, हे यवागु, हे कुमारीत्यत्र न स्यात्, न चात्र ङ्यन्तत्वाल्लोपो लभ्यते, दीर्घग्रहणात्। एवं तर्ह्युभयं विज्ञास्यते--विहितविशेषणम्, परविशेषणं च; तेनाग्ने, कुमारीत्यादौ सर्वत्र भविष्यति? तत्र सकृच्छ्4%अतस्य ह्रस्वग्रहणस्योभयविशेषणत्वमेव तावद् दुर्लभम्। अथापि लभ्यते? एवमपि हे कतरदित्यत्र यद्यपि टिलोपे कृते सम्बुद्धेर्ह्र स्वपरत्वाभावः, तथापि ह्रस्वान्ताद्विहिता सम्बुद्धिरिति स्यादेव लोपः। तस्मादेङ्ग्रहणं कर्तव्यम्। वयं तु ब्रूमः--ये स्वभावत एङ्न्तास्तदर्थमप्येङ्ग्रहणं कर्तव्यमिति। तद्यथाहेशब्दमतिक्रान्तो ब्राह्मणोऽतिहेः, तस्य सम्बोधनं हे अतिहे; अनुकृतः पचतेशब्दो येन तस्य सम्बोधनं हेऽनुकृतपचते; विहित ईरेप्रत्ययो येन स विहितेरेः पाणिनिः, तस्य सम्बोधनम्--हे विहितेरे इत्यादि। अत्र संग्रहश्लोकः--- सम्बुद्धिर्ह्र स्वभेद्या यदि हि न च भवेन्नादिवन्नान्तवत्स्याद्, दोषोऽसौ हल्निवृतावपि लुपि भवतोऽम् पूर्वरूपे परत्वात्। ह्रस्वान्ताल्लुब्विधिः स्याद्धल इति कतरड्डित्वतो नो हलो लुप्, ह्रस्वश्रुत्या न शक्यः परविहितविधिर्नातिहेऽतोऽप्यकार्येऽङ् ॥ लोपनं लुप्, लोप इत्यर्थः ॥
सिद्धान्तकौमुदी
एङन्ताद्ध्रस्वान्ताच्चङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एङ्ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ॥
एङ्ह्रस्वात् सम्बुद्धेः - एङ्ह्यस्वात् ।एङ्ह्यस्वा॑दित्यङ्गविशेषणं, तदन्तविधिः । सुतिस्यपृक्तं हलित्यतो हलिति प्रथमान्तमनुवर्तते, तच्चाङ्गादित्यत्रान्वेति -अङ्गात् परं ह॑सिति ।लोपो व्यो॑रित्यतो "लोप" इत्यनुवर्तते । तच्च हलित्यनेन सामानाधिकरण्येनान्वेति । लुप्यते इति लोपः । कर्मणि घञ् ।संबुद्धे॑रित्यवयवषष्ठी-हलित्यत्रान्वेति । ततस्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं यत् संबुद्ध्यवयवभूतंतल्लुप्यते इत्यर्थः फलति । तदाह — एङन्तादित्यादिना । ननु एङ्ह्यस्वादित्यस्याङ्गधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभः । तस्य वा किं प्रयोजनम् । एङो ह्यस्वाच्च परं संबुद्ध्यवयवभूतं हल्लुप्यत इत्येवास्तु । तत्राह-सम्बुद्ध्यक्षिप्तस्येत्यादि । संबुद्धेः प्रत्ययत्वात्तत्प्रकृतेरङ्गत्वमर्थाल्लब्धम् । तस्य च एङा ह्यस्वेन च विशेषितत्वात्तदन्तविधौ एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं हल्लुप्यत इत्यर्थलाभादिह लोपो नेत्यर्थः । इहेत्यस्य विशेष्यमाह-हे कतरत्कुलेतीति । कतरशब्दस्य नपुंसकत्वस्फोरणाय कुलशब्दः । कतरशब्दान्नपुंसकलिङ्गात्संबुद्धिः सुः ।अद्डादेशः । डकार इत् । डित्त्वसामथ्र्यादभत्वेऽपि टेरिति रेफादकारस्य लोपः "वाऽवसान#ए" इति चर्त्वे कतरदिति रूपम् । यदि एङ्ह्यस्वादित्यत्राङ्गस्य विशेष्यत्वं न स्यात्, तदा कतरदित्यत्र तकारस्य हलो ह्यस्वादकारात् परत्वात्संबुद्ध्यवयवत्वाच्च लोपः प्रसज्येत । अङ्गस्य विशेष्यत्वे तु न दोषः । अत्र हि टिलोपानन्तरं कतरिति रेफान्तमङ्गम् । तत्तु न ह्यस्वान्तम् । यत्तु तन्नाङ्गम् । रेफादकारस्य सुस्थानिकाद्डादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्विह हल्ग्रहणानुवृत्तिव्र्यर्था, एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्य संबुद्धेर्लोपः स्यादित्येव व्याख्यायाताम् । अस्तु वा हलनुवृत्तिः , तथापिएङन्ताद्ध्रस्वान्ताच्चाङ्गात्परा या संबुद्धिस्तदवयवो हल्लुप्यते॑ इति कुतो न व्याख्यायत इति चेत्, एवं सति हे ज्ञानाति न सिध्येत् । तदिदमजन्तनपुंसकलिङ्गाधिकारे ज्ञानशब्दाप्रक्रियावासरे मूल एव स्पष्टीभविष्यति । हे हरे हे विष्णो इति । हरिशब्दाद्विष्णुशब्दाच्च संबुद्धिः सुः । "ह्यस्वस्य गुण" इति गुणः । हे हरेस्, हे विष्णोसिति स्थिते, ह्यस्वात्परत्वाऽभावात्सुलोपो न स्यादत एङ्ग्रहणमित्यर्थः । ननु गुणात्पूर्वं हे हरि स्, हे विष्णु सित्यस्यामेव दशायां ह्यस्वात्परत्वादेव सुलोपसंभवादेङ्ग्रग्रहणं व्यर्थमित्यत आह — अत्रेति । संबुद्धिलोपापेक्षयाऽयं गुणः परः, नित्यश्च, अकृतेऽपि संबुद्धिलोपे तत्प्रवृत्तेः, कृते ।ञपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्तेः, कृतेऽपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्ते, अतः संबुद्धिलोपात्प्रागेव ह्यस्वस्य गुणे कृते सति ह्यस्वात्परत्वा.ञभावात्सोर्लोपो न स्यात् । अत एङ्ग्रहणमित्यर्थः । अथ द्वितीया विभक्तिः । राम अमिति स्थिते, "न विभक्तौ तुस्मा" इति मकारस्य नेत्त्वम् ।
एङ्ह्रस्वात् सम्बुद्धेः - संबुद्ध्याक्षिप्तस्येति । तदन्तस्यैव संज्ञाभ्युपगमे तु सम्बुद्ध्याऽङ्गमाक्षेप्तुं न शक्यते इति बोध्यम् । ह्यस्वात्परत्वं नास्तीति । तथा च सूत्रे एङ्ग्रहणमावश्यकमिति भावः । किं चइमां किमाचामयसे न चक्षुषी॑इति श्रीहर्षप्रयोगेसे॑ इति पृथक्पदं,सलक्ष्मीके हे दमयन्ती॑त्यर्थ इतिनिगरणचलनार्थेभ्यश्चे॑ति सूत्रे मनोरमायां व्युत्पादितम् । ततश्च तत्रापि संबुद्धिलोपार्थमेङ्ग्रहणमावश्यकमेव । स्यादेतत् । एङ्ग्रहणस्यसे॑ इत्यत्र सावकाशतयाहे हरे॑ इत्यादौ संबुद्धिलोपो न स्यात्, संनिपातपरिभाषाविरोधात् । तथा ह्यस्वग्रहणस्यापिहे रामे॑त्यत्र सावकाशत्वात्हे गौरी॑-त्यादौ परत्वाद्धल्ङ्यादिलोपं बाधित्वाअम्बार्थनाद्यो॑रिति ह्यस्वे कृते संबुद्धिलोपो न स्यात् । लक्ष्मीशब्दे तु हल्ङ्यादिलोपस्याप्यभावाद्धे लक्ष्मीत्यत्र सुतरां संबुद्धिलोपो न स्यात् । सत्यम्,गुणात्संबुद्धे॑रिति वक्तव्ये एङ्ह्यस्वग्रहणसामथ्र्यात्संनिपातपरिभाषां बाधित्वाऽपि संबुद्धिलोपः प्रवर्तते इति दिक् ।
लघुसिद्धान्तकौमुदी
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥
महाभाष्यम्
एङ्ह्रस्वात्संबुद्धेः (2506) (6092 एकदेश्युपसंख्यानवार्तिकम् ।। 1 ।।) - संबुद्धिलोपे डतरादिभ्यः प्रतिषेधः - संबुद्धिलोपे डतरादिभ्यः प्रतिषेधो वक्तव्यः । हे कतरत्, हे कतमत् । किमुच्यते ‐ - डतरादिभ्यः प्रतिषेधो वक्तव्य इति यदाऽपृक्तस्येत्यनुवर्तते ? (6093 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।) - अपृक्ताधिकारस्य निवृत्तत्वात् - निवृत्तोऽपृक्ताधिकारः ।। किं डतरादिभ्यः प्रतिषेधं वक्ष्यामीत्यतोऽपृक्ताधिकारो निवर्तते ? नेत्याह ।। (6094 पूर्वोक्तार्थसमर्थकवार्तिकम् ।। 3 ।।) - तच्चामर्थम् - स चावश्यमपृक्ताधिकारो निर्वत्यः । किमर्थम् ? अमर्थम् । अमो लोपो यथा स्यात् । हे कुण्ड, हे पीठ ।। (आक्षेपभाष्यम्) निवृत्तेऽपि वै अपृक्ताधिकारे अमो लोपो न प्राप्नोति । किं कारणम् ? मा भूत्सर्वस्य लोपः । अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य लोपे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं स्यात् ‐ - हे कुण्ड, हे पीठेति ।। यद्येतल्लभ्येत कृतं स्यात् । तत्तु न लभ्यम् । किं कारणम् ? अत्र हि तस्मादित्युत्तरस्य आदेः परस्य (1-1-67,54) इत्यकारस्य लोपः प्राप्नोति । अकारलोपे च सति मकारे अतो दीर्घो यञ्ञि सुपि च (7-3-101;102) इति दीर्घत्वे ‐ - हे कुण्डाम्, हे पीठाम् ‐ - इत्येतद्रूपं प्रसज्येत ।। (सिद्धान्तभाष्यम्) एवं तर्हि हलो लोपः संबुद्धिलोपः । तद्धल्ग्रहणं कर्तव्यम् । न कर्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम् ? हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (68) इति । तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । नैष दोषः । एङ्ह्रस्वादित्येषा पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति ।। एमवपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते ‐ - हे कुण्डा, हे पीठा ‐ - इत्येतद्रूपं प्रसज्येत । अमि पूर्वत्मत्र बाधकं भविष्यति । अमीत्युच्यते, न चात्रामं पश्यामः । एकदेशविकृतमनन्यवद्भवतीति ।। अथ वेदमिह संप्रधार्यम् ‐ - संबुद्धिलोपः क्रियताम्, एकादेश इति; किमत्र कर्तव्यम् ? परत्वादेकादेशः । एवमप्येकादेशे कृते व्यपवर्गाभावात्संबुद्धिलोपो न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गो भविष्यति । उभयत आश्रयणे नान्तादिवत् । नोभयत आश्रयः करिष्यते । कथम् ? नैवं विज्ञायते ‐ - ह्रस्वादुत्तरस्याः संबुद्धेर्लोपो भवतीति । कथं तर्हि ? ह्रस्वादुत्तरस्य हलो लोपो भवतीति, स चेत्संबुद्धेरिति ।। डतरादिभ्यः स तर्हि प्रतिषेधो वक्तव्यः । न वक्तव्यः ।। (6095 सिद्धान्तवार्तिकम् ।। 4 ।।) - उक्तं वा - किमुक्तम् ? सिद्धमनुनासिकोपधत्वात् इति ।। एवमपि दलोपः साधीयः प्राप्नोति । दुक्करणाद्वा । अथवा दुक्डतरादीनामिति वक्ष्यामि ।। डित्करणाद्वा । अथवा डिदच्छब्दः करिष्यते । स तर्हि डकारः कर्तव्यः । क्रियते न्यास एव, द्विडकारको निर्देशः ‐ - अद्ड्डतरादिभ्य इति ।। एवमपि लोपः प्राप्नोति । विहितविशेषणं ह्रस्वग्रहणम् । यस्माद्ह्रस्वात्संबुद्धिर्विहितेति ।। (6096 एकदेशिनो विप्रतिषेधबोधकवार्तिकम् ।। 5 ।।) - अपृक्तसंबुद्धिलोपाभ्यां लुक् - अपृक्तसंबुद्धिलोपाभ्यां लुग्भवति विप्रतिषेधेन । अपृक्तलोपस्यावकाशः ‐ - गोमान्, यवमान् । लुकोऽवकाशः ‐ - त्रपु, जतु । इहोभयं प्राप्नोति ‐ - तत् ब्राह्मणकुलम्, यत् ब्राह्मणकुलम् । संबुद्धिलोपस्यावकाशः ‐ - अग्ने, वायो । लुकः स एव । इहोभयं प्राप्नोति ‐ - हे त्रपु, हे जतु । लुग्भवति विप्रतिषेधेन । स तर्हि विप्रतिषेधो वक्तव्यः । न वक्तव्यः ।। (6097 सिद्धान्तवार्तिकम् ।। 6 ।।) - न वा लोपलुकोर्लुगवधारणाद्यथाऽनडुह्यत इति - न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? लोपलुकोर्लुगवधारणात् । लोपलुकोर्हि लुग्वधार्यते ‐ - लुग्लोपयणयवायावेकादेशेभ्यः । यथा ‐ - अनडुह्यत इति । तद्यथा ‐ - अनड्वानिवाचरति ‐ - अनुडुह्यत इत्यत्र लोपलुकोर्लुगवधार्यते । एवमिहापि ।।