Page loading... Please wait.
6|1|67 - वेरपृक्तस्य
॥ तस्मै पाणिनये नमः ॥
6|1|67
SK 375
वेरपृक्तस्य  
सूत्रच्छेदः
वेः (षष्ठ्येकवचनम्) , अपृक्तस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
लोपः    6|1|66 (प्रथमैकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
अपृक्तस्य वेः लोपः
सूत्रार्थः
"वि" इत्यस्य अपृक्त-अवस्थायाम् लोपः जायते ।
यदि कस्मिंश्चित् प्रत्यये केवलं एकः वर्णः दृश्यते, तर्हि अपृक्तः एकाल् प्रत्ययः 1|2|41 अनेन सूत्रेण तस्य "अपृक्त" इति संज्ञा भवति ।

अतः अनेन सूत्रेण एतत् उच्यते - यदि "वि" इत्यस्य इकारस्य लोपं कृत्वा "व्" इति एकाल्-प्रत्ययः अवशिष्यते, तर्हि तस्य वकारस्यापि लोपः भवति । यथा -

1) "क्विन्" इति कश्चन कृत्-प्रत्ययः । स्पृशोऽनुदके क्विन् 3|2|58 इत्यनेन "स्पृश्" इत्यस्य क्विन्-प्रत्ययः भवति । अत्र ककार-नकारयोःणाम् इत्संज्ञालोपः भवति, इकारः उच्चारणार्थः अस्ति अतः तस्यापि लोपः जायते । अग्रे "व्" इत्येव अवशिष्यते । अयम् वकारः "वि" इत्यस्मात् इकारलोपं कृत्वा निर्मितः अस्ति । अतः वर्तमानसूत्रेण "व्" इति अवशिष्टस्य एकाल्-प्रत्ययस्य अपि लोपः जायते ।

2) "क्विप्" इत्यपि अन्यः कृत्-प्रत्ययः । अत्रापि ककार-पकारयोः इत्संज्ञालोपं कृत्वा, "वि" इत्यस्य इकारस्य उच्चारणभिन्नप्रयोजनाभावात् लोपं कृत्वा "व्" इत्येव अवशिष्यते । अयम् वकारः "वि" इत्यस्मादेव इकारलोपं कृत्वा निर्मितः अस्ति, अतः वर्तमानसूत्रेण "व्" इति अवशिष्टस्य एकाल्-प्रत्ययस्य लोपः जायते ।

3) "ण्वि" इति अन्यः एकः कृत्-प्रत्ययः । भजो ण्विः 3|2|62 इत्यनेन भज्-धातोः "ण्वि" प्रत्ययः भवति । अस्मिन् प्रत्यये णकार-इकारयोः लोपः भवति । अग्रे अवशिष्टस्य "व्" इत्यस्य वर्तमानसूत्रेण लोपः विधीयते ।

4) "च्वि" इति कश्चन तद्धितप्रत्ययः । अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5|4|50 इत्यनेन "शुक्ल" शब्दात् कृ-धातोः योगे च्वि-प्रत्ययः भवति । "शुक्ल + च्वि + करोति" इत्यत्र च्वि-प्रत्ययस्य इकारः उच्चारणार्थः अस्ति अतः तस्य लोपः भवति, चकारस्य इत्संज्ञालोपश्च भवति । अतः "व्" इत्यवशिष्यते । अस्य "व्" इत्यस्य वर्तमानसूत्रेण लोपः भवति । अग्रे अस्य च्वौ इति ईत्वे कृते "शुक्लीकरोति" इति रूपं सिद्ध्यति ।
One-line meaning in English
The प्रत्यय "वि" is removed when it appears अपृक्त.
काशिकावृत्तिः
लोपः इति वर्तते। वेः इति क्विबादयो विशेषाननुबन्धानुत्सृज्य सामान्येन गृह्यन्ते। वेरपृक्तस्य लोपो भवति। ब्रह्मभ्रूणवृत्रेषु क्विप् 6|2|87। ब्रह्महा। म्रूणहा। स्पृशो ऽनुदके क्विन् 6|2|58। घृतस्पृक्। तैलस्पृक्। भजो ण्विः 3|2|62। अर्धभाक्। पादभाक्। तुरीयभाक्। अपृक्तस्य इति किम्? वृदृभ्यां क्विन् दर्विः। कृगृशृसृजागृभ्यः क्वि। जागृविः।
`वेः` इत्यादि। क्विबादेरन्यस्य वेरपृक्तसंज्ञकसयाभावात्? क्विबादय एव गृह्रन्ते, कथं पुनर्वेरित्युच्यमाने क्विबादीनां सामान्येन ग्रहणमुपपद्यते, यावता प्रकारादयस्येषां विशेषा अनुबन्धाः सन्ति? इति चोद्यनिरासाये दमुक्तम्--`विशेषाननुबन्धानुत्सृज्य` इति। `ब्राह्रहा, भ्रूणहा` इति। `सौ च` 6|4|13 इति दीर्घः `घृतस्पृक्` इति। `क्विन्प्रत्ययस्य कुः` 8|2|62 इति कुत्वम्। `अर्धभाक्`इति। `चोः कुः` 8|2|30 इति कुत्वम्। दर्विरित्यादौ `उणादयो बहुलम्` 3|3|1 इति बहुलग्रहणादेव लोपो न भवतीति शक्यते वक्तुम्, अतः प्रपञ्चार्थम्। वैचित्र्यार्थं वाऽपृक्तग्रहणम्॥
क्विबादयो गृह्यन्त इति। ततोऽन्यस्य वेरपृक्तस्याभावात्। घृतस्पृगिति। ठ्क्विन्प्रत्ययस्य कुःऽ अपृक्तग्रहणाद्वकारमात्रस्येदं ग्रहणम्, इकार उच्चारणाथः ॥
सिद्धान्तकौमुदी
अपृक्तस्य वेर्लोपः स्यात् । कृत्तद्धित (कौमुदी-179) इति प्रातिपदिकत्वात्स्वादयः ॥
वेरपृक्तस्य - वेरपृक्तस्य । लोपो व्योः॑ इत्यतो "लोप" इत्यनुवर्तते । उत्सृष्टानुबन्धाः । सरक्वे क्विबादयोवे॑रित्यनेन गृह्रन्ते । इकार उच्चारणार्षथः, अपृक्तग्रहणात्, तदाह — अपृक्तस्य वस्येति । अपृक्तस्येति किम् । जागृविः । क्विनः कृत्संज्ञायाः प्रयोजनमाह — कृत्तद्धितेति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अपृक्तस्य वस्य लोपः॥
महाभाष्यम्
वेरपृक्तस्य (2504) (उपसंख्यानभाष्यम्) दर्विजागृव्योः प्रतिषेधो वक्तव्यः । दर्विः, जागृविः ।। किमुच्यते ‐ - दर्विजागृव्योः प्रतिषेधो वक्तव्य इति यदाऽपृक्तस्येत्युच्यते । भवति वै किंचित्, आचार्याः क्रियमाणमपि चोदयन्ति । तद्वा कर्तव्यम्, दर्विजागृव्योः प्रतिषेधो वा वक्तव्यः ।। (6082 प्रतिषेधानर्थक्यबोधकवार्तिकम् ।। 1 ।।) - वेर्लोपे दर्विजागृव्योरप्रतिषेधोऽनुनासिकपरत्वात् - वेर्लोपे दर्विजागृव्योरप्रतिषेधः । अनर्थकः प्रतिषेधः ‐ - अप्रतिषेधः । लोपः कस्मान्न भवति ? अनुनासिकपरत्वात्, अनुनासिकपरस्य विशब्दस्य ग्रहणम् । न चात्रानुनासिकपरो विशब्दः, शुद्धपरश्चात्र विशब्दः ।। (वार्तिकाक्षेपभाष्यम्) यद्यनुनासिकपरस्य विशब्दस्य ग्रहणमित्युच्यते, घृतस्पृक् ‐ - दलस्पृक् ‐ - अत्र न प्राप्नोति, न ह्येतस्माद्विशब्दादनुनासिकं परं पश्यामः । अनुनासिकपरत्वात् इति नैवं विज्ञायते ‐ - अनुनासिकः परो यस्मात्सोऽयमनुनासिकपरः, अनुनासिकपरत्वादिति । कथं तर्हि ? अनुनासिकः परोऽस्मिन् सोऽयमनुनासिकपरः, अनुनासिकपरत्वादिति ।। एवमपि प्रियदर्वि ‐ - अत्रापि प्राप्नोति । असिद्धोऽत्रानुनासिकः ।। एवमपि धात्वन्तस्य प्रतिषेधो वक्तव्यः । इवि, दिवि, धिवि ।। (6083 प्रतिषेधानर्थक्यबोधकवार्तिकम् ।। 2 ।।) - धात्वन्तस्य चार्थवद्ग्रहणात् - अर्थवतो विशब्दस्य ग्रहणम्, न धात्वन्तोऽर्थवान् ।। (6084 प्रकारान्तरबोधकवार्तिकम् ।। 3 ।।) - वस्य वाऽनुनासिकत्वात्सिद्धम् - अथवा वकारस्यैवेदमनुनासिकस्य ग्रहणम् । सन्ति हि यणः सानुनासिका निरनुनासिकाश्च ।।