Page loading... Please wait.
6|1|66 - लोपो व्योर्वलि
॥ तस्मै पाणिनये नमः ॥
6|1|66
SK 873
लोपो व्योर्वलि  
सूत्रच्छेदः
लोपः (प्रथमैकवचनम्) , व्योः (षष्ठीद्विवचनम्) , वलि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
सम्पूर्णसूत्रम्
व्योः वलि लोपः
सूत्रार्थः
वल्-प्रत्याहारस्य वर्णे परे वकार-यकारयोः लोपः भवति ।
वल्-प्रत्याहारः = यकारम् विहाय अन्यानि सर्वाणि व्यञ्जनानि ।

यदि वकारात् / यकारात् परं यकारं विहाय अन्यं व्यञ्जनम् आगच्छति, तर्हि वकारस्य / यकारस्य लोपः विधीयते ।

यथा -
1. पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य रूपसिद्धिः -
पठ् + लिङ् [विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिङ् 3|3|161 इति लिङ्लकारः]
→ पठ् + तिप् [तिप्तस्.. 3|4|78 इत्यनेन तिप्-प्रत्ययः]
→ पठ् + शप् + ति [कर्तरि शप् 3|1|68 इति औत्सर्गिकम् विकरणम् शप्]
→ पठ् + अ + यासुट् + ति [यासुट् परस्मैपदेषु उदात्तः ङिच्च 3|4|103 इति यासुट्-आगमः]
→ पठ् + अ + यासुट् + सुट् + ति [सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ पठ् + अ + या + ति [लिङःसलोपोऽनन्त्यस्य 7|2|79 इति उभयोः सकारयोः लोपः]
→ पठ् + अ + इय् + ति [अतो येयः 7|2|80 इति "या"-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इ + ति [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ पठ् + अ + इ + त् [इतश्च 3|4|100 इति इकारलोपः]
→ पठ् + ए + त् [आद्गुणः 6|1|87 इति गुणः]
→ पठेत्


2. दिव्-धातोः क्वसु-प्रत्यये कृते "दिदिवस्" इति प्रातिपदिकम् सिद्ध्यति । तस्य प्रक्रिया इयम् -
दिव् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
दिव् + दिव् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
दि दिव् + लिट् [हलादि शेषः 7|4|60 इति वकारलोपः]
दि दिव् + क्वसुँ [क्वसुश्च 3|2|107 इति लिट्-इत्यस्य क्वसुँ-आदेशः]
→ दिदिव् + वस् [इत्संज्ञालोपः]
→ दिदिवस् [लोपो व्योर्वलि 6|1|66 इति वकारे परे वकारलोपः]

ज्ञातव्यम् - यद्यपि अनेन सूत्रेण यकारवकारस्य लोपः उक्तः अस्ति, तथापि बहूषु शब्देषु वकारस्य रेफे परे लोपः न दृश्यते । यथा - तीव्र, व्रण, व्रत - आदयः । अस्य समाधानम् भाष्ये भिन्नानि कारणानि दत्त्वा कृतम् अस्ति ।
One-line meaning in English
A वकार and a यकार are deleted when followed by a letter of the वल् प्रत्याहार.
काशिकावृत्तिः
धतोः इति प्रकृतं यत् तद् धात्वादेः इति पुनर् धातुग्रहणान् निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोः वलि परतो लोपो भवति। दिव् दिदिवान्, दिदिवांसौ, दिदिवांसः। ऊयी ऊतम्। क्नूयी क्नूतम्। गोधाया ढ्रक् 4|1|129। घौधेरः। पचेरन्। यजेरन्। वकारस्य जीवेरदानुक्, जीरदानुः। स्रिवेः आस्रेमाणम्। उणादयो बहुलम् 3|3|1 इति बहुलवचनाच् च्च्ःवोः शूडनुनासिके च 6|4|19 इति ऊट्ः न भवति। बलि इति किम्? ऊय्यते। क्नूय्यते। ऊर्वं लोपग्रहणं किम्? वेरपृक्तलोपात् पूर्वं वलि लोपो यथा स्यात्। कण्डूयतेः क्विप्कण्डूः। लोलूयतेः लोलूः। व्रश्चादीनाम् उपदेशसामर्थ्यात् वलि लोपो न भवति। वृश्चति। ववृश्च इत्यत्र अपि हि सम्प्रसारणहलादिःशेषयोर् बहिरङ्गत्वात् प्राप्नोति।
`लिटि धातोः` 6|1|8 इत्यस्य धातुग्रहणस्य दृष्टानुवृत्तिसामथ्र्यादिहाप्यनुवृत्तिरिति मन्यमानस्य धातोरेवायं वलि व्यलोपो विधीयत इति कस्याचिद्भ्रान्तिः स्यात्, अतस्तं निरकर्त्तुमाह--`धातोरिति यत्? प्रकृतम्` इत्यादि। `दिदिवान्` इति। दिवेः क्वसौ रूपम्। `ऊयी` इति। `ऊयी तन्तुसन्ताने (धातुपाठः-483) `क्नूयो` इति। `क्नूयी शब्दे` (धातुपाठः-485) `गौदेरः` इति। `गोधाया ढ्रक्` 4|1|129 ढस्यैयादेशः, यकारलोपः। `पचेरन्` इति। सीयुडकारस्य लोपः। `जीवेः` इति। `जीव प्राणधारणे` (धातुपाठः-562) इत्यस्य। `रिउआवेः` इति। `रिउआवु गतिशोषणयोः` (धातुपाठः-1109) इत्येतस्य। `आरुओमाणम्` इति। औणादिकोऽयं मनिन्। कथं पुनरेतदिहोदाहरणम्, यावता परत्वात्? `वार्णादाङ्गं बलीयो भवति` (व्या।प।39) इति बलीयस्त्वात्? `च्छवोः शूडनुनासिके च` 6|4|19 इत्यादिनोठादेशेनात्र भवितव्यम्? इत्यत आह--`उणादयो बहुलम्` इत्यादि। बहुलग्रहणस्य सर्वविधिव्यभिचारार्थत्वान्न भवत्येष दोषप्रसङ्ग इति।पश्चाल्लोपग्रहणे क्रियमाणे पकारात्? परेणाध्यर्धमात्रोच्चारयितव्या भवति, अकगारो हि मात्रा, विसजं नीयस्त्वर्धमात्रः। पूर्वं तु लोपग्रहणे क्रियमाणे मात्राद्वयमुच्चारयितव्यं जायते; ओकारस्य द्विमात्रिकत्वात्। तत्र लाघवार्थं पश्चादेव लोपग्रहणं कर्त्तु युक्तम्, तत्? किं पूर्वं क्रियते? इत्यत आह--`पूर्वम्` इत्यादि। अन्यस्तु पूर्व कार्यिनिर्देशो युक्तः, पश्चात्? कर्यनिर्देश इति पूर्व व्योग्र्रहणे कत्र्तव्ये किमर्थ लोपग्रहणं क्रियत इति पूर्वपक्षं वर्णयति, स चायुक्तः `लुगणिञोः` 2|4|58 इत्यत्र कार्यस्यापि पूर्व निदशात्। `वेरपृक्तलोपात्` इत्यादि। कण्डूयतेर्लोलूयतेश्च क्विपि कृते वलि लोपात्? परत्वात्? कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च पूर्वं वेरपृक्तलोप एव स्यात्। अस्मश्च सति निमित्ताभावात्? वर्णाश्रये प्रत्ययलक्षणाभाद्ववलि लोपो न स्यात्? तस्मात्? पूर्वं लोपग्रहणं क्रियते--वलि लोप एव पूर्वं यथा स्यात्। पूर्वं लोपग्रहणे ह्रयमर्थः सूच्यते--वेरृक्तलोपत्? पूर्व वलि लोप एव कत्र्तव्यमिति। `कण्डूः` इति। `अतो लोपः` 6|4|48 इत्यकारलोपः। क्विलुगुपधात्वचङ्गपरनिह्यसिकुत्वेषु न स्थानिवत्` (1.1.59 वा।2) इत्यकारस्य स्थानिवद्भावो न भवति वलि लोपः। अथ व्रश्चकः, व्रश्चन इत्यत्र रेफे वलि परतो वकगारलोपः कस्मान्न भवति? इत्याह--`व्रश्चादीनाम्` इत्यादि। यद्येषामपि लोपः स्यात्, वकारोच्चारणमनर्थकं स्यात्। अतश्चोच्चारणसामथ्र्याद्व्रश्चादीनां वलि लोपो न भवति। स्यादेतत्--वृश्चति, वव्रश्चेत्यत्र सम्प्रसारणे हलादिशेषे च वकारस्य श्रवणं यथा स्यात्, तत्? कुत उपदेशस्य वैयथ्र्यम्? अत आह--`वृश्चति` इत्यादि। यथा व्रश्चक इत्यादौ लोपस्य प्राप्तिः, एवं वृश्चतीत्यादावपि सम्प्रसारणादौ कार्ये कृतेऽपि; तस्य बहिरङ्गत्वेनासिद्धत्वात्। तत्र सम्प्रसारणं ङित्प्रत्ययापेक्षत्वात्? बहिरङ्गम्। हलादिशेषेऽभ्यासापेक्षत्वाद्बहिरङ्गः, वलि यलोपस्तु वर्णमात्राश्रयत्वादन्तरङ्गः। तस्मात्? सर्वत्रैव व्रश्चेर्वकारलोपः प्राप्नोति। क्रियते चास्यो पदेशः, अत उपदेशसामथ्र्यान्न भविष्यतीति तदेवावस्थितम्॥
धातोरिति प्रकृतमित्यादि। एतद् ठ्धात्वादेः षः सःऽ इत्यत्र व्याख्यातम्। दिदिवानिति। दिवेः क्वसौ रूपम्। ठ्वस्वेकाजाद्घसाम्ऽ इति नियमादिडभावः। अत्र वक्तव्यमस्ति तद् ठ्वस्वेकाजाद्घसाम्ऽ इत्यत्र वक्ष्यामः। ठूयी तन्तुसन्तानेऽ, ठ्क्नूयी शब्देऽ। आस्रेमाणमिति। ठ्स्रिवु गतिशोषणयोःऽ, औणादिको मनिन्, नञा समासः। ननु च सतः कार्यिणः कार्येण भवितव्यमिति पूर्वं कार्यिनिर्द्देशो युक्तः, पश्चात्कार्यनिर्द्देशः--ठ्व्योर्वलि लोपःऽ इति, लाघवं च भवत्यर्द्धमात्रया, तत्किमर्थं पूर्वं लोपग्रहणं कृतम्? इत्यत आह--पूर्वं लोपग्रहणमित्यादि। पूर्वं लोपग्रहणेनायमर्थः सूच्यते--विध्यन्तरात्पूर्वमेवायं लोपो भतीति, कण्कडूअयतेर्यलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भवितव्यम्। कण्डूअयतेः क्विबिति। ठ्कण्ड्वादिभ्यो यक्ऽ इत्यत्र भाष्यम्--ठ्नैतेब्यः क्विब् दृश्यतेऽ इति, तस्मात्कण्डूअमिच्छतीति क्यजन्तात्क्विब् दृष्टव्यः। द्विविधा हि कण्कड्वादयः--धातवः, प्रातिपदिकानि च। तत्र धातुभ्यो यग्विधानात्प्रातिपदिकेभ्यः क्यजादयो भवन्त्येव, तत्र क्यजन्तात्किवपि कृते--अतो लोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भाव्यम्। अथाप्यार्द्धधातुक इति विषयसप्तम्याश्रयणात्पूर्वमतो लोपः, पश्चात्किवप्? एवमपि क्विलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपः स्तात्, तस्मिश्च सति निमिताभावादलाश्रये प्रत्ययलक्षणाभावात्स्थानिवद्भावाभावाच्च वलि लोपो न स्यात् पूर्वलोपग्रहणाच्च भवति। अथात्र लोपस्य स्थानिवद्बावादुवङ् करमान्न भवति ? उच्यते; क्यजन्तात्क्विबित्युक्तम्, ततः किम् ? स्थानिवद्भावेनापि कण्कडूअमात्रस्य धातुत्वाभावादुवह् न भवति। यणादेशस्तर्हि प्राप्नोति ? अस्तु यण्, तस्योठ करिष्यते। न चोठयपि कर्तव्ये स्थानिवद्भावः, आदिष्टदचः पूर्वत्वाद्वकारस्य, अत एव कण्कडुवावित्यादावूणुवङदिषु कर्तव्येषु नास्त्यल्लोपस्य स्थानिवद्भावः। अथ व्रश्चकः, व्रश्चनमित्यादौ रेफे वलि परतो वकारस्य लोपः कस्मान्न भवति? तत्राह--व्रश्चादीनामित्यादि। ननु वृश्चति, वव्रश्चेत्यादौ सम्प्रसारणे कृते हलादिशेषे च वकारस्य श्रवणं यथा स्यादित्येतदुपदेशस्य प्रयोजनं स्यात्, न ह्यत्र लोपः प्रवर्तते, वल्परत्वाभावदित्यत आह--वृश्चति वव्रश्चेत्यादावपीत्यादि। बहिरङ्गत्वादिति। बहिरङ्गत्वं सम्प्रसारणस्य क्डित्प्रत्ययोपेक्षत्वात्, हलादिशेषस्य त्वभ्यासापेक्षत्वात्, ततश्चाकृतयोरेव तयोर्वलोपः प्राप्त उपदेशसामर्थ्यादेव न भवति। अत्र भाष्ये वलोपः प्रत्याख्यातः। आस्रेमाणम्, जीरदानुरित्यत्र छान्दसो वर्णलोपः, क्वसावपि छान्दस एव, दिविप्रबृतीनां यङ्लुगन्तानां तसादिषूठा भवतिव्यम्, तिप्सिपोरीडभावपक्षेषूठा भवितव्यम्। ये तत्र क्ङितीति नानुवर्तयन्ति-देदिविति देद्योति, देदिवीषि देद्योषि, मिपि त्वनुनासिकत्वादेव भवति, देदिवीमि देद्योमि; ये त्वनुवर्तयन्ति तेषामपि छान्दसो यङ्लुगिति ॥
सिद्धान्तकौमुदी
वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥
लोपो व्योर्वलि - लोपो व्योर्वलि । "व्"य् अनयोद्र्वन्द्वात् षष्ठीद्विवचनम् । तदाह — वकारयकारयोरिति । पुंवद्भाव इति ।स्त्रियाः पुंवदि॑त्यनेने॑ति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् ।
लोपो व्योर्वलि - लोपो व्योर्वलि ।व्योर्लोप॑इति वक्तव्येवेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेन॑इति ज्ञापयितुमादौ विधेयनिर्देशः कृतः । तेन सुखीयतेः क्विपि सुखीरिति सिद्ध्म् ।
लघुसिद्धान्तकौमुदी
भवेत्। भवेताम्।
महाभाष्यम्
लोपो व्योर्वलि (2503) (लोपाधिकरणम्) (6074 उपसंख्यानवार्तिकम् ।। 1 ।।) - व्योर्लोपे क्वावुपसंख्यानम् - व्योर्लोपे क्वावुपसंख्यानं कर्तव्यम् । इहापि यथा स्यात् ‐ - कण्डूयतेरप्रत्ययः ‐ - कण्डूरिति । किं पुनः कारणं न सिध्यति ? वलीत्युच्यते, न चात्र वलादिं पश्यामः । ननु चायं क्विबेव वलादिः । क्विब्लोपे कृते वलाद्यभावान्न प्राप्नोति ।। एवं तर्हि ‐ - इदमिह संप्रधार्यम् ‐ - क्विब्लोपः क्रियताम् ‐ - यलोप इति, किमत्र कर्तव्यम् ? परत्वात् क्विब्लोपः, नित्यत्वाच्च । नित्यः खल्वपि क्विब्लोपः । कृतेऽपि यलोपे प्राप्नोत्यकृतेऽपि प्राप्नोति । नित्यत्वात्परत्वाच्च क्विब्लोपः । क्विब्लोपे कृते वलाद्यभावाद्यलोपो न प्राप्नोति ।। (उपसंख्यानप्रत्याख्यानभाष्यम्) एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् । यदि वा कानिचिदन्यान्यपि वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति ।। अथवैवं वक्ष्यामि ‐ - लोपो व्योर्वलि । ततः ‐ - वेः । व्यन्तयोश्च व्योर्लोपो भवति । ततः ‐ - अपृक्तस्य । अपृक्तस्य च लोपो भवति । वेरित्येव ।। (6075 व्योर्वकाराक्षेपवार्तिकम् ।। 2 ।।) - वलोपाप्रसिद्धिरूङ्भाववचनात् - वलोपस्याप्रसिद्धिः ‐ - आस्रेमाणम्, जीरदानुरिति । किं कारणम् ? उङ्भाववचनात् । च्छोः शूडनुनासिके च 6|4|19 इत्यूठ् प्राप्नोति ।। (6076 वकारग्रहणेऽतिप्रसङ्गापादकवार्तिकम् ।। 3 ।।) - अतिप्रसङ्गो व्रश्चादिषु - व्रश्चादिषु चातिप्रसङ्गो भवति । इहापि प्राप्नोति ‐ - व्रश्चनः, व्रीहयः, व्रण इति ।। (अतिप्रसङ्गनिरासे वार्तिकावतरणभाष्यम्) उपदेशसार्मथ्यात्सिद्धम् । उपदेशसार्मथ्यात् व्रश्चादिषु लोपो न भविष्यति ।। (6077 आक्षेपवार्तिकम् ।। 4 ।।) - उपदेशसार्मथ्यात्सिद्धमिति चेत्संप्रसारणहलादिशेषेषु सार्मथ्यम् - उपदेशसार्मथ्यात्सिद्धमिति चेत्, अस्त्यन्यदुपदेशवचने प्रयोजनम् । संप्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणं यथा स्यात् ‐ - वृक्णः, वृक्णवान्, वृश्चति, विव्रश्चिषतीति ।। (6078 समाधानवार्तिकम् ।। 5 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा एतत्प्रयोजनमस्ति । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गाः संप्रसारणहलादिशेषाः, अन्तरङ्गो लोपः । असिद्धं बहिरङ्गमन्तरङ्गे ।। (6079 व्योर्वकारप्रत्याख्यानवार्तिकम् ।। 6 ।।) - अनारम्भो वा - अनारम्भो वा पुनर्वलोपस्य न्याय्यः । कथम् ‐ - आस्रेमाणम्, जीरदानुरिति ? (6080 अनुपपत्तिपरिहारवार्तिकम् ।। 7 ।।) - आस्रेमाणं जीरदानुरिति वर्णलोपात् - आस्रेमाणं जीरदानुरिति च्छान्दसाद्वर्णलोपात्सिद्धम् ।। (6081 अनुपपत्तिपरिहारे दृष्टान्तवार्तिकम् ।। 8 ।।) - यथा संस्फानो गयस्फानः - तद्यथा ‐ - संस्फायनः ‐ - संस्फानः, गयस्फायनः ‐ - गयस्फान इति ।।