Page loading... Please wait.
6|1|65 - णो नः
॥ तस्मै पाणिनये नमः ॥
6|1|65
SK 2286
णो नः  
सूत्रच्छेदः
णः (षष्ठ्येकवचनम्) , नः (प्रथमैकवचनम्)
अनुवृत्तिः
उपदेशे  6|1|45 (सप्तम्येकवचनम्) , धात्वादेः  6|1|64 (षष्ठ्येकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
उपदेशे धात्वादेः णः नः
सूत्रार्थः
औपदेशिकावस्थायाम् धातोः आदौ स्थितस्य णकारस्य नकारादेशः भवति ।
यदि औपदेशिक-अवस्थायाम् धातोः आदौ णकारः अस्ति, तर्हि तस्य नित्यम् नकारादेशः भवति । यथा -
णीञ् (प्रापणे) → नी । णु (स्तुतौ) → नु । णट (नृत्तौ) → नट् ।

अयं विधिः प्रक्रियायाः प्रारम्भे एव भवति । अस्मै किमपि निमित्तम् न आवश्यकम् ।

एते धातवः, येषाम् आदौ णकारः अस्ति, ते सर्वे "णोपदेशाः धातवः" नाम्ना ज्ञायन्ते । धातुपाठे उपस्थितानाम् सर्वेषाम् णोपदेश-धातूनाम् विषये अस्य प्रसक्तिः अस्ति ।

प्रश्नः - यदि धातोः आदौ स्थितस्य णकारस्य नकारादेशः नित्यं भवति, तर्हि औपदेशिक-अवस्थायाम् धातौ णकारविधानम् किमर्थम् कृतम् अस्ति?
उत्तरम् - धातुपाठे कानिचन कार्याणि तेषां धातूनाम् विषये एव उक्तानि सन्ति येषां औपदेशिक-अवस्थायाम् णकारः दत्तः अस्ति । यथा - उपसर्गादसमासेऽपि णोपदेशस्य 8|4|14 अनेन सूत्रेण उपसर्गस्थ-रेफषकारेण धातोः नकारस्य णत्वं तदा एव विधीयते यदा धातौ उपस्थितः नकारः औपदेशिक-अवस्थायाम् णकारस्य रूपे उपस्थितः अस्ति । यथा - "प्र + णमँ" इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् भवति -
प्र + णमँ
→ प्र + नम् [णो नः 6|1|65 इत्यनेन णकारस्य नकारः]
→ प्र + नम् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ प्र + नम् + तिप् [तिप्तस्.. 3|4|78 इति तिप्]
→ प्र + नम् + शप् + ति [कर्तरि शप् 3|1|68 इति शप्]
→ प्रणमति [उपसर्गादसमासेऽपि णोपदेशस्य 8|4|14 इत्यनेन णोपदेश-धातोः नकारस्य णत्वम्]
परन्तु यस्मिन् धातोः औपदेशिक-अवस्थायाम् नकारः एव अस्ति, तस्य विषये अनेन सूत्रेण णत्वं न विधीयते । यथा - "प्र + नर्द्" अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् "प्रनर्दति" इति जायते । अत्र णत्वं न भवति यतः अयं धातुः णोपदेशः नास्ति ।
One-line meaning in English
A णकार present at the beginning of औपदेशिक form of a धातु is converted to नकार.
काशिकावृत्तिः
धातोरादेः इत्यनुवर्तते। धातोरादेर् णकारस्य नकार आदेशो भवति। णीञ् नयति। णम नमति। णह नह्यति। धात्वादेः इत्येव, अणति। सुब्धातोरयम् अपि नेष्यते, णकारम् इच्छति णकारीयति। उपसर्गादसमासे ऽपि णोपदेशस्य 8|4|14 इत्यत्र णत्वविधेर् व्यवस्थार्थं णादयो धात्वः केचिदुपदिष्यन्ते। के पुनस् ते? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते, सर्वे णादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृवर्जम्।
`सुब्धातोरयमपि नेष्यते` इति। पूर्वस्मदेव हेतोः। `उपसर्गादसमासेऽपि` इत्यादि। अत्र पूर्वानुसारेण पूर्वपक्षो विज्ञेयः। `नृतीनन्दि` इत्यादि। `नृती गात्रविक्षे#एपे` (धातुपाठः-1116), `टुनदि समृद्धौ` (धातुपाठः-67), `नर्द गद्र्द शब्दे` (धातुपाठः-56,57), `नक्क वक्क [`धक्क`--घातुपाठः] नाशने` (धातुपाठः-1593,1594), `नट अवस्यन्दने` [अवस्पन्दने--घातुपाठः] (धाचपा।1545) चुरादिणिजन्तः, `नाथृ नाधृ याञ्चोपतापैआर्याशीःषु` (धातुपाठः-6।7), `नृ नये` (धातुपाठः-809,1495)॥
अणतीति। णोपदेशस्तु निरणतीत्यादौ ठुपसरगादसमासेऽपि णोपदेशस्यऽ इति णत्वार्थं स्यात्। सुब्धातोरयमपि नेष्यत इति। पूर्ववदेव सर्वे नादय इति प्रयोगे। नृतीनन्दीत्यादि। ठ्नृती गात्रविक्षेपेऽ, ठ्टुअनदि समृद्धौऽ, ठ्नर्द गर्द्द शब्देऽ, ठ्नक्क नाशनेऽ, ठ्नट अवस्यन्दनेऽ चुरादिः, ठ्नाथृ नाधृ याच्ञोपतापैश्वर्येषुऽ ॥
सिद्धान्तकौमुदी
धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्‌-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥
णो नः - णो नः । "ण" इति षष्ठन्तं । "धात्वादेः षः सः" इत्यतोऽनुवर्तनादाह — -धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति ।मेघादि॑रिति शेषः । "णो नः" इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि । अथनृत्ननर्द्नन्दनक्क्नाट्नाथृनानृवर्ज णोपदेशाः॑ इति भाष्यं श्लोकार्धेन सङ्गृह्णाति — णोपदेशास्त्विति ।नर्द शब्दे॑ । "नट अवस्यन्दने" चुरादिः । नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ ।टु नदि समृद्धौ॑ ।नक्क नाशने॑ । नृ नये॑ ।नृती गात्रविक्षेपे॑ एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः ।नाटी॑ति ण्यन्तस्य प्रयोजनमाह — नाटेरिति । घटादिरिति ।नटनृत्ता॑विति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह — तवर्गेति । तवर्गचतुर्थान्तनाधधातोर्नृनन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् ।
णो नः - णो नः । धातोरिति ।धात्वादेः षः सः इत्यतोऽनुवर्तनाद्धात्वादेरित्येव । नेह — अणति । णोपदेशान्पर्युदासमुखेनाह — णोपदेशास्त्विति ।नर्द शब्दे॑ ।नट अवस्यन्दने॑ । चुरादिः । यस्तु नट नृत्ताविति घटादिः स नेह गृह्रते, नाटीति दीर्घनिर्देशात् ।नाथृ नाधृ याच्ञादौ॑ ।टुनदि समृद्धौ॑ ।नक्क नाशने॑ ।नृ नये॑ ।नृती गात्रविक्षेपे॑ । एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः । तवर्गेति । तेषां मते तु पञ्चब्यो भिन्ना णोपदेशाः ।
लघुसिद्धान्तकौमुदी
धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥
महाभाष्यम्
णो नः (2502) (नत्वाधिकरणम्) (सूत्रप्रयोजनभाष्यम्) अथ किमर्थं णकारमुपदिश्य तस्य नकार आदेशः क्रियते, न नकार एवोपदिश्यते ? लघ्वर्थमित्याह । कथम् ? अविशेषेणायं णकारमुपदिश्य तस्य नकारमादेशमुक्त्वा तस्य लघुनोपायेन णत्वं निर्वर्तयति ‐ - उपसर्गादसमासेऽपि णोपदेशस्य 8|4|14 इति । इतरथा हि येषां णत्वमिष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात् । (णोपदेशपरिगणनभाष्यम्) के पुनर्णोपदेशा धातवः पठितव्याः ? कोऽत्र भवतः पुरुषकारः ? यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम् । अन्तरेणापि पाठं किंचिच्छक्यते वक्तुम् । कथम् ? सर्वे नादयो णोपदेशाः, नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनॄवर्जम् ।।