Page loading... Please wait.
6|1|57 - नित्यं स्मयतेः
॥ तस्मै पाणिनये नमः ॥
6|1|57
SK 2596
नित्यं स्मयतेः  
सूत्रच्छेदः
नित्यम् (प्रथमैकवचनम्) , स्मयतेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
णौ इति वर्तते, हेतुभये इति च। नित्यग्रहणाद् विभाषा इति निवृत्तम्। ष्मिङीषद्धसने इत्यस्य धातोः हेतुभये ऽर्थे णौ परतो नित्यमकारादेशो भवति। मुण्डो विस्मापयते। जटिलो विस्मापयते। भये इति किम्? कुञ्चिकया एनं विस्मापयति। भयशब्देन हेत्वर्थसामान्या, इह स्मयतेरर्थो ऽभिधीयते। न हि मुख्ये भये स्मयतेर् वृत्तिरस्ति।
`भयशब्देन धात्वर्थसाम्यात्` इत्यादि। यश्च बिभेतरर्थो यश्च स्मयतेः, तौ द्वापि सदृशौ; चित्तविकार स्वभावतया। द्वावपि तौ चित्तसंक्षोभलक्षणौ, अतो द्वयोरपि यत्? सामान्यं तत्? सादृश्यम्। तस्माद्भयशब्देनात्र स्मयतेरर्थोऽभिधीयते। दृश्यते हि सादृश्यादर्थान्तरेऽपि शब्दानां वृत्तिः, यथा--सिंहो माणवक इति। किं पुनः कारणमेवं व्याख्यायते? इत्याह--`न हि` इत्यादि। `हेतुभये` 6|1|55 इत्यनुवत्र्तते। उच्यते चेदं विशेषणम्। न च मुख्ये भये स्मयतेर्वृत्तिस्ति। तत्र सामथ्र्यात्? केनचित्? सादृश्येन स्मयत्यर्थ एव भयशब्देनात्राभिधीयत इति विज्ञायते॥
धात्वर्थसामान्यादिति। सामान्यमुसादृश्यम्, धात्वर्थयोः सामान्यं धात्वर्थसामान्यम्, द्वयोरपि धात्वोरर्थो चितविकारस्वभावौ, तेन भयशब्देन स्मयतेरर्थेऽभिधीयते, ठ्क्रीङ्जीनां णौऽ इत्यत्र स्मयतिर्नोक्तः, ठ्हेतुभयेऽ इत्युपाधिं वक्ष्यामीति ॥
सिद्धान्तकौमुदी
स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥
नित्यं स्मयतेः - नित्यं स्मयतेः । "आदेच उपदेशे" इत्यत एच इति, आदिति चानुवर्तते । चित्फुरो॑रित्यतो णाविति, "बिभेतेर्हेतुभये" इत्यतो हेतुभये इति च । तत्र च भयग्रहणं स्मयस्याप्युपलक्षणम्, अत्र तु स्मय एव विवक्षितः, स्मयतेर्भीत्यर्थकत्वाऽसंभवात् । तदाह — स्मयतेरेच इत्यादि । "विभाषा लीयते" रित्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ "बिभेतेर्हेतुभये" इति,नित्यं स्मयते॑रिति च आत्त्वविधौ,भीस्म्योर्हेतुभये॑इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह — हेतोश्चेद्भयस्मयावित्युक्तेर्नेहेति । कुञ्चिकयैनमिति । केशबन्धविशएषः कुञ्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाऽभावादात्त्वं षुक् च नेति भावः । आक्षिपति — कथमिति । रघुवंशकारव्ये — तमार्यगृह्रं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्मापयन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥ इति श्लोके विस्मापयन्निति कथमित्याक्षेपः । प्रयोजकाद्भ्याऽभावेन आत्त्वपुगनुपपत्तेरिति भावः । ननु मनुष्यवागेव तत्र प्रयोजिककेत्यत आह — मनुष्येति । मनुष्यवाचेति तृतीयान्तगम्यकरणान्मनुष्यवागात्मकादेव हि तत्र स्मयः । ननु करणभूताऽपि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह — अन्यथेति । मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे "भीस्म्योर्हेतुभये" इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव, किन्त्वात्त्वपुगाक्षेपो न युज्यते इत्यद्र्धाङ्गीकरेण परिहरति - सत्यमिति । विस्माययन्नित्येति । णौ आयादेशे स्मायीत्यस्माल्लटः शतरि शपि णेर्गुणे अयादेशे विस्माययन्नित्येव कालिदासो महाकविः प्रायुङ्क्त । "विस्मापय" न्निति पकारपाठस्तु लेखप्रमादकृत इति भावः । यद्वेति । राजा दिलीपो विस्मयते । तं सिंहोच्चारिता मनुष्यवाक् प्रयोजयति — विस्मापयते मनुष्यवाक् राजानम् । अत्र मनुष्यवाक् प्रयोजककत्र्री । राजा तु प्रयोज्यकर्तेति स्थितिः । अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूलकत्वादात्त्वे पुक् । मूलेप्रयोज्यकत्र्री॑त्येव पाठः सुगमः । तां विस्मापयमानां प्रयोजककत्र्री मनुष्यवाचं प्रयोजयति सिंहः विस्मापयति । स्मापीति ण्यन्ताण्णौ प्रथमणेर्लोपे स्मापि इत्यस्माच्चतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयन्निति भवतीत्यप्रेत्य आह — तया सिंह इति । प्रयोजककर्तरि तृतीया । आत्मनेपदं भीस्मिप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.