॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
6|1|51
SK 2509
6|1|51
विभाषा लीयतेः  
SK 2509
सूत्रच्छेद:
विभाषा - प्रथमैकवचनम् , लीयतेः - षष्ठ्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ल्यपि इति वर्तते, आदेच उपदेशे इति च। लीङ् श्लेषणे इति दिवादिः। ली श्लेषणे इति क्र्यादिः। तयोः उभयोः अपि यका निर्देशः स्मर्यते। लीयतेर् धतोः ल्यपि च एचश्च विषये उपदेशे एव अलो ऽन्त्यस्य स्थाने विभाषा आकारादेशो भवति। विलता। विलातुम्। विलातव्यम्। विलाय। विलेता। विलेतुम्। विलेतव्यम्। विलीय। निमिमीलियं खलचोः प्रतिषेधो वक्तव्यः। ईषत् प्रमयः। प्रमयो वर्तते। ईषन्निमयः। निमयो वर्तते। ईषद् विलयः। विलयो वर्तते। अत्र तु लियो व्यवस्थितविभाषाविज्ञानात् सिद्धम्। एवं च प्रलम्भनशालीनीकरनयोश्च णौ नित्यमात्त्वं भवति, कस्त्वामुल्लापयते, श्येनो वर्तिकामुल्लापयते।
`तयोरुभयोरपि यका निर्देशः स्मर्यते` इति। आचार्यैः। अथ दैवादिकस्यायं श्यना निर्देशः कस्मान्न विज्ञायते? अत एव निर्देशात्। यदि दैवादिक एवात्र निर्देष्टुमभीष्टः स्यात्, अनुबन्धेन लीङ इति निर्देशं कुर्यात्। तस्मात्? साधारणेनागन्तुकेन यकायमुभयोर्निर्देशः। `ईषत्प्रमयः` इति। `ईषद्दुःसुषु` 3|3|126 इत्यादिना खल्। `निमयो वत्र्तते` इति। `एरच्` 3|3|56 इत्यच्। `अत्र तु लियो व्यवस्थितविभाषया विज्ञानात्? सिद्धम्` इति। `लियः` इत्युपलक्षणमात्रम्, इतरयोरपि सिद्ध एव; विभाषाग्रहणस्य पूर्वेणापि सूत्रेण सम्बन्धात्। व्यवस्थितविभाषाविज्ञानात्? प्रलम्भनशालीनीकरणयोश्च णौ नित्यमात्त्वं भवति। व्यवस्थितविभाषाविज्ञानादेव। `उल्लापयते, अपलापयते` इति। `लियः सम्माननशालीनीकरणयोः` 1|3|70 इत्यात्मनेपदम्॥
तयोरुबयोरपि यकाऽयं निर्द्देशः क्रियते इति। यदि तु दैवादिकस्यैव श्यना निर्द्देशः क्रियेत, ठ्लीङ्ःऽ इत्येव ब्रूयादिति भावः। शितपः शित्करणसामर्थ्याच्चाबावकर्मवाचित्वेऽपि यग् भवति, यथा--अकर्तृवाचित्वशबादयः--ठ्भवतेरःऽ इत्यादौ। खलचोरिति। पचाद्यच एरचश्च सामान्येन ग्रहणम्। एवं चेति। व्यवस्थितविभाषाविज्ञानादेवेत्यर्थः। उल्लापयत इति। ठ्लियः सम्माननशालीनीकरणयोश्चऽ इत्यात्मनेपदम् ॥
सिद्धान्तकौमुदी
लीयतेरिति यका निर्देशो न तु श्यना ॥ लीलीङोरात्वं वा स्यादेज्विषये ल्यपि च । लेता । लाता । लेष्यते । लास्येत । एज्विषये किम् । लीयते । लिल्ये । 1140 व्रीङ् वृणोत्यर्थे । व्रीयते । विव्रिये । (गणसूत्रम् -) स्वादय ओदितः । तत्फलं तु निष्टानत्वम् । 1141 पीङ् पाने । पीयते । 1142 माङ् माने । मायते । ममे । 1143 ईङ् गतौ । ईयते । अयांचक्रे । 1144 प्रीङ् प्रीतौ । सकर्मकः । प्रीयते । पिप्रिये ॥ अथ परस्मैपदिनश्चत्वारः । 1145 शो तनूकरणे
विभाषा लीयतेः - विभाषा लीयतेः । ननु लीयतेरिति श्यना निर्देशात् "लीङ् श्लेषणे" इति स्नाविकरणस्य ग्रहणं न स्यादित्यत आह — यका निर्देश इति ।सार्वधातुके य॑गिति विहितयका लीयतेरिति निर्देशः । स च श्यन्श्नान्तसाधारणः,यक उभयत्रापि साधारण्यादिति भावः ।मीनातिमिनोती॑त्यतो ल्यपीति, "आदेचः" इत्यत आदिति, एच इति चाऽनुवर्तते । तदाह — लीलीङोरित्यादिना । स्वादय ओदित इति । धातुपाठपठितं गणसूत्रमिदम् । "षूङ् प्राणिप्रसवे" इत्यारभ्य व्रीङन्ता ओदित्कार्यभाज इत्यर्थः । निष्ठानत्वमिति ।ओदितश्चे॑त्यनेनेति भावः । प्रीङ् प्रीताविति । प्रीतिस्तुष्टिः ।मुत्प्रीतिः प्रमदो हर्षः॑ इत्यमरः । एवं सत्यकर्मकः । यथा — फलमूलादिना हरिः प्रीयते । ह्मष्यतीत्यर्थः ।यदा तु प्रीतिः तर्पणं, "प्रीञ् तर्पणे" इति क्रैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्तः, तदा तु सकर्मकः । तदाह — सकर्मक इति । प्रीयते इति । तर्पयतीत्यर्थः । अथ चत्वारः परस्मैपदिन इति । "दो अवखण्डने" इत्यन्ता इति भावः । शो तनूकरणे । अनिट् ।
विभाषा लीयतेः - यकेति ।सार्वधातुके य॑गिति विहितेन । न तु श्यनेति । अन्यथालीङ॑ इत्येव ब्राऊयादिति भावः । यका निर्देशस्य फलमाह — लीलीङोरिति । ल्यपि — विलाय । विलीय । व्ीङ् । वृणोत्यर्थो — वरणम् । वृञ् वरण इति स्वादौ पठिष्यमाणत्वात् ।वरणे॑ इति वक्तव्ये वृणोत्यर्थ इति वचनं वैचित्र्यार्थम् । व्री वरण इति क्र्यादौ । माङ् । मायत इति ।घुमास्थे॑ तीत्तवं तु न, तत्राद्र्धधातुक इत्यधिकारात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषा लीयतेः (2488) (लीयतेः इति निर्देशार्थबोधकभाष्यम्) किमिदं लीयतेरिति ? लिनातिलीयत्योर्यका निर्देशः ।।