Page loading... Please wait.
6|1|47 - स्फुरतिस्फुलत्योर्घञि
॥ तस्मै पाणिनये नमः ॥
6|1|47
SK 3185
स्फुरतिस्फुलत्योर्घञि   🔊
सूत्रच्छेदः
स्फुरति-स्फुलत्योः (षष्ठीद्विवचनम्) , घञि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अदेचः इति वर्तते। स्फुर स्फुल चलने इत्येतयोर् धात्वोः एचः स्थाने घञि परतः आकारादेशो भवति। विस्फारः। विस्फालः। विष्फारः। विष्फालः स्फुरतिस्फुलत्योर् निर्निविभ्यः 8|3|76 इति वा षत्वम्।
`विस्फारः, विस्फालः` इति। भावे घञ्, `हलश्च` 3|3|121 इति करणाधिकरणयोर्वा॥
यद्यपि करोतेः ठीङ् गतौऽ इत्येतस्य यणादेशे ङिति रूपं सम्भवतति, तथापि ठेचःऽ इत्यधिकारात्करोतेस्तावद् ग्रहणं न सम्भवति। तथा ईङेऽपि ग्रहणं न भवति, ह्रस्वान्तेन परेण जयतिना साहचर्यात् ॥
सिद्धान्तकौमुदी
अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । उपसर्गस्य घञि-(कौमुदी-1044) इति दीर्घः । परीहारः । इकः काशे (कौमुदी-1045) काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः ।नोदात्तोपदेश (कौमुदी-2763) इति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
स्फुरतिस्फुलत्योर्घञि - आचमेति ।नोदात्ते॑ति सूत्रेअनाचमे॑रित्युक्तत्वादिति भावः । तत्रैव सूत्रे॒ऽनाचमिकमिवमीना॑मिति वार्तिकाद्वृद्धिनिषेधो नेत्याह — कामः वाम इति । अपाणिनीयमिति । श्रमेरुदात्तोपदेशत्वाद्धञि, वृद्धेर्दुर्लभत्वात् । यदि तुधुर्यान्विश्रामय॑न्नित्यादिवण्णिचि वृद्धिमाश्रित्य णिजन्तादेरच् क्रियते तदा रूपं सिध्यति । न च णिच्यपि वृद्धिनिषेधः शङ्क्यः ।नोदात्ते॑त्यत्रकृती॑त्यनुवृत्त्या णिचि निषेधाऽभावात् । न चैवमपिमितां ह्यस्वःर॑ इति ह्यस्वः स्यादिति शङ्क्यं, वेत्यनुवर्त्त्य व्यवस्थिविभाषाश्रयणेन ह्यस्वाऽभावसिद्धेः । परन्तु णिजन्तकल्पनायामर्थो भिद्यत इति भावः । वस्तुतस्तुनिवृत्तप्रेषमाद्धातोः प्राकृतेऽर्थे णि॑जिति विवक्षायां तु न दोष इत्यवधेयम् । एवं चरोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॑ इत्यादिकविप्रयोगाः साधव एवेति बोध्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.