Page loading... Please wait.
6|1|38 - लिटि वयो यः
॥ तस्मै पाणिनये नमः ॥
6|1|38
SK 2413
लिटि वयो यः   🔊
सूत्रच्छेदः
लिटि (सप्तम्येकवचनम्) , वयः (षष्ठ्येकवचनम्) , यः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
न सम्प्रसारणम् इति अनुवर्तते। लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति। उवाय, ऊयतुः, ऊयुः। लिड्ग्रहणम् उत्तरार्थम्।
वयेद्र्वौ यणौ, तत्र पूर्वण वकारस्य सम्प्रसारणप्रतिषेधे प्राप्ते यकारस्यानेन सम्प्रसारणं लिटि प्रतिषिद्ध्यते। तत्र प्रतिषिद्धे यकारः सम्प्रसारणभाग्न भवतीति वकारस्य सम्प्रसारणं भवति धातोरभ्यासस्य च; तत्र धातोग्र्रह्रादिसूत्रेण 6|1|16 अभ्यासस्य `लिटब्यासस्योभयेषाम्` 6|1|17 इत्यनेन। अथ किमर्थं लिह्ग्रहणम्, यावता वयेरादेशस्य लिटोऽन्यत्र सम्भवो नास्ति, तद्विधौ `लिटन्यतरस्याम्` 2|4|40 इत्यतो लिङ्ग्रहणानुवृत्तेः, तत्सामथ्र्यादेव लिटि भविष्यति? इत्यत आह--`लिङ्ग्रहणमुत्तरार्थम्` इति। `वेञः` 6|1|39 इति प्रतिषेधो लिटि यथा स्यादित्येवमर्थं लिङ्ग्रहणम्॥
लिङ्ग्रहणमुतरार्थमिति। नेहार्थं लिटः; अन्यत्र वयादेशस्यासम्भवात् ॥
सिद्धान्तकौमुदी
वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥
लिटि वयो यः - लिटि वयो । संप्रसारणं नेति ।न संप्रसारणे संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः । तदाह — ऊयतुरिति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.