Page loading... Please wait.
6|1|30 - विभाषा श्वेः
॥ तस्मै पाणिनये नमः ॥
6|1|30
SK 2420
विभाषा श्वेः  
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , श्वेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
लिड्य्ङोः इति वर्तते, सम्प्रसरणम् इति च। लिटि यङि च श्वयतेर् धातोः विभाषा सम्प्रसारणं भवति। शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। यगि शोशूयते, शेश्वीयते। तदत्र यङि सम्प्रसारणम् अप्राप्तं विभाष विधीयते। लिटि तु किति यजादित्वात् नित्यं प्राप्तं, तत्र सर्वत्रविकल्पो भवति इत्येषा उभयत्रविभाषा। यदा च धातोर् न भवति तदा लिट्यभ्यासस्य उभयेषाम् 6|1|17 इत्यभ्यासस्य अपि न भवति।
`शुशाव` इति। लिटि णलि सम्प्रसारणे कृते वृद्ध्यावादेशौ। `शिआआय` इति। यदा न सम्प्रसारणं तदा वृद्ध्यायादेशौ। `शुशुवतुः, शिइआयतुः, इति। यदा सम्प्रसारणं तदोवङ्, अन्यदेयङ्। `अप्राप्तम्` इति। केनचिवविहितत्वात्। `लिटभ्यासस्योभयेषाम्` 6|1|17 इत्युभयत्रोभयग्रहणादन्यत्? कार्यं प्रवर्तमानमपास्याभ्यासस्य सम्प्रसारणमेव यथा स्यादित्येतदुभयेषांग्रहणस्य प्रयोजनमुक्तम्। ततश्चेयमपि विकल्पं बाधित्वा नित्यं सम्प्रसारण मेव स्यादिति कस्यचिद्भ्रान्तिः स्यात्? अतस्तां निराकर्त्तुमाह--`यदा च` इत्यादि। अत्र आयतेर्विभाषा सम्प्रसारणमुच्यते, यदि कदाचिद्धातोर्न सम्प्रसारणं भवति तदाब्यासस्य स्यात्? ततश्च आयतेः सम्प्रसारणं पाक्षिकं न कृतं स्यात्। स्यादेतत्--लिट्परस्य शक्यतेरिदं विकल्पेन कार्यं विधीयते, तस्य च तदस्त्येवेति? असम्यगेतत्; द्विष्प्रयोगे हि द्विर्वचने क्रियामात्रं भिद्यते, न धातुरूपमिति कुतः पूर्वपरयोः कार्यसम्बन्धं प्रति भेदः? तस्माद्यदा धातोर्न भवति तदाभ्यासस्यापि न भवत्येव॥
शुशावेति। परावपि वृद्ध्यायादेशौ बाधित्वा नित्यत्वात् सम्प्रसारणमन्तरङ्गत्वात्पूर्वत्वम्। शुशुवतुरिति। अत्रापि परत्वात्प्रापमियण्ंó बाधित्वा नित्यत्वात्सम्प्रसारणम्। तत्र कृते परमपि ठेरनेकाचःऽ इति यणं बाधित्वान्तरङ्गत्वात्पूर्वत्वम्, पश्चादुवङदेशः। अन्यत्रेति। पित्सु वचनेषु। तत्र सर्वत्र विकल्प इति। पित्सु तावद्विकल्प्यते; प्रतिषेधकाभावात्। कित्स्वपि परत्वादयं विकल्पः। यजादिलक्षणस्यावकाशः--शूनः, शूनवान्, अस्यावकाशः पिद्ववचनानि; किति लिट।लुभयप्रसंगे परत्वादयं विकल्पः। अब्यासस्यापि न भवतीति। किमिति न भवति? न तावत् परत्वादनेन कल्पेन बाधः, धातोरयं विकल्पः, नाभ्यासस्य। किञ्च--उभयेषांग्रहणस्य स एव विधिर्यथा स्यादिति। तस्माद्वचनमेवात्र शरणम्। यदाह--ठ्स्वेर्लिट।ल्भ्यासलक्षणप्रतिषेधःऽ इति ॥
सिद्धान्तकौमुदी
श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः ॥ ।श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः (वार्तिकम्) ॥ तेन लिट्याभ्यासस्य--(कौमुदी-2408) इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । जॄस्तम्भु--(कौमुदी-2291) इत्यङ् वा ॥
विभाषा श्वेः - संप्रसारणमिति ।ष्यङ संप्रसारणमित्यतस्तदनुवृत्तेरिति भावः । लिटि यङि चेति ।लिङ्यङो॑रित्यनुवृत्तेरिति भावः । शुशावेति । णलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः । अकित्त्वाद्वचिस्वपीत्यस्य नाऽत्र प्राप्तिः । तथा च लिटकित्स्वेकवचनेषु द्वित्वात्प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः ।शुशुवतु॑रित्यादिद्विवचनबहुवचनेषु तु द्वित्वात्प्राग्वचिसवपीति प्राप्तस्य संप्रसारणसय विकलपविधिः । तथा च उभयत्र विभाषेयम् । यङंशे त्वप्राप्तविभाषैवेयम् — शोशूयते । शेआईयते । तत्र णलि एतत्संप्रसारणाऽभावपक्षेआईत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शुआआय इति प्राप्ते आह — आयतेर्लिटभ्यासलक्षणप्रतिषेध इति । लिटभ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथा चइआ॑इत्यभ्यासस्य संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — जृस्तन्भ्विति । तथा च अइआ अ त् इति स्थिते इयङि प्राप्ते —
विभाषा श्वेः - विभाषा श्वेः । लिटि यङि चेति ।लिडङोश्चे॑ति पूर्वसूत्रमिहानुवर्तत इति भावः । उभयत्रविभाषेयम् । लिडंशे अतुसादौ नित्यं प्राप्ते, णलादावप्राप्ते । यङंशे त्वप्राप्तविभाषा । शोशूयते । शेआईयते । संप्रसारणं नेति । अन्यथा शुआआयेत्यादि स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषा श्वेः (2467) (6036 आक्षेपवार्तिकम् ।। 1 ।।) - श्वेर्लिट्यभ्यासलक्षणप्रतिषेधः - श्वेर्लिट्यभ्यासलक्षणं संप्रसारणं नित्यं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । शिश्वियतुः, शिश्वियुः ।। किमुच्यतेऽभ्यासलक्षणस्येति, न पुनः किल्लक्षणस्यापि । किल्लक्षणमपि हि नित्यमत्र प्राप्नोति । किल्लक्षणं श्वयतिलक्षणं बाधिष्यते । यथैव तर्हि किल्लक्षणं श्वयतिलक्षणं बाधते, एवमभ्यासलक्षणमपि बाधेत ।। न ब्रूमोऽपवादत्वात् श्वयतिलक्षणं किल्लक्षणं बाधिष्यत इति । किं तर्हि ? परत्वात् । श्वयतिलक्षणस्यावकाशः पिति वचनानि ‐ - शुशाव, शुशविथ, शिश्वाय, शिश्वयिथ । किल्लक्षणस्यावकाशोऽन्ये कितः ‐ - शूनः, शूनवान् । इहोभयं प्राप्नोति ‐ - शिश्वियतुः, शिश्वियुरिति । श्वयतिलक्षणं भवति विप्रतिषेधेन ।। (समाधानभाष्यम्) अभ्यासलक्षणादपि तर्हि श्वयतिलक्षणं भविष्यति विप्रतिषेधेन । अभ्यासलक्षणस्यावकाशोऽन्ये यजादयः ‐ - इयाज, उवाय । श्वयतिलक्षणस्यावकाशः परं धातुरूपम् ‐ - शुशुवतुः, शुशुवुः, शुशविथ । श्वयतेरभ्यासस्योभयं प्राप्नोति ‐ - शिश्वियुः । श्वयतिलक्षणं भविष्यति विप्रतिषेधेन ।। नैष युक्तो विप्रतिषेधः । न हि श्वयतेरभ्यासस्यान्ये यजादयोऽवकाशः । श्वयतेर्यजादिषु यः पाठः सोऽनवकाशः, तस्यानवकाशत्वादयुक्तो विप्रतिषेधः । तस्मात्सुष्ठूच्यते ‐ - श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेध इति ।।