Page loading... Please wait.
6|1|217 - उपोत्तमं रिति
॥ तस्मै पाणिनये नमः ॥
6|1|217
SK 3733
उपोत्तमं रिति   🔊
सूत्रच्छेदः
उपोत्तमम् (अव्ययम्) , रिति (सप्तम्येकवचनम्)
अनुवृत्तिः
उदात्तः  6|1|159 (षष्ठ्येकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
रिति उपोत्तमम् उदात्तः
सूत्रार्थः
रित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य उपोत्तमः स्वरः नित्यम् उदात्तः भवति
यस्मिन् प्रत्यये रेफः इत्संज्ञकः अस्ति, सः प्रत्ययः "रित्" प्रत्ययः अस्ति इत्युच्यते । एतादृशः रित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य उपोत्तमः स्वरः उदात्तसंज्ञकः भवति ।

किम् नाम उपोत्तमः ? शब्दस्य अन्तिमः स्वरः "उत्तमः" नाम्ना ज्ञायते । तस्मात् यः स्वरः पूर्वः, सः उपोत्तमः । यथा, "साधुम्" अस्मिन् शब्दे धकारोत्तरः उकारः उत्तमसंज्ञकः स्वरः अस्ति, तथा सकारोत्तरः आकारः उपोत्तमः स्वरः अस्ति । रित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य उपोत्तमस्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते ।
यथा -
1. मृदु + जातीयर् → मृ॒दु॒जातीय॑ । अत्र "जातीयर्" अस्य प्रत्ययस्य उपोत्तमः स्वरः अस्ति तकारोत्तरः ईकारः । अस्य स्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते ।
2. कृ + अनीयर् → क॒र॒णीय॑ । अत्र "अनीयर्" अस्य प्रत्ययस्य उपोत्तमः स्वरः अस्ति नकारोत्तरः ईकारः । अस्य स्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते ।
One-line meaning in English
The second last स्वर of the प्रकृति-प्रत्यय-समुदाय that ends in a रित् प्रत्यय becomes उदात्त.
काशिकावृत्तिः
रिदन्तस्य उपोत्तमम् उदात्तं भवति। त्रिप्रभृतीनाम् अन्त्यम् उत्तमम् तस्य समीपे यत् तदुपोत्तमम्। करणीयम्। हरणीयम्। पठुजातीयः। मृदुजातीयः। प्रत्ययस्वरापवादो ऽयम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उपोत्तमं रिति (2654) (पदकृत्यभाष्यम्) उपोत्तमग्रहणं किमर्थम्, न रिति पूर्वम् इत्येवोच्यते ? तत्रायमप्यर्थः ‐ - मतोः पूर्वमात्संज्ञायां स्त्रियाम् (219) इत्यत्र पूर्वग्रहणं न कर्तव्यं भवति ।। एवं तर्हि ‐ - उपोत्तमग्रहणमुत्तरार्थम् । चङ्यन्यतरस्याम् (218) उपोत्तममित्येव । इह मा भूत् ‐ - मा हि स्म दधत् ।।