Page loading... Please wait.
6|1|214 - ईडवन्दवृशंसदुहां ण्यतः
॥ तस्मै पाणिनये नमः ॥
6|1|214
SK 3702
ईडवन्दवृशंसदुहां ण्यतः   🔊
सूत्रच्छेदः
ईड-वन्द-वृ-शंस-दुहाम् (षष्ठीबहुवचनम्) , ण्यतः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ईड वन्द वृ शंस दुह इत्येतेषां यो ण्यत् तदन्तस्य आदिरुदात्तो भवति। ईड्यम्। वन्द्यम्। वार्यम्। शंस्यम्। दोह्रा धेनुः। द्व्यनुबन्धकत्वात् ण्यतो यद् ग्रहणेन ग्रहणं न अस्ति इति तित् स्वरितम् 6|1|185 इत्येतत् प्राप्तम्। वार्यम् इति वृङ् सम्भक्तौ इत्यस्य अयं ण्यत्। क्यब्विधौ हि वृञ एव ग्रहणम् इष्यते।
`ईड स्तुतौ` (धातुपाठः-1667) `वदि अभिवादनस्तुत्योः` (धातुपाठः-11) `वृङ्? सम्भक्तौ` (धातुपाठः-1509) `शंस स्तुतौ` (धातुपाठः-728) [शंसु--धातुपाठः-] `दुह प्रपूरणे` (धातुपाठः-1014)--एतेभ्यो धातुभ्यः `ऋहलोण्र्यत्` 3|1|124 इति ण्यत्? प्रत्ययः। कस्मिन्? पुनः प्राप्त इदमारभ्यते? इत्याह--`द्व्यनुबन्धकत्वात्` इत्यादि। अथ कथं पुनर्वार्यमित्यत्र ण्यत्प्रत्ययः, यावता `एतिस्तुशासु` 3|1|109 इत्यादिना विशेषविहितेन क्यपा भवितव्यम्? इत्याह--`वार्यम्` इत्यादि। ननु च वृङोऽपि क्यपैव भवितव्यम्। `वृ` इति सामान्यनिर्देशात्? इत्याह--`क्यब्विधौ हि` इत्यादि॥
ठीह स्तुतौऽ, ठ्वदि अभिवादनस्तुत्योःऽ, ठ्वृङ्सम्भक्तौऽ, ठ्शंसु स्तुतौऽ, ठ्दुह प्रपूरणेऽ। कथं वार्य इत्यत्र ण्यत्, यावता ठेतिस्तुशासुऽ इत्यादिना विशेषविहितेन क्यपा भाव्यम् ? अत आह--वार्य इत्यादि। अथ वृङेऽपि क्यबेव कस्मान्न भवति ? अत आह--क्यब्विधौ हीत्यादि। एतच्च तत्रैव प्रतिपादितम् ॥
सिद्धान्तकौमुदी
एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । आजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.