Page loading... Please wait.
6|1|207 - आशितः कर्ता
॥ तस्मै पाणिनये नमः ॥
6|1|207
SK 3695
आशितः कर्ता  
सूत्रच्छेदः
आशितः (प्रथमैकवचनम्) , कर्ता (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आशितशब्दः कर्तृवाचि आद्युदात्तो भवति। आशितो देवदत्तः। अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्तः। तत्र था ऽथघञ् 6|2|144 इति प्राप्तः स्वरो बाध्यते। कर्तरि इति किम्? आशितमन्नम्। आशितं देवदत्तेन। पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे।
`अशेः` इति। `अश भोजने` (धातुपाठः-1523) इत्यस्मात् कत्र्तरि क्तो निपात्यते। `गत्यर्थाकर्मक` 3|4|72 इत्यादिना। `पूर्ववत्? कर्मणि क्तः` [`पूर्वत्र`--काशिका] इति। `तयोरेव` 3|4|70 इत्यादिना। `उत्तरत्र भावे` इति। `नपुंसके` `भावे क्तः` 3|3|114 इति॥
अशेरिति। ठश भोजनेऽ इत्यस्मात्। आङ्पूर्वादविवक्षिते कर्मणीति। उक्तं हि--ठ्प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रियाऽ इति। कर्तरि क्त इति। ठ्गत्यर्थाकर्मकऽ इत्यादिना। भाष्ये तु ठ्कर्तरि क्तो निपात्यतेऽ इति स्थितम्। यदि तर्ह्याङ्पूर्वकस्याशेराशित इति रूपम्, अवग्रहः प्राप्नोति, तस्मात् ठुपधादीर्घत्वमपि निपात्यतेऽ इति वार्तिककारः। वृत्तिकारस्तु--ठ्संहितापाठ एव नित्यः, पदपाठस्तु पौरुपेयः, ततश्च न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम्ऽ इति मन्यते। अपर आह---अशेर्ण्यन्तस्य प्रयोज्यकर्तरि ठ्गतिबुद्धिप्रत्यवसानार्थऽ इति कर्मसंज्ञके निष्ठायामाशित इति रूपम्, स एवात्र भूतपूर्वगत्या कर्ता विवक्षित इति ॥
सिद्धान्तकौमुदी
कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आशितः कर्ता (2644) (जिज्ञासाभाष्यम्) किं निपात्यते ? (6320 निपातनबोधकवार्तिकम् ।। 1 ।।) - आशिते कर्तरि निपातनमुपधादीर्घत्वमाद्युदात्तत्वं च - आशित इति कर्तरि निपात्यते । आशितवान् ‐ - आशितः । उपधादीर्घत्वमाद्युदात्तत्वं च निपात्यते ।। (वार्तिकैकदेशप्रत्याख्यानभाष्यम्) आद्युदात्तत्वमनिपात्यम्, अधिकारात् सिद्धम् । उपधादीर्घत्वमनिपात्यम्, आङ्पूर्वस्य प्रयोगः । यद्येवमवग्रहः प्राप्नोति । न लक्षणेन पदकारा अनुर्वत्याः, पदकारैर्नाम लक्षणमनुर्वत्यम् । यथालक्षणं पदं कर्तव्यम् ।।