Page loading... Please wait.
6|1|197 - ञ्नित्यादिर्नित्यम्
॥ तस्मै पाणिनये नमः ॥
6|1|197
SK 3686
ञ्नित्यादिर्नित्यम्  
सूत्रच्छेदः
ञ्निति (सप्तम्येकवचनम्) , आदिः (प्रथमैकवचनम्) , नित्यम् (प्रथमैकवचनम्)
अनुवृत्तिः
उदात्तः  6|1|159 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
ञ्निति आदिः नित्यम् उदात्तः
सूत्रार्थः
ञित् प्रत्यये परे नित्-प्रत्यये च परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यम् उदात्तः भवति ।
यस्मिन् प्रत्यये ञकारः इत्संज्ञकः अस्ति, सः प्रत्ययः "ञित्" प्रत्ययः अस्ति इत्युच्यते । तथैव, यस्मिन् प्रत्यये नकारः इत्संज्ञकः अस्ति, सः प्रत्ययः "नित्" प्रत्ययः अस्ति इत्युच्यते । एतादृशः ञित्/नित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य आदि-स्वरः उदात्तसंज्ञकः भवति । यथा -

1. गर्ग + यञ् → गार्ग्य॑ । अत्र "यञ्" प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।
2. रम् + घञ् → राम॑ । अत्र "घञ्" प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।
3. वासुदेव + वुन् → वासु॑देवक । अत्र "वुन्" प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।
4. धा + तृन् → धातृ॑ । अत्र "तृन्" प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।

ज्ञातव्यम् - यदि कस्मिंश्चित् तद्धितप्रत्यये चकारञकारौ द्वावपि इत्संज्ञकौ स्तः, तर्हि अस्मिन् प्रत्ययस्य संयोगेन निर्मितस्य समुदायस्य वर्तमानसूत्रेण आद्युदात्तत्वे प्राप्ते, तं बाधित्वा तद्धितस्य 6|1|164 इत्यनेन एतादृशस्य शब्दस्य अन्तोदात्तत्वं विधीयते । यथा, गोत्रे कुञ्जादिभ्यः च्फञ् 4|1|98 इत्यनेन "कुञ्ज" शब्दात् च्फञ्-प्रत्यये कृते "कुञ्ज + च्फञ् → कौ॒ञ्जा॒य॒न" इति सिद्ध्यति । अत्र यद्यपि प्रत्ययः ञित्-अस्ति, तथापि प्रत्ययः चित्-अपि अस्ति, अतः वर्तमानसूत्रम् बाधित्वा तद्धितस्य 6|1|164 इत्यनेन अस्य शब्दस्य अन्तोदात्तत्वं विधीयते ।
One-line meaning in English
The word ending in a ञित् or a नित् प्रत्यय become आद्युदात्त.
काशिकावृत्तिः
ञिति निति च नित्यम् आदिरुदात्तो भवति। गर्गादिभ्यो यञ् गार्ग्यः। वात्स्यः। वासुदेवार्जुनाभ्यां वुन् 4|3|98 वासुदेवकः। अर्जुनकः। प्रत्ययस्वरापवादो ऽयं योगः। प्रत्ययलक्षणम् अत्र न इष्यते, तेन गर्गाः, बिदाः, चञ्चाः इत्यत्र यञि कनि च लुप्ते न भवति।
`वासुदेवकः` इति। वासुदेवे भक्तिरस्येत्यर्थे वुन्। अथेह गर्गा, विदा इति `यञञोश्च` 2|4|64 इति बहुषु लुकि कृते, चञ्चेव चञ्चेत्यत्र च `इवे प्रतिकृतौ` 5|3|96 इत्युत्पन्नस्य कनः `लुम्? मनुष्ये` 5|2|97 इति लुपि कृते कस्मान्न भवति, लुप्तेऽपि प्रत्यये `प्रत्ययलोपे प्रत्ययलक्षणम्? 1|1|62 इत्यस्ति प्राप्ति? इत्यत आह--`प्रत्ययलक्षणमत्र नेष्यते` इति। तत्? कथं पुनरिष्यमाणो न भवति? `संज्ञायामुपमानम्` 6|1|198 इत्यत्र वक्ष्यमाणाज्ज्ञापकात्। अथ वा `न लुमताङ्गस्य` 1|1|62 इत्यनेन यन्नाम किञ्चिदङ्गस्य कार्यमङ्गाधिकारे विहितमेव, तेन प्रतिषेधादिह प्रत्ययलक्षणं स्वीकार्यं न भविष्यति। एवमुत्तरात्रापि प्रत्ययलक्षणाभावो वेदितव्यः। `यञि कनि च लुप्ते` इति। चकाराद्विदाधञि च॥
प्रत्ययस्वरापवाद इति। बाहुल्यादेवमुक्तम्। ठ्श्रोत्रियंश्च्छन्दोऽधीतेऽ इत्, अत्र हि वाक्यार्थे पदवचनमित्यत्र पक्षे न प्रत्ययश्वरप्रसङ्गः । प्रत्ययलक्षणमत्र नेष्यत इति। ननु च ठ्न लुमताङ्गस्यऽ इति प्रतिषेधादेव प्रत्ययलक्षणं न करिष्यते, किमुच्यते--प्रत्ययलक्षणमत्र नेष्यत इति ? एवमन्यतो ज्ञापितमेतत्--ठ्स्वरविधौ सप्तम्यस्तदन्तसप्तम्यःऽ इति। ततश्च यथा पूर्वसूत्रे थलन्तं कार्यि; तथात्रापि ञ्निदन्तं न तु ततः पूर्वमङ्गमित्यनङ्गकार्यत्वात्प्रतिषेधो न सिद्ध्यतीति। यञि कनि चेति। चकाराद्बिदाद्यञि च ॥
सिद्धान्तकौमुदी
ञिदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या (यस्मि॒न्विश्वा॑नि॒ पौंस्या॑) । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः (सु॒ते द॑धिष्व न॒श्चनः॑) । चायतेरसुन् । चायेरन्ने ह्रस्वश्च <{उ639}> इति चकारादसुनो नुडागमश्च ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.