Page loading... Please wait.
6|1|193 - लिति
॥ तस्मै पाणिनये नमः ॥
6|1|193
SK 3676
लिति   🔊
सूत्रच्छेदः
लिति (सप्तम्येकवचनम्)
अनुवृत्तिः
उदात्तः  6|1|159 (प्रथमैकवचनम्) , पूर्वम्  6|1|192 (प्रथमैकवचनम्) , प्रत्ययात्  6|1|192 (पञ्चम्येकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
लिति प्रत्ययात् पूर्वम् उदात्तः
सूत्रार्थः
लित्-प्रत्यये परे प्रत्ययात् पूर्वम् उपस्थितः स्वरः उदात्तः भवति ।
यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः "लित्" प्रत्ययः नाम्ना ज्ञायते । एतादृशः लित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य प्रत्ययात् पूर्वः स्वरः अनेन सूत्रेण उदात्तः भवति । यथा -

1. भौरिकि + विधल् → भौ॒रि॒किवि॑ध । अत्र "विधल्" इति प्रत्ययः अस्ति, अतः अस्मात प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, ककारोत्तरः इकारः) अनेन सूत्रेण उदात्तः जायते ।

2. पठ् + ण्वुल् → पाठ॑क । अत्र "ण्वुल्" इति प्रत्ययः अस्ति । अस्मात् प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, पकारोत्तरः आकारः) अनेन सूत्रेण उदात्तः जायते ।

ज्ञातव्यम् - अस्मिन् सूत्रे "अङ्गस्य अन्तिमः स्वरः" इति प्रोक्तम् नास्ति, अपितु "प्रत्ययात् पूर्वः स्वरः" इति उक्तम् अस्ति । किम् अस्य कारणम् ? एकम् उदाहरणम् पश्यामः । कृ-धातोः सन्-प्रत्ययं कृत्वा अग्रे ण्वुल्-प्रत्ययः क्रियते चेत् "कृ + सन् + ण्वुल्" अस्याम् स्थितौ अङ्गस्य अन्तिमः स्वरः अस्ति सकारोत्तरः अकारः । परन्तु अस्य अकारस्य उदात्तत्वम् अनेन सूत्रेण न विधीयते, अपितु प्रकृति-प्रत्यय समुदाये ण्वुल्-प्रत्ययात् पूर्वम् यः स्वरः श्रूयते, तस्य (इत्युक्ते इकारस्य) उदात्तत्वम् अनेन सूत्रेण विधीयते । प्रक्रियां पश्यामश्चेत् प्रायः स्पष्टं भवेत् -
कृ + सन् + ण्वुल्
→ कृ + स + वु [इत्संज्ञालोपः]
→ कृ + स + अक [युवोरनाकौ 7|2|1 इति वु-इत्यस्य अक-आदेशः]
→ कॄ + स + अक [अज्झनगमां सनि 6|4|16 इति दीर्घादेशः]
→ किर् + स + अक [ऋत इद्धातोः 7|1|100 इति ॠकारस्य इकारादेशः । उरण् रपरः 1|1|51 इति सः रपरः]
→ किर् स् किर् स + अक [सन्यङोः 6|1|9 इति द्वित्वम्]
→ चिर् स् किर् स + अक [कुहोश्चुः 7|4|62 इति चकारः]
→ चि किर् स + अक [हलादि शेषः 7|4|60 इति रेफसकारयोः लोपः]
→ चि किर् स् + अक [अतो लोपः 6|4|48 इत्यनेन आर्धधातुके प्रत्यये परे अङ्गस्य अन्तिम-अकारस्य लोपः]
इदानीम् प्रत्ययात् पूर्वः स्वरः अस्ति ककारोत्तरः इकारः । अतः अस्य इकारस्य वर्तमानसूत्रेण उदात्तत्वं विधीयते । अग्रे -
→ चिकीर् सक [हलि च 8|2|77 इति उपधा-इकारस्य दीर्घः]
→ चिकीर्षक [आदेशप्रत्यययोः 8|3|59 इति षत्वम्]

अङ्गस्य अन्तिमः स्वरः यः, स एव सर्वदा प्रत्ययात् पूर्वः स्वरः नास्ति - एतत् अनेन उदाहरणेन स्पष्टं भवेत् ।
One-line meaning in English
For the प्रकृति-प्रत्यय-समुदाय that ends in a लित्-प्रत्यय, the स्वर that comes before the प्रत्यय becomes उदात्त.
काशिकावृत्तिः
लिति प्रत्ययात् पूर्वम् उदात्तं भवति। चिकीर्षकः। जिहीर्षकः। भौरिकिविधम्। भौलिकिविधम्। ऐषुकारिभक्तम्।
`लकारेत्संज्ञके` इति। लकार इत्संज्ञको यस्य स तथोक्तः। `चिकीर्षकः` इति। सन्नन्ताण्ण्वुल्। तत्र `अतो लोपः` 6|4|48 इत्कारलोपे कृते ण्वुलः पूर्वस्येकारस्योदात्तत्वम्। `भौरिकविधम्` इति `भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ` 4|2|53 इति विधल्प्रत्ययः। भौरिकिर्विषयो देश इति `ऐषुकारिभक्तम्` ऐषुकारिर्विषयो देश इति। पूर्वसूत्रेणैव भक्तल्प्रत्ययः॥
प्परत्ययात्पूर्वमिति वर्तते, तेन लिदन्ते स्वरप्रसङ्गो न चोदनीयः ॥
सिद्धान्तकौमुदी
प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.