Page loading... Please wait.
6|1|188 - स्वपादिर्हिंसामच्यनिटि
॥ तस्मै पाणिनये नमः ॥
6|1|188
SK 3672
स्वपादिर्हिंसामच्यनिटि   🔊
सूत्रच्छेदः
स्वपादिः-हिंसाम् (षष्ठीबहुवचनम्) , अचि (सप्तम्येकवचनम्) , अनिटि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
लसार्वधातुकग्रहणं यदनुवर्तते तदचि अनिटि इति सम्बन्धादिह सप्तम्यन्तम् उपजायते स्वपादिरावृत्करणात्। स्वपादीनां हिंसेश्च अजादवनिटि लसार्वधातुके परतो ऽन्यतरस्याम् आदिरुदात्तो भवति। स्वपन्ति, स्वपन्ति। श्वसन्ति, श्वसन्ति। हिंसेः खल्वपि हिंसन्ति, हिंसन्ति। प्रत्ययस्वरेण पक्षे मध्योदात्तः। अचि इति किम्? स्वप्यात्। हिंस्यात्। अनिटि इति किम्? स्वपितः। श्वसितः। ङित्यजादावयं विधिरिष्यते। इह न भवति, स्वपानि, हिनसानि।
`सार्वधातुकग्रहणम्` इत्यादि। `अचि` इत्येतत्? सप्तम्यन्तं लसार्वधातुकस्य समानाधिकरणं विशषणम्, न च प्रथमान्तस्य सप्तम्यन्तेन सामानाधिकरण्यमुपपद्यते। तस्मात्? `अचि` इत्यनेन सम्बन्धाद्विविशेषणविशेष्यलक्षणाल्लसार्वधातुकग्रहणादित्याह--`सप्तम्यन्तमुपजायते। `स्वपादिरा वृत्करणात्` इति। यद्यप्येतदेवम्, तथापि `ञिष्वप्? शये` (धातुपाठः-1068) `आस प्राणने` (धातुपाठः-1069), `अन च` (धातुपाठः-1070) इत्येत एव ये, ते इह स्वपादिग्रहणेन गृह्रन्ते। परेऽपि ये जक्षित्यादयोऽभ्यस्तसंज्ञाः, तेषु परत्वात्? `अभ्यस्तानामादिः` 6|1|183 इत्यनेन नित्यमाद्युदात्तत्वं भवति। `हिंसन्ति` इति। `तृह हिसि हिंसायाम्` (धातुपाठः-1455,1456), रुधादित्वाच्? श्नम्, `श्नसोरल्लोपः` 6|4|111 इत्यकारलोपः `श्नान्नलोपः` 6|4|23 इति परस्य नकारस्य। `स्वप्यात्` इति। लिङ्? अदादित्वाच्छपो लुक्। `स्वपितः` इति। `रुदादिभ्यः सार्वधातुके` 7|2|76 इतीट्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
स्वपादीनां हिंसेश्चानिठ्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । क्ङित्येवेष्यते । नेह स्वपानि । हिनसानि ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्वपादिहिंसामच्यनिटि (2625) (6310 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।) - स्वपादीनां वाववचनादभ्यस्तस्वरो विप्रतिषेधेन - स्वपादीनां वावचनादभ्यस्तस्वरो भवति विप्रतिषेधेन । स्वपादीनां वावचनस्यावकाशः ‐ - स्वपन्ति, श्वसन्ति । अभ्यस्तस्वरस्यावकाशः ‐ - ददति, दधति । इहोभयं प्राप्नोति ‐ - जाग्रति । अभ्यस्तस्वरो भवति विप्रतिषेधेन ।।