Page loading... Please wait.
6|1|175 - नोङ्धात्वोः
॥ तस्मै पाणिनये नमः ॥
6|1|175
SK 3721
नोङ्धात्वोः  
सूत्रच्छेदः
नः (अव्ययम्) , ऊङ्-धात्वोः (षष्ठीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऊङो धातोश्च य उदात्तयण् हलपूर्वः, तस्मात् परा तृतीयादिर् विभक्तिर् न उदात्ता भवति। ब्रह्मबन्ध्वा। ब्रह्मबन्ध्वे। वीरबन्ध्वा। वीरबन्ध्वे। ऊङ् प्रत्ययस्वरेण उदात्तः। तेन सह य एकादेशः सो ऽप्युदात्तः इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8|2|4 इति विभक्तिः स्वर्यते। धातुयणः खल्वपि सकृल्ल्वा। सकृल्ल्वे। खलप्वे। क्विबन्द्तस्य कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तस्य ओः सुपि 6|4|83 यणादेशः।
`ब्राहृबन्ध्वा` इति। ब्राहृआ बन्धुरस्या इति विगृह्र बहुव्रीहिः। तस्मात्? `ऊङुतः` 4|1|66 इत्यूङ्। `तेन सह य एकादेशः सोऽप्युदात्तः` इति। `एकादेश उदात्तेनोदात्तः` 8|2|5 इति वचनात्। `स्वर्यते` इति। स्वरितः क्रियत इत्यर्थः। `कुदुत्तरपद` इत्यादि। ऊकारोऽत्र दातुस्वरेणान्तोदात्तः। सः `गतिकारकोपपादात्` 6|2|138 इत्युदाततस्तिष्ठति प्रकृतिस्वरेण॥
ऊङे धातोश्च य उदातयण् हल्पूर्व इति। अनेन पूर्वस्याः प्राप्तेरयं प्रतिषेध इति दर्शयति। तस्मात्परा तृतीयादिर्विभक्तिरिति। यद्यपि पूर्वसूत्रे ठ्नद्यजादीऽ इत्यनुवर्तते न ठ्तृतीयादिःऽ इति, तथाप्यत्र बाहुल्येन तृतीयादेरेव सम्भवादिधमुक्तम्। तथा हि--ऊङ्धातुयणः परा नदी तावन्न सम्भवति, नाप्यूङ्यणः शस् सम्भवति, धातुयणस्तु सम्भवति ॥
सिद्धान्तकौमुदी
अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृशिनः सुभ्वे (सेत्पृश्निः॑ सु॒भ्वे॑) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.