Page loading... Please wait.
6|1|174 - उदात्तयणो हल्पूर्वात्‌
॥ तस्मै पाणिनये नमः ॥
6|1|174
SK 3720
उदात्तयणो हल्पूर्वात्‌   🔊
सूत्रच्छेदः
उदात्तयणः (पञ्चम्येकवचनम्) , हल्-पूर्वात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उदात्तस्थाने यो यण् हलपूर्वस् तस्मात् परा नदी अजादिर् या असर्वनामविद्भक्तिरुदात्ता भवति। कर्त्री। हर्त्री। प्रलवित्री। प्रसवित्री। कर्त्रा। हर्त्रा। प्रलवित्रा। प्रसवित्रा। तृजन्ता एते ऽन्तोदात्ताः। उदात्तग्रहणं किम्? कर्त्री। हर्त्री। कर्त्रा। हर्त्रा। तृन्नन्तो ऽयम् आद्युदात्तः। हल्पूर्वातिति किम्? बहुतितवा ब्राह्मण्या। नकारग्रहणं कर्तव्यम्। वाक्पत्नी इयं कन्या।
`उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य` 8|2|4 इति प्राप्ते वचनम्। `तृन्नन्तोऽयमाद्युदातः` इति। नित्स्वरेण। `बहुतितवा` इति। वहवस्तितवो यस्या इति बहुव्रीहिः, तया बहुतितवेति। तितौशब्दोऽयं `बहोर्न ञ्चदुत्तरपदभूम्नि` 6|2|174 इत्यन्तोदात्तः। `नकारग्रहणं कत्र्तव्यम्` इति। नकारो गृह्रते येन तन्नकारग्रहणं व्याख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्--इहापि पूर्ववद्बहुलग्रहणमनुवत्र्तते। तेनोदात्तस्य स्थाने यो नकारस्ततोऽपि न भविष्यतीति। अथ वा--नकारस्यात्र प्रश्लेषः--हल्पूर्वात्? `नोङ्धात्वोः` 6|1|73 इति, तथा चायमर्थो भवति--उदात्तयण उदात्तनकारच्चेति। तेनोदात्तनकारादपि भविष्यतीति। `वाक्पत्नी` इति। पतिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। तत्र `विभाषा सपूर्वस्य` 4|1|34 इति नकारान्तादेशः, `ऋन्नेभ्यो ङीप्` 4|1|5 इति ङीप्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उदात्तयणो हल्पूर्वात् (2611) (पदकृत्यभाष्यम्) हल्पूर्वादिति किमर्थम् ? अग्नये, वायवे ।। (6294 न्यासान्तरेण लक्ष्यसिद्धिबोधकवार्तिकम् ।। 1 ।।) - उदात्तयणि हल्ग्रहणं नकारान्तार्थम् - उदात्तयणि हल्ग्रहणं कर्तव्यम् । किं प्रयोजनम् ? नकारान्तार्थम् । नकारान्तादपि यथा स्यात् । वाक्पत्नी, चित्पत्नी ।। (6295 हल्पूर्वग्रहणानर्थक्यबोधकवार्तिकम् ।। 2 ।।) - हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वात् - हल्पूर्वग्रहणं चानर्थकम् । किं कारणम् ? समुदायादेशत्वात् । समुदायोऽत्रादेशः ।। (6296 आनर्थक्योपष्टम्भकवार्तिकम् ।। 3 ।।) - स्वरितत्वे वावचनात् - स्वरितत्वे च हल्पूर्वग्रहणस्यावचनात् मन्यामहे ‐ - हल्पूर्वग्रहणमनर्थकमिति ।। (वार्तिकत्रयप्रत्याख्यानभाष्यम्) यत्तावदुच्यते ‐ - उदात्तयणि हल्ग्रहणं नकारान्तार्थमिति, क्रियते न्यास एव । द्विनकारको निर्देशः ‐ - उदात्तयणो हल्पूर्वान्नोङ्धात्वोरिति ।। यदप्युच्यते ‐ - हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वादिति, अयमस्ति केवल आदेशः ‐ - बहुतितवा, बहुतितवे ‐ - इति ।।