Page loading... Please wait.
6|1|172 - अष्टनो दीर्घात्‌
॥ तस्मै पाणिनये नमः ॥
6|1|172
SK 3718
अष्टनो दीर्घात्‌   🔊
सूत्रच्छेदः
अष्टनः (पञ्चम्येकवचनम्) , दीर्घात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अष्टाभिः। अष्टाभ्यः। अष्टासु। घृतादिपाठातष्टन्शब्दो ऽन्तोदात्तः, तत्र ज्ञल्युपोत्तमम् 6|1|180 इत्यस्य अपवादो विभक्तिरेव उदात्तत्वं विधीयते। दीर्घातिति किम्? अष्टसु प्रक्रमेषु ब्राह्मणो ऽग्नीनादधीत। इदम् एव दीर्घग्रहणम् अष्टन आत्त्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशो ऽष्टनः। स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यते इति किम् दीर्घग्रहणेन।
`अष्टाभिः` इत्यादि। `अष्टन आ विभक्तौ` 7|2|84 इत्यात्त्वम्। `अष्टसु` इति। ननु चात्रापि भवितव्यमेवात्वेन, न हि तद्विधौ विकल्पप्रतिपादकं वचनमस्ति, नापि प्रकृतम्? इत्यत आह--`इदमेव` इत्यादि। यदि हि नित्यमात्वं स्यादिह दीर्घग्रहणमनर्थकं स्यात्, व्यावर्त्त्याभावात्, कृतात्वस्य च षट्संज्ञामिति? इदमेव हि दीर्घग्रहणमष्टनो ज्ञापयतीति सम्बन्धनीयम्। कथं पुनज्र्ञापयति? इत्याह--`अन्यथा हि` इत्यादि। दीर्घग्रहणं ह्रेवमर्थं क्रियते--यत्रात्वं नास्ति तत्रायं स्वरो मा भूदिति। यदि कृत्वपात्वसयाष्टनः षट्संज्ञा न स्यात्, तदात्वपक्षे षट्संज्ञायामसत्यां सावकाशोऽष्टनः स्वरः, तत्रापि षट्स्वरः प्राप्नोतीति कृत्वा। ततश्च यदि दीर्घग्रहणं न क्रियेत, तदानवकाशत्वाद्यदात्वपक्षेऽष्टनः स्वरो न भवति, तदेतरस्मिन्नपि पक्षे स्यात्। अतस्तन्निवृत्त्ये दीर्घग्रहणं क्रियमाणमर्थवद्भवति। कृतात्वस्याष्टनः षट्संज्ञायाम्--अष्टानामित्यत्र `षट्चतुभ्र्यश्च` 7|1|55 इति नुट्? सिद्धो भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
शसादिर्विभक्तिरुदात्ता । अष्टाभिर्दशभिः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अष्टनो दीर्घात् (2609) (दीर्घात्पदवैर्य्यथ्यबोधकभाष्यम्) दीर्घग्रहणं किमर्थम् अष्टसु प्रक्रमेषु ब्राह्मण आदधीत।। दीर्घादिति शक्यमकर्तुम्। कस्मान्न भवति ‐ अष्टसु प्रक्रमेषु ब्राह्मण आदधीतेति ? षट्स्वरोऽत्र बाधको भविष्यति। नाप्राप्ते षट्स्वरे अष्टनः स्वर आरभ्यते स यथैव दीर्घाद्वाधते,एवं ह्रस्वादपि बाधेत। न दीर्घात्षट्स्वरः प्राप्नोति। किं कारणम् ? आत्वे कृते षट्संज्ञाऽभावात् । अत उत्तरं पठति ‐ (6292 दीर्घात्पदस्य ज्ञापकत्वस्थापकवार्तिकम्) अष्टनो दीर्घग्रहणं षट्संज्ञाज्ञापकमाकारान्तस्य नुडर्थम्।।1।। अष्टनो दीर्घग्रहणं क्रियते ज्ञापकार्थम्। किं ज्ञाप्यम्? एतज्ज्ञापत्याचार्यः ‐ भवत्यात्वे कृते षट्संज्ञेति। किमेतस्य ज्ञापने प्रयोजनम्? आकारान्तस्य नुडर्थम् । आकारन्तस्य नुट् सिद्धो भवति ‐ अष्टनामिति।। ननु च नित्यमात्वम् एतदेव ज्ञापयति ‐ विभाषा आत्वमिति, यदयं दीर्घग्रहणं करोति। इतरथा हि अष्टनः इत्येव ब्रूयात्।।