Page loading... Please wait.
6|1|171 - ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः
॥ तस्मै पाणिनये नमः ॥
6|1|171
SK 3717
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः   🔊
सूत्रच्छेदः
ऊथ्-इदम्-पदादि-अप्- पुम्-रै-द्युभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऊट्ः इदम् पदादि अप् पुम् रै दिवित्येतेभ्यो ऽसर्वनामस्थानविभक्तिरुदात्ता भवति। ऊट्ः प्रष्टौहः। प्रष्ठौहा। ऊठ्युपधाग्रहणं कर्तव्यम्। इह मा भूत्, अक्षद्युवा। अक्षद्युवे। इदम् आभ्याम्। एभिः। अन्तोदात्तातित्यधिकारादन्वादेशे न भवति, अथो आभ्यां निपुणमधीतम् इति। पदादयः पद्दन्नोमास 6|1|63 इत्येवम् आदयो निश्पर्यन्ता इह गृह्यन्ते। नि पदश्चतुरो जहि। या दतो धावते। असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति। ग्रीवायां बद्धो अपि कक्ष आसनि। मत्स्यं न दीन उदनि क्षियन्तम्। अप् अपः पश्य। अद्भिः। अद्भ्यः। पुम् पुंसः। पुम्भ्याम्। पुम्भ्यः। पुंसा। पुंसे। रै रायः पश्य। राभ्याम्। राभिः। दिव् दिवः पश्य। दिवा। दिवे।
`प्रष्ठौहः` इति। `वहश्च` 3|2|64 इति ण्विः, `वाह ऊठ्` 6|4|132 इत्यूठ्, `एत्येधत्यूठ्सु` 6|1|86 इति वृद्धिः। `ऊठ्युपधाग्रहणम्` इति। उपदाभूत ऊड्? गृह्रते येन तदुपधाग्रहणम्` इति व्याख्यानं कत्र्तव्यमित्यर्थः। किमर्थम्? इत्यत आह--`इह मा भूत्` इति। तत्रैदं व्याख्यानम्--`अन्तोदात्तात्` 6|1|163 इत्यादिसुत्रादिहान्यतरस्यांग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते, तेनोपधाभूतादेव भवितव्यमिति तस्यैव ग्रहणं युक्तमिति। `अक्षद्युवा` इति। अक्षैर्दीष्यतीति क्विप्? `च्छ्ञोः शूडनुनासिके च` 6|4|19 इति वकारस्योठ्, यणादेशः। `आभ्याम्` इति। इदमस्त्यदाद्यत्वम्, `हलि लोपः` 7|2|113 इतीद्रूपस्य लोपः। `अथो आभ्याम्` इति। `इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ` 2|4|32 इत्यशादेशः। `निश्पर्यन्ता इह गृह्रन्ते` इति। एतदपि पूर्ववद्व्यवस्थितविभाषया लभ्यते, तस्यां हि सत्यां निश्पर्यन्तेभ्य एव भवितव्यम्। तेषामेव ग्रहणं युक्तमिति त एव गृह्रन्ते। `निपदः` इति। शसि परतः पादस्य पदादेशः। `दतः` इति। अत्रापि दन्तशब्दस्य ददादेशः। `आसन्` इति। अत्रासन्शब्दस्य सप्तम्येकवचनेऽसन्नित्ययमादेशः। `उदन्` इति। अत्रापयुदकशब्दस्योदन्नादेश-। `अद्भिः` इति। पकारस्य तकारः, तस्य जश्त्वम्--दकारः। `राभ्याम्` इति। `रायो हलि` 7|2|85 इत्यात्त्वम्॥
प्रष्ठौह इति। ठ्च्छन्दसि सहःऽ, ठ्वहश्चऽ इति ण्विः। वाह ऊठि ठेत्येधत्यूठसुऽ इति वृद्धिः। ऊठयुपधाग्रहणमिति। उपधाभूत ऊठ गृह्यते, न त्वन्त्य इत्यर्थः। पञ्चमीनिर्द्देशादन्त्यस्यैव ग्रहणे प्राप्ते वचनम्। अन्तोदातादित्यधिकारादन्वादेशे न भवतीति। अत एव हेतोः ठ्सावेकाचःऽ इत्यनेनापि न भवति। यदि स्यात्, इहान्तोदाताधिकारो व्यर्थः स्यात्। ननु च यदीमे नानुशसो अभ्यवर्षादिति शसोऽन्वादेशेन मा भूदिति प्रयोजनम्, ठेकाचःऽ इत्यधिकारादेव सिद्धम्, तथा च तदस्मै तथ्य तदस्य प्रियं प्रेणा तदेषामित्यादि सर्वानुदातं पदमधीयते। पदादयो निश्पर्यन्ता गृह्यन्त इति। ठ्पदन्नोमास्ऽ इति सूत्रे निर्द्दिष्टाः, तत्र एकाच इत्यनुवृतेनिशः परे न गृह्यन्ते। यदा त्वल्लोपे कृते एकाचो भवन्ति, तदोदातनिवृत्तिस्वरेण विभक्तेरुदातत्वं सिद्धम्। येऽप्याद्यौदातानां स्थाने विधीयन्ते आदेशास्ते तत्रैवान्तोदाता निपात्यन्ते। वृतावप्येतदेवोक्तं द्रष्टव्यम्। आसनीति। आस्यशब्दस्यासनादेशः। यत्रैकाचस्तेषां शसर्थं ग्रहणम् ॥
सिद्धान्तकौमुदी
एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा ॥ ।ऊठ्युपधाग्रहणं कर्तव्यम् (वार्तिकम्) ॥ इह मा भूत् । अक्षद्युवा (अक्ष॒द्युवा॑) । अक्षद्युवे । इदम् । एभिर्नृभिर्नृतमः (ए॒भिर्नृभि॒र्नृत॑मः) । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ (कौमुदी-350) इति सूत्रेणानुदात्तस्य अशो विधानात् । प्रते बभू (प्रते॑ ब॒भ्रू) । मभ्यां गा अनु (माभ्यां॒ गा अनु॑) । पद्दन्नोमास्हृन्निश् (कौमुदी-228) इति षट् पदादयः । पद्भ्यां भूमिः (प॒द्भ्यां भूमिः॑) । दद्भिर्न जिह्वा (द॒द्भिर्न जि॒ह्वा) । अहरहर्जायते मासिमासि (अह॑रहर्जायते मा॒सिमा॑सि) । मनश्चिन्महेहृद आ (मन॑श्चिन्मेहृ॒द आ) । अप् । अपां फेनेन (अ॒पां॒ फेने॑न) । पुम् । अभ्रातेव पुंसः (अ॒भ्रा॒तेव॑ पुं॒सः) । रै । राया वयम् (रा॒या व॒यम्) । रायोधर्ता विवस्वतः (रा॒योध॒र्ता वि॒वस्व॑तः) । दिव् । उपतत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दिवेदि॑वे) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ःढ़द्य;डिदंपदाद्यप्पुम्रैद्युभ्यः (2608) (पदादिविषये विशेषबोधकभाष्यम्) पदादिषु निश्पर्यन्तानि प्रयोजयन्ति । अन्यानि पदादीनि उदात्तनिवृत्तिस्वरेण सिद्धानि ।। (6291 उपसंख्यानवार्तिकम् ।। 1 ।।) - उठ्युपधाग्रहणम् - उठ्युपधाग्रहणं कर्तव्यम् । किं प्रयोजनम् ? अन्त्यप्रतिषेधार्थम् । अन्त्यस्य मा भूदिति । अक्षद्युवा, अक्षद्युवे ।।