Page loading... Please wait.
6|1|169 - अन्तोदत्तादुत्तरपदादन्यतरस्यामनित्यसमासे
॥ तस्मै पाणिनये नमः ॥
6|1|169
SK 3715
अन्तोदत्तादुत्तरपदादन्यतरस्यामनित्यसमासे  
सूत्रच्छेदः
अन्तोदत्तात् (पञ्चम्येकवचनम्) , उत्तरपदात् (पञ्चम्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्) , अनित्यसमासे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
एकाचः इति वर्तते, तृतीयादिर् विभक्तिरिति च। नित्यशब्दः स्वर्यते, तेन नित्याधिकारविहितः समासः पर्युदस्यते। नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदम् अन्तोदात्तम् एकाच्च तस्मात् परा तृतीयादिर् विभक्तिरन्यतरस्याम् उदात्ता भवति। परमवाच, परमवाचा। परमवाचे, परमवाचे। परमत्वचा, पर्मत्वचा। परमत्वचे, परमत्वचे। यदा विभक्तिरुदात्ता न भवति, तदा समासान्तोदात्तत्वम् एव। अन्तोदात्तातिति किम्? अवाचा। सुवाचा। सुत्वचा। तत्पुरुषो ऽयम्। तत्र तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमान. अव्ययय (*6,2.2.) इति पूर्वपदप्रकृतिस्वरः। उत्तरपदग्रहणम् एकाच्त्वेन उत्तरपदं विशेषयितुम्, अन्यथा हि समासविशेषणम् एतत् स्यात्। तत्र शुनः ऊर्क, श्वोर्जा इत्यत्र एव अयं विधिः स्यात्। अनित्यसमासे इति किम्। अग्निचिता। सोमसुता उपपदम् अतिङ् 2|2|19 इत्ययं नित्याधिकारे समासो विधीयते। तत्र गतिकारकौपपदात् कृत् 6|2|139 इत्युत्तरपदप्रकृतिस्वरेन चित्शब्दः उदात्तः। यस् तु विग्रहाभावेन नित्यसमासस् तत्र भवत्येव विकल्पः, अवाचा ब्राह्मणेन, सुबाचा ब्राह्मणेन इति। बहुव्रीहौ नञ्सुभ्याम् 6|2|172 इत्युत्तरपदान्तौदात्तत्वं भवति।
Text Unavailable. Please use feedback link below to provide the text if you have.
नित्यशब्दः स्वर्यते इति। स्वरितत्वमस्य क्रियत इत्यर्थः। तत्र स्वरितो गुणः क्रियारूपेण निर्द्दिष्टः, स्वरितत्वे सति किं भवति? इत्याह--तेनेति। ठ्स्वरितेनाधिकारःऽ इत्यत्रायमप्यर्थो व्याख्यातः--स्वरितेन लिङ्गेन यदत्राधिकारः स प्रत्येतव्य इति, ततो नित्याधिकारविहितः समासोऽत्र प्रतिषिध्यते। अवाचेति। नञ्समासः। तत्पुरुषोऽयमिति। न बहुव्रीहिः। तेन ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वं न भवति, अव्ययपूर्वपदप्रकृतिस्वर एव भवतीति भावः। प्रायेण तु सुवाचा, सुत्वचा इति पाठः। तत्र प्रत्युदाहरणादिगियं दर्शितेति व्याख्येयम्, न पुनरत्र प्रसङ्गः; प्रादिसमासस्य नित्यसमासत्वात्। अथोतरपदग्रहणं किमर्थम्, यावता ठनित्यसमासेऽ इत्याधारसप्तमी विज्ञास्यते---अनित्यसमासस्थान्तोदतादेकाचः परा तृतीयादिर्विभक्तिरिति, चच्चोतरपदमेव? तत्राह--उतरपदग्रहणमिति। अयं भावः--सत्सप्तमी विज्ञायेत, ततश्व समासस्याश्रयत्वातस्यैवेकात्त्वमन्तोदात्वं च विशेषणं स्यादिति। अग्निचिता, सोमसुतेति। ठग्नौ चेःऽ, ठ्सोमे सुञःऽ इति क्विप्। ठ्नित्यशब्दः स्वर्थतेऽ इति यदुक्तम्, तस्य प्रयोजनमाह--यस्त्विति ॥
सिद्धान्तकौमुदी
नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् परमवाचा ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यमासे (2606) (उत्तरपदग्रहणजिज्ञासाभाष्यम्) उत्तरपदग्रहणं किमर्थम् ? (उत्तरपदप्रयोजनभाष्यम्) यथैकाज्ग्रहणमुत्तरपदविशेषणं विज्ञायेत ‐ - एकाजुत्तरपदादिति । अथाक्रियमाण उत्तरपदग्रहणे कस्यैकाज्ग्रहणं विशेषणं स्यात् ? समासविशेषणम् । अस्ति चेदानीं कश्चिदेकाच्समासः, यदर्थमेकाज्ग्रहणं स्यात् ? अस्तीत्याह । शुनः उर्क् ‐ - श्वोर्क्, श्वोर्जा, श्वोर्ज इति ।।