Page loading... Please wait.
6|1|168 - सावेकाचस्तृतीयाऽऽदिविभक्तिः
॥ तस्मै पाणिनये नमः ॥
6|1|168
SK 3714
सावेकाचस्तृतीयाऽऽदिविभक्तिः  
सूत्रच्छेदः
सौ (सप्तम्येकवचनम्) , एकाचः (पञ्चम्येकवचनम्) , तृतीयादिः (प्रथमैकवचनम्) , विभक्तिः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सौ इति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम्। तत्र सौ य एकाच् तस्मत् परा तृतीयादिर् विभक्तिरुदात्ता भवति। वाचा। वाग्भ्याम्। वाग्भिः। वाग्भ्यः। याता। याद्भ्याम्। याद्भिः। सौ इति किम्? राज्ञा। रज्ञे। एकाचः इति किम्? हरिणा। गरिणा। राजसु। तृतीयादिः इति किम्? वाचौ। वाचः। विभक्तिः इति किम्? वाक्तरा। वाक्तमा। सप्तमीबहुवचनस्य ग्रहणादिह न भवति त्वया, त्वयि इति।
साविति प्रथमैकवचनस्येदं ग्रहणं स्यात्? सप्तमीबहुवचनस्य वा? उभयोर्वा? तत्र यदि प्रथमैकवचनस्य ग्रहणं स्यात्, त्वाया त्वयि इत्यत्रापि स्यात्। भवति हि युष्मच्छब्दसय `त्वाहौ सौ` 7|2|94 इति त्वादेशे कृते प्रथमैकवचने परत एकाच्त्वम्। सामान्येनोभयग्रहणेऽप्येष दोषः। सप्तमीबहुवचनस्य ग्रहणे नायं दोषः प्रसज्येत्, युष्मास्वित्यत्र युष्मच्छब्दस्यानेकाच्त्वमित्येतत्? सर्वं ह्मदि कृत्वाऽ‌ऽह--`साविति सप्तमीबहुवचनस्य ग्रहणम्` इति। `याद्भ्याम्` इति। याच्छब्दाच्छत्रन्तात्? तृतीया। `राज्ञे` इति। भवति राजञ्शब्दो भसंज्ञके परतो लोपे कृत एकाच्, न तुल सौ राजस्विति; तत्रानेकाच्त्वात्? `वाक्तरा, वाक्तमा` इति। तरप्तमबिति भवति वा तृतीयादिः, न तु विभक्तिः। अथ कस्मात्? सप्तमीबहुवचनग्रहणम्? इत्याह--`सप्तमीबहुवचनस्य` इत्यादि। `त्वया त्वयि` इति। युष्मदस्मदोः `मपर्यन्तस्य` 7|2|91 `त्वमावेकवचने` 7|2|97 इति त्वादेशः। परिशिष्टस्य `योऽचि` 7|2|89 इति यकारः॥
साविति सप्तमीबहुवचनस्य सुशब्दस्य गुहणमिति। न प्रथमैकवचनस्य; व्याख्यानात्। प्रयोजनं तूतरत्र वक्ष्यति। पातेति। पातेर्लटः शत्रादेशः। राज्ञेति। ठ्सौऽ इत्येत्स्मिन्नसत्येकाचः परा तृतीयादिविभक्तिरुदाता भवतीत्यर्थो भवति, भवति चायमल्लोपे कृते एकाच्। ननु च विहितविशेषणं विज्ञास्यते-एकाचो या विहिता तृतीयादिरिति ? न; प्रमाणाभावात्। सप्तमीबहुवचनस्य ग्रहणादिति। प्रथमैकवचने तु ठ्त्वाहौ सौऽ इति त्वादेशे कृते युष्मच्छब्द एकाच् भवति, शेषे लोपे कृतेऽकारान्तत्वात् ठ्साववर्णऽ इति प्रतिषेधो भविष्यति। तदिह प्रथमैकवचनाग्रहणे को हेतुरिति चिन्त्यम् ॥
सिद्धान्तकौमुदी
साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सावेकाचस्तृतीयादिर्विभक्तिः (2605) (सुपदार्थनिर्णायकभाष्यम्) साविति किमिदं प्रथमैकवचनस्य ग्रहणम्, आहोस्वित्सप्तमीबहुवचनस्य ? कुतः सन्देहः ? समानो निर्देशः । सप्तमीबहुवचनस्य ग्रहणम् । कथं ज्ञायते ? यदयं न गोश्वन्साववर्ण ‐ - 6|1|182 इति गोशुनोः प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? यदि प्रथमैकवचनस्य ग्रहणं स्यात् गोशुनोः प्रतिषेधवचनमनर्थकं स्यात् । ननु चार्थसिद्धिरेवैषा । अनुगृहीताः स्मः । यैरस्माभिः प्रथमैकवचनमास्थाय गोशुनोः प्रतिषेधो वक्तव्यः इति स न वक्तव्यो भवति । भवेत्प्रतिषेधो न वक्तव्यः । दोषास्तु भवन्ति । तत्र को दोषः ? स्विना, खिना । अन्तोदात्तत्वन्न प्राप्नोति । स्विखिनौ न स्तः । उक्तमेतत् ‐ - एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ।। स्ववान् खवान् इत्येव भवितव्यम् ।। इह तर्हि ‐ - याद्भ्याम् ‐ - यादि्भः ‐ - इति न सिध्यति । तस्मात्सप्तमीबहुवचनस्य ग्रहणम् ।। (6288 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।) - सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधः - सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधो वक्तव्यः । त्वया, मया ।। (6289 उपसंख्यानाक्षेपवार्तिकम् ।। 2 ।।) - सिद्धं तु यस्मात्तृतीयादिस्तस्याभावात्सौ - सिद्धमेतत् । कथम् ? यस्मादत्र तृतीयादिर्न तत्सावस्ति ।। यद्यपि तत् सौ नास्ति, प्रकृतिस्तस्य सावस्ति ।। (6290 आक्षेपसाधकवार्तिकम् ।। 3 ।।) - प्रकृतेस्त्वनेकाच्त्वात् - यद्यपि तस्य प्रकृतिरस्ति सावनेकाच्तु सा भवति ।।