Page loading... Please wait.
6|1|167 - चतुरः शसि
॥ तस्मै पाणिनये नमः ॥
6|1|167
SK 3682
चतुरः शसि   🔊
सूत्रच्छेदः
चतुरः (षष्ठ्येकवचनम्) , शसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
चतुरः शसि परतो ऽन्त उदात्तो भवति। चतुरः पश्य। चतस्रादेशे आद्युदात्तनिपातनाद् यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति चतस्रः पश्य इति।
`चतेरुरन्` (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वाच्चतुःशब्द आद्युदात्तः, तस्य हि शसि परतोऽनेनान्तो दात्तत्वं विधीयते। अथेह कस्मान्न भवति--चतरुआः पश्येति, चतरुआआदेशेऽपि चतुरः कृते स्थानिवद्भावेन न प्राप्नोति? इत्यत आह--`चतरुआआदेश` इत्यादि। चतरुआआदेश कृत आद्युदाततनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधक इत्याद्युदात्तत्वनिपातनाच्यतन्नः पश्येत्यत्रायं स्वरो न भवति। अथ वा पुरावात्? `अचि र ऋतः` 7|2|100 इति रादेशे कृत ऋकारसय तावन्न भवितव्यम्। अकारस्यापि `अचः परस्मिन्? पूर्वविधौ` 1|1|56 इति यणादेशस्य स्थानिवद्भावदृकारेम व्यवधाने सति न भवितव्यमेव। ननु च `न पदान्तद्विर्वचन` 1|1|58 इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः? नैतदस्ति; उक्तं हि तत्र `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` (का।वृ।1.1.59) इति, न चायं लोपाजादेशः॥
अनुकरणत्वेनार्थपरत्वाभावादेकवचनम्। इह चतस्रः पश्यैत्यत्र चतस्रादेशे कृते स्थानिवद्भावादयं स्वरः प्राप्नोति? तत्राह--चतस्रादेश इति। स्थानिवद्भावादेवाद्यौदातत्वे सिद्धे पुनराद्यौदातत्वनिपातनमस्य स्वरस्य बाधनार्थमिति। भावः। यथैव तर्हि निपातनस्वरः शस्स्वरंक बाधते, एवम् ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इत्येतमपि विभक्तिस्वरं बाधेत--चतसृणामिति? ज्ञापकात्सिद्धम्, यदयम् ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इति हलादिग्रहणं करोति, तज्ज्ञापयति--ठ्न निपातनस्वरो विभक्तिस्वरं बाधतेऽ इति। तद्धि तत्र न कर्तव्यम्, कथम् ? सर्वेषामपि बहुवचनविषयत्वाद् द्विवचनैकवचने न सम्भवतः। न चोपसमस्ते सम्भवः; विहितविसेषणाश्रयणात्। तत्र षड्भ्यस्तावत् जश्शसोर्लुका भवतिव्यम्। अन्याः सर्वा हलादयो विभक्त्यः। स्त्रीशब्दऽपि जसि न भवितयम्; असर्वनामस्थानमित्यधिकारात्, शसि भवितव्यम् ठेकादेश उदातेनोदातःऽ इति, अन्या हलादयः। तिसृशब्देऽपि जसि ठ्तिसृभ्यो जसःऽ इति भवितव्यम्, शस्यपि ठुदातयणो हलपूर्वात्ऽ इति, अन्या हलादयः। चतुर्-शब्देऽपि जस्यसर्वनामस्थान इति निषेधः, शसि ठ्चतुरः शशिऽ इत्ययमेव भवति, अन्यास्तु हलादयः। तदेतद्धलादिग्रहणं चतस्रः पश्येत्यत्र मा भूदित्येतदर्थमेव कृतम्। यदि च निपातनस्वरेण विभक्तिस्वरो बाध्येत हलादिग्रहणमनर्थकं स्यात्। चतस्रः पश्येत्यत्र निपातनस्वरेणैव बाधितत्वाद् विभक्तिस्वरस्याप्रसङ्गात् किं तन्निवृत्यर्थेन हलादिग्रहणेन! तत्क्रियमाणम्--विभक्तिस्वरस्य बलीयस्त्वं ज्ञापयतीति चतसृणामित्यत्र विभक्तिस्वरः सिद्धः। यणादेशस्य चेति। ठचि र ऋतःऽ इति रादेशस्यास्मात्स्वरात्पूर्वं परत्वात्कृतस्य। एतदुक्तं भवति--परत्वादादेशे कृते ऋकारस्य तावन्न भवति, तशब्दाकारस्यापि न भवति; रादेशस्य स्थानिवद्भावादिति। न च स्वरविधौ स्थानिवत्वनिषेधः, ठ्स्वरदीर्घयलोपेषु लोपजादेश एव न स्थानिवत्ऽ इति वचनात् ॥
सिद्धान्तकौमुदी
चतुरोन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र-(कौमुदी-299) इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
चतुरः शसि (2604) (प्रतिषेधोपसंख्यानभाष्यम्) शसि स्त्रियां प्रतिषेधो वक्तव्यः । चतस्रः पश्य ।। (6285 प्रतिषेधाक्षेपवार्तिकम् ।। 1 ।।) - चतुरः शसि स्त्रियामप्रतिषेध आद्युदात्तनिपातनात् - चतुरः शसि स्त्रियामप्रतिषेधः । अनर्थकः प्रतिषेधः ‐ - अप्रतिषेधः । शसि स्वरः कस्मान्न भवति ? आद्युदात्तनिपातनात् । आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधको भविष्यति ।। (उपदेशिवद्भावोपसंख्यानभाष्यम्) एवमप्युपदेशिवद्भावो वक्तव्यः । यथैव हि निपातनस्वरः शसि स्वरं बाधते, एवं विभक्तिस्वरमपि बाधेत ‐ - चतसृणामिति ।। (6286 उपदेशिवद्भावाक्षेपवार्तिकम् ।। 2 ।।) - विभक्तिस्वरभावश्च हलादिग्रहणात् - विभक्तिस्वरस्य च भावः सिद्धः । कुतः ? हलादिग्रहणात् । यदयं षट्त्रिचतुर्भ्यो हलादिः 6|1|179 इति हलादिग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ - न निपातनस्वरो विभक्तिस्वरं बाधत इति । कथं कृत्वा ज्ञापकम् ? (6287 आक्षेपसाधने ज्ञापनसाधकवार्तिकम् ।। 3 ।।) - आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् - आद्युदात्तनिपातने हि सति हलादिग्रहणमनर्थकं स्यात् । न ह्यन्यद्धलादिग्रहणं प्रयोजयति ‐ - अन्यदतश्चतसृशब्दात् ।। षट्संज्ञास्तावन्न प्रयोजयन्ति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । जसिशसी चातो लुप्येते । अन्याः सर्वा हलादयो विभक्तयः ।। त्रिशब्दश्चापि न प्रयोजयति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम्। शसि भवितव्यम् ‐ - एकादेश उदात्तेनोदात्तः इति । अन्या ‐ - सर्वा हलादयो विभक्तयः ।। तिसृशब्दोऽपि न प्रयोजयति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम् । शसि भवितव्यम् ‐ - उदात्तयणो हल्पूर्वात् 6|1|174 इति । अन्याः सर्वा हलादयो विभक्तयः ।। चतुः शब्दश्चापि न प्रयोजयति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वानामस्थानमिति वचनाज्जसि न भवितव्यम् । शसि भवितव्यम् ‐ - चतुरः शसि इति । अन्याः सर्वा हलादयो विभक्तयः ।। तत्र चतसृशब्दादेकस्माच्छस् ‐ - असर्वनामस्थानमजादिर्विभक्तिरस्ति । यदि चात्र निपातनस्वरः स्यात् हलादिग्रहणमनर्थकं स्यात् ।। (सिद्धान्तभाष्यम्) नैव वा पुनरत्र शसि स्वरः प्राप्नोति । किं कारणम् ? यणादेशे कृते शसः पूर्व उदात्तभावी नास्तीति कृत्वा । अवशिष्टस्य तर्हि प्राप्नोति । ऋकारेण व्यवहितत्वान्न भविष्यति । यणादेशे कृते नास्ति व्यवधानम् । स्थानिवद्भावाद्व्यवधानमेव । प्रतिषिध्यते तत्र स्थानिवद्भावः ‐ - स्वरविधिं प्रति न स्थानिवद्भवतीति । नैषोऽस्ति प्रतिषेधः । उक्तमेतत्प्रतिषेधे ‐ - स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवदिति ।।