Page loading... Please wait.
6|1|166 - तिसृभ्यो जसः
॥ तस्मै पाणिनये नमः ॥
6|1|166
SK 3713
तिसृभ्यो जसः   🔊
सूत्रच्छेदः
तिसृभ्यः (षष्ठीबहुवचनम्) , जसः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तिसृभ्य उत्तरस्य जसो ऽन्त उदात्तो भवति। तिस्रस्तिष्ठन्ति। उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8|2|4 इत्यस्य अपवादः। शसि उदात्तयणो हल्पूर्वात् 6|1|174 इति सिद्धे ऽन्यत्र बहुवचने षट्त्रिचतुर्भ्यो हलादिः 6|1|179 इति विधानात् जसेव लभ्यते इति जस्ग्रहणम् उपसमस्तार्थम् एके इच्छन्ति अतितिस्त्रौ इत्यत्र स्वरो मा भूतिति।
`तिरुआस्तष्ठन्ति` इति। `त्रिचतुरोः स्त्रियां तिसृचतसृ` 7|2|99 इति तिरुआआदेशः, `अचि र ऋतः` 7|2|100 इति ऋकारस्य रादेशः। `उदात्तस्वरितयोः` इत्यादि। त्रिशब्दः प्रातपदिकस्वरेणान्तोदात्त इति तदादेशोऽपि तिसृशब्दोऽन्तोदात्त एव। तत्र ऋकारस्यान्तोदात्तस्य स्थाने विहितो रफ उदात्तयण्? न भवति। ततः परस्य जसः `उदात्तस्वरितयोः` 8|2|4 इत्यादिना स्वरितः प्राप्नोति, अतोऽस्यायमपवादः। अथ जस्ग्रहमं किमर्थम्, तिसृकेऽप्यत्र मा भूदिति चेत्? स्यादेतत्--त्रिशब्दात्? संज्ञायां कनि कृते तत्र च `तिसृभावे कन्युपसंख्यानम्` (वा।837) इति तिरुआआदेशे तिसृकेत्यत्रापि स्यात्? असति जस्ग्रहण इति नैतदस्ति; नित्स्वरोऽत्र बाधको भविष्यति। नाप्रापते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव `अनुदात्तौ सुप्तितौ` 3|1|4 इत्येतत्स्वरं बाधते तथा नित्स्वरमिति चेत्? नैतदस्ति; यस्माद्येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते `अनुदात्तौ सुप्तितौ` 3|1|4 इत्येतस्मिन्? तिसृस्वर आरभ्यते, नित्स्वरे पुनः प्राप्ते चाप्राप्ते च। अथ वा मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते` (व्या।प।10) इत्येव तिसृस्वरे `अनुदात्तौ सुप्तितौ` 3|1|4 एत्येतं बाधिष्यते, न नित्स्वरम्। शसादिनिवृत्त्यर्थं तर्हि जस्ग्रहणमिति चेत्? एतदपि नास्ति; शसि तावद्भवितव्यमेवान्तोदात्तेन--`उदात्तयणो हल्पूर्वात्? 6|1|168 इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र `षट्त्रिचतुर्भ्यो हलादिः` 6|1|168 इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र `षट्त्रिचतुर्भ्यो हलादिः` 6|1|173 इति `झल्युपोत्तमम्` 6|1|77 इत्युदात्तत्वेन भव#इतव्यम्। बहुवचनविषयत्वाच्च तिसृशब्दसय द्विवचनैकवचने न स्तः। तत्रान्तरेण जस्ग्रहणं जस एव भविष्यतीत्यत आह--`जस्ग्रहणम्` इत्यादि। एके भाष्यकारादयः। असति जस्ग्रहणे तिसृ अतिक्रान्ताविति प्रादिसमासे कृते अतितिरुआआवित्यत्रापि स्यात्, तन्मा भूदित्येष दोष इत्युपसमस्तार्थं जस्ग्रहणमिच्छन्ति॥
अर्थगतं बहुत्वं शब्दे आरोप्य बहुवचननिर्द्देशः। तिस्न इति। अन्तोदातस्य त्रिशब्दस्य स्थाने तिसृशब्द आदेशः स्थानिवपद्भावादन्तोदातः। ठनुदातौ सुप्पितौऽ इति जसनुदातः, तत्राऽचि परतः ठचि र ऋतःऽ। ठ्जसःऽ इति किमर्थम् ? तिसृका, स्वार्थे क प्रत्ययः, ठ्तिसृभावे संज्ञायां कनिऽ इति तिस्रादेशः ? नित्स्व्रोऽत्र बाधको भविष्यति। नाप्रप्ते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव ठ्सुप्पितावनुदातौऽ इत्येतं बाधते एवं नित्स्वरमपि बाधेत ? नैष दोषः; येन नाप्राप्ते इत्येतस्य बाधनं भविष्यति, न वाप्राप्ते ठनुदातौ सुप्पितौऽ इत्येतस्मिन् तिसृस्वर आरभ्यते, तिसृकेत्यत्रापि हि टापा सहैकादेशस्य स्थानिवद्भात्पित्स्वरः प्राप्नोति। अथ वा ठ्मध्येऽपवादाः पूर्वान्विधीन्बाधन्तेऽ इति तिसृस्वरः ठनुदातौ सुप्पितौऽ इत्येतमेव बाधिष्यते, न नित्स्वरम्; बहुवचनविषयत्वाद् द्विवचनैकवचने न स्तः। शसि तु भवितव्यम् ठुदातयणो हल्पूर्वात्ऽ इति। अन्याः सर्वा हलादयो विभक्तयस्तत्र ठ्षट्त्रिचतुर्भ्यो हलादिःऽ ठ्झल्युपोतमम्ऽ इत्यनेन स्वरेण भवितव्यम्, तत्रान्तरेणापि जस्ग्रहणं जस एव भविष्यति ? अत आह-जस्ग्रहणमुपसमस्तार्थमिति। समासेऽपि तसृशिब्दात्परो जस् भविष्यति। अतितिस्राविति। अत्र ठतेरकृत्पदेऽ इत्यत्र ठतेर्धातुलोप इति वक्तव्यम्ऽ इति वचनात्प्राप्तमन्तोदातत्वं बाधित्वा विभक्तेरुदातत्वं स्यात्। जस्ग्रहणातु ठुदातस्वरितयोर्यणःऽ इति स्वरितो भवति। अतितिस्र इत्यत्र त्वनेन जस उदातत्वं भवत्येव ॥
सिद्धान्तकौमुदी
अन्त उदात्तः । तिस्रोद्यावः सवितुः (ति॒स्रोद्यावः॑ सवि॒तुः) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तिसृभ्यो जसः (2603) (विभक्त्युदात्ताधिकरणम्) (जस्ग्रहणप्रयोजनभाष्यम्) जस इति किमर्थम् ? तिसृका ।। (6284 प्रयोजनाक्षेपवार्तिकम् ।। 1 ।।) - तिसृभ्यो जस्ग्रहणानर्थक्यमन्यत्राभावात् - तिसृभ्यो जस्ग्रहणमनर्थकम् । किं कारणम् ? अन्यत्राभावात् । न ह्यन्यत् तिसृशब्दादन्तोदात्तत्वं प्रयोजयति, अन्यदतो जसः । किं कारणम् ? बहुवचनविषय एव तिसृशब्दः , तेनैकवचनद्विवचने न स्तः । शसि भवितव्यम् ‐ - उदात्तयणो हल्पूर्वात् 6|1|174 इति । अन्याः सर्वा हलादयो विभक्तयः, तत्र षट्त्रिचतुर्भ्यो हलादिः झल्युपोत्तमम् (6-1-179;80) इत्यनेन स्वरेण भवितव्यम् । तत्रान्तरेण जसो ग्रहणं जस एव भविष्यति ।। ननु चेदानीमेवोदाहृतम् ‐ - तिसृका ‐ - इति । नित्स्वरोऽत्र बाधको भविष्यति । नाप्राप्तेऽन्यस्वरे तिसृस्वर आरभ्यते, स यथैव अनुदात्तौ सुप्तितौ 3|1|4 इत्येतं स्वरं बाधते, एवं नित्स्वरमपि बाधेत ।। नैष दोषः । येन नाप्राप्ते तस्य बाधनं भवति । न चाप्राप्तेऽनुदात्तौ सुप्तितावित्येतस्मिंस्तिसृस्वर आरभ्यते, नित्स्वरे पुनः प्राप्ते चाप्राप्ते च । अथवा मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवं तिसृस्वरोऽनुदात्तौ सुप्पिताविति स्वरं बाधिष्यते, नित्स्वरं न बाधिष्यते ।। (जस्प्रयोजनभाष्यम्) उपसमस्तार्थमेके जसो ग्रहणमिच्छन्ति । अतितिस्रौ, अतितिस्रः ।।