Page loading... Please wait.
6|1|165 - कितः
॥ तस्मै पाणिनये नमः ॥
6|1|165
SK 3712
कितः   🔊
सूत्रच्छेदः
कितः (षष्ठ्येकवचनम्)
अनुवृत्तिः
उदात्तः  6|1|159 (प्रथमैकवचनम्) , तद्धितस्य  6|1|163 (षष्ठ्येकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
कितः तद्धितस्य उदात्तः
सूत्रार्थः
यः तद्धित-प्रत्ययः कित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।
यस्मिन् तद्धितप्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः "कित्" प्रत्ययः अस्ति इत्युच्यते । एतादृशः तद्धितसंज्ञकः कित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तः भवति ।

यथा - नड + फक् → ना॒डा॒य॒न । अत्र "फक्" अयम् तद्धितप्रत्ययः "कित्" अस्ति, अतः तस्य योजनेन निर्मितस्य समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः अनुदात्तं पदमेकवर्जम् 6|1|158 इत्यनेन अनुदात्ताः भवन्ति ।
One-line meaning in English
The word ending in a तद्धितसंज्ञक कित्-प्रत्यय become अन्तोदात्त.
काशिकावृत्तिः
तद्धितस्य इत्येव। तद्धितस्य कितो ऽन्त उदात्तो भवति। नडादिभ्यः फक् 4|1|99 नाडायनः। चारायणः। प्राग्वहतेष्ठक् 4|4|1 आक्षिकः। शालाकिकः।
प्रत्ययस्वरस्यापवादोऽयम्। `आक्षिकः, शालाकिकः` इति। `तेन दीव्यति` 4|4|2 इत्यर्थे ठक्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.