Page loading... Please wait.
6|1|164 - तद्धितस्य
॥ तस्मै पाणिनये नमः ॥
6|1|164
SK 3711
तद्धितस्य   🔊
सूत्रच्छेदः
तद्धितस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
उदात्तः  6|1|159 (प्रथमैकवचनम्) , चितः  6|1|163 (षष्ठ्येकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
चितः तद्धितस्य उदात्तः
सूत्रार्थः
यः तद्धित-प्रत्ययः चित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।
यस्मिन् तद्धितप्रत्यये चकारः इत्संज्ञकः अस्ति, सः प्रत्ययः "चित्" प्रत्ययः अस्ति इत्युच्यते । एतादृशः चित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तसंज्ञकः भवति ।

यथा - मञ्जु + लच् → म॒ञ्जु॒ल । अत्र समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः अनुदात्तं पदमेकवर्जम् 6|1|158 इत्यनेन अनुदात्ताः भवन्ति ।

ज्ञातव्यम् - वस्तुतः चितः 6|1|163 अनेन पूर्वसूत्रेणैव एतत् अन्तोदात्तत्वं सिद्ध्यति । परन्तु, प्रत्यये यदि ञकारः अपि इत्संज्ञकः अस्ति, तर्हि पूर्वसूत्रस्य अपवादत्वेन ञ्नित्यादिर्नित्यम् 6|1|197 इत्यनेन समुदायस्य आद्युदात्तत्वं भवति, न हि अन्तोदात्तत्वम् । अतः ञ्नित्यादिर्नित्यम् 6|1|197 एतं बाधयितुम् वर्तमानसूत्रस्य निर्मितिः कृता अस्ति । यदि कस्मिंश्चित् तद्धितप्रत्यये ञकारः चकारः - द्वावपि इत्संज्ञकौ स्तः, तर्हि ञ्नित्यादिर्नित्यम् 6|1|197 इत्यनेन समुदायस्य आद्युदात्तत्वे प्राप्ते, तं बाधित्वा वर्तमानसूत्रेण समुदायस्य अन्तोदात्तत्वं एव जायते । यथा - गोत्रे कुञ्जादिभ्यः च्फञ् 4|1|98 इत्यनेन "कुञ्ज" शब्दात् च्फञ्-प्रत्ययः भवति । "कुञ्ज + च्फञ् (+ बहुवचनस्य जस् प्रत्ययः) → कौञ्जायनाः " इति सिद्धे अत्र "कौञ्जायनाः" पदस्य -
1) चितः 6|1|163 इत्यनेन अन्तोदात्तत्वे प्राप्ते, तं बाधित्वा -
2) ञ्नित्यादिर्नित्यम् 6|1|197 इत्यनेन आद्युदात्तत्वे प्राप्ते, तमपि बाधित्वा -
3) तद्धितस्य 6|1|164 इत्यनेन पुनः अन्तोदात्तत्वं विधीयते ।

अतः "कौञ्जायनाः" अयं शब्दः स्वरैः सह लिखामश्चेत् - "कौ॒ञ्जा॒य॒नाः" एतादृशं लिख्यते । अत्र अन्तिमः स्वरः उदात्तः अस्ति, तथा अन्ये स्वराः अनुदात्तं पदमेकवर्जम् 6|1|158 इत्यनेन अनुदात्ताः भवन्ति ।
("कुञ्ज + च्फञ्" इत्यत्र प्रातिपदिकनिर्माणे तथा एकवचन-द्विवचनस्य रूपयोः "ञ्य" इति कश्चन अन्यः प्रत्ययः अपि स्वार्थे आगच्छति, तत्र च स्वरनिर्णयः भिन्नरूपेण क्रियते, अतः अत्र बहुवचनस्य उदाहरणम् दत्तम् अस्ति ।)
One-line meaning in English
The word ending in a तद्धितसंज्ञक चित्-प्रत्यय become अन्तोदात्त.
काशिकावृत्तिः
चितः इत्येव। चितस् तद्धितस्य अन्त उदात्तो भवति। गोत्रे कुञ्जाऽदिभ्यश्च्फञ् 4|1|98 कौञ्जायनाः। मौञ्जायनाः। किम् अर्थम् इदम्? परम् अपि ञित्स्वरं बाधित्वा ऽन्तोदात्तत्वम् एव यथा स्यादिति।
`कौञ्जायनाः` इति। `कुञ्जादिभ्यश्च्फञ्` 4|1|98 इति च्फञन्तात्? `व्रातच्फञोरस्त्रियाम्` 5|3|113 इत्यागतस्य अप्रत्ययस्य `तद्राजस्य बहुषु` 2|4|62 इत्यादिना लुक्। `किमर्थम्` इति। पुर्वेणैव सिद्धमिति मन्यमानस्य प्रश्नः। `परमपि` इत्यादि। च्फञो हि चकारः `व्रातच्फञोरस्त्रियाम्` 5|3|113 इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्धौ। यद्येवं नोच्येत तदा परत्वान्ञित्स्वरः स्यात्। तस्मात्तमपि बाधित्वान्तोदात्तत्वमेव यथा स्यादित्येवमर्थं क्रियते॥
कौञ्जायना इति। कुञ्जस्यापत्यानि बहुनि, ठ्गोत्रे कुञ्जादिभ्यश्च्फञ्ऽ, ठ्व्रातच्फञोरस्त्रियाम्ऽ इति ञ्यः, ठ्ञ्कयादयस्तद्राजाःऽ, ठ्तद्राजस्यबहुष्ऽ लुक्। किमर्थंमिति। पूर्वेण सिद्धमिति प्रश्नः। परमपीति। चकारः ठ्ब्रातच्फञोरस्त्रियाम्ऽ इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्ध्यर्थः, तत्रासत्यस्मिन्परत्वाद् ञित्स्वरः ॥
सिद्धान्तकौमुदी
चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.