Page loading... Please wait.
6|1|162 - धातोः
॥ तस्मै पाणिनये नमः ॥
6|1|162
SK 3671
धातोः   🔊
सूत्रच्छेदः
धातोः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्तः इत्येव। धातोरन्त उदात्तो भवति। पचति। पठति। ऊर्णोति। गोपायति। याति।
`ऊर्णोति` इति। अदादित्वाच्छपो लुक्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अन्त उदात्तः स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । असि सत्यः (असि॑ स॒त्यः) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
धातोः - (2599) (वार्तिकावतरणभाष्यम्) किं धातोरन्त उदात्तो भवति, आहोस्विदादिरिति ? कश्चात्र विशेषः ? (6278 अन्तोदात्तत्वे दोषवार्तिकम् ।। 1 ।।) - धातोरन्त इति चेदनुदात्तेचबग्रहणम् - धातोरन्त इति चेदनुदात्तेचबग्रहणं कर्तव्यम् । अभ्यस्तानामादिः अनुदात्ते च (6-1-189;190) इति वक्तव्यम् । बग्रहणं च कर्तव्यम् । बान्तश्च पिबतिराद्युदात्तो भवतीति वक्तव्यम् ।। (6279 अन्तोदात्तत्वे दोषवार्तिकम् ।। 2 ।।) - संश्च नित् - संश्च नित्कर्तव्यः । किं प्रयोजनम् ? चिकीर्षति, जिहीर्षति ‐ - नितीत्याद्युदात्तत्वं यथा स्यात् ।। अस्तु तर्ह्यादिः । (6280 आद्युदात्तत्वे दोषवार्तिकम् ।। 3 ।।) - आदावूर्णुप्रत्ययधातुष्वन्तोदात्तत्वम् - आदावूर्णुप्रत्ययधातुष्वन्तोदात्तत्वं न सिध्यति । उर्णोति । उर्णु ।। प्रत्ययधातु ‐ - गोपायति, धूपायति, ऋतीयते ।। (6281 सिद्धान्तवार्तिकम् ।। 4 ।।) - अन्तोदात्तवचनात्सिद्धम् - अस्तु तर्ह्यन्तोदात्तो भवतीति ।। ननु चोक्तम् ‐ - धातोरन्त इति चेदनुदात्तेचबग्रहणं कर्तव्यमिति । यत्तावदुच्यते ‐ - अनुदात्ते च ग्रहणं कर्तव्यमिति । क्रियते न्यास एव ‐ - अभ्यस्तानामादिः, अनुदात्ते च इति ।। बग्रहणं कर्तव्यमिति । (6282 सिद्धान्तसाधकवार्तिकम् ।। 5 ।।) - पिबौ निपातनात् - पिबावाद्युदात्तनिपातनं क्रियते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति ।। संश्च नित्कर्तव्य इति । अवश्यं सनो विशेषणार्थो नकारः कर्तव्यः । क्व विशेषणार्थेनार्थः ? सन्यङोः 6|1|9 इति । सयङोरितीयत्युच्यमाने ‐ - हंसः, वत्सः ‐ - अत्रापि प्राप्नोति । अर्थवद्ग्रहणेनानर्थकस्य इत्येवं न भविष्यति । इहापि तर्हि न प्राप्नोति ‐ - जुगुप्सते, मीमांसत इति । अर्थवानेषः । न वै कश्चिदर्थ आदिश्यते । यद्यपि कश्चिदर्थो नादिश्यते, अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति ‐ - इति ‐ - अन्ततः स्वार्थे भविष्यति । कश्चास्य स्वार्थः ? प्रकृत्यर्थः । इहापि तर्हि प्राप्नोति ‐ - हंसः, वत्सः ‐ - इति । उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ।। स एषोऽनन्यार्थो नकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यास एव ।। अथवा धातोरिति वर्तते । धातोः सशब्दान्तस्य द्वे भवति इति ।।